Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ 46 अनुसन्धान ३२ वि०?, स्वकुशलं - स्वस्य - आत्मीयस्य - ज्ञातेर्वा कुशलं - कल्याणं यस्मात् सः, तं तथैव । पुनः किंवि०?, इं- कामं रूपवत्त्वात् । पुनः किंवि०?, प्रवृत्तिःप्र-प्रकृष्टा-असावद्या वृत्तिर्वर्तनं यस्य । "अहो जिणेहिं असावज्जा वित्ती साहूण देसिया ।" इत्यागमोक्तेः स तं तथा । पुनः किंविशिष्टं ?, प्रीतिप्रमुखवचनं-प्रीतिसौहार्दै प्राति-पूरयतीति ड प्रत्यये प्रीतिप्रं ईदृशं मुखं-वदनं तथा वचनं-वाक्यं च यस्य स तं तथैव । भवान् किंविशिष्टः ?, हारः जनानां भूषाकरत्वात् । पुनः किंवि० भवान् ?, इध्य इव-वसन्त इवाऽऽचरन्-इष्यन्, शतरि, जनानां (नं) दकत्वात् । अत्र "स्वरे यत्वं चे"ति सूत्रेण विसर्गस्य यकारः ।।४।। धूमज्योतिःसलिलमरुतां सन्निपातः क मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृति कृपणाश्चेतनाऽचेतनेषु ॥५॥ व्याख्या - धूमज्योतिरित्यादि । तं श्रीगुरुं सन्देशार्था इति ययाचेयाचितवान् । सं-शोभनं देशेभ्योऽर्थ-द्रव्यम् । असी गत्यादानयोरिति असतिआदत्ते विपि समर्थविशेषणात् । सन्देशार्थाः नृपः(पाः) देशेभ्योऽर्थग्राहकत्वात् । इतीति किं हे पातः ! - हे रक्षक ! केषां ?, धूमज्योतिःसलिलमरुताम् । धूमेन युक्तो यो ज्योतिः-वह्निः, तथा सलिलं-जलं, तथा मरुत्-वायुः, एषां द्वन्द्वः । ततस्तेषां हे सन्-साधो, इ इत्यामन्त्रणे । प्रतिपक्षः 'परो रिपुरिति वाक्यात् परा:-शत्रवः सन्त्यस्मिन् असौ परी । न विद्यते ईदृशः शत्रुरहितत्वात् गणोगच्छो यस्य सः । अथवा अ:-कृष्णस्तद्वत् सर्वव्यापितया परि-समन्तात् चतुर्दिक्षु गणो यस्य सः । तस्याऽऽमन्त्रणे हे अपरिगण ! । कु:- भूमिस्तस्या रक्षकत्वात्, अ:-कृष्णः, तस्याऽऽ मन्त्रणं हे क्व ! | पटुः क-आत्मा यस्य स तस्याऽऽमन्त्रणे हे पटुक !। इ:- कामस्तत्र यो-यमः विध्वंसकत्वात, तस्याऽऽमन्त्रणं हे इय !! हे क:- हे ब्रह्मन् ! त्वं औत्सुक्यात् आम-आगच्छ। 'अम दुम गतौ' आयूर्वकः । त्वि (त्वं) किं कुर्वन् ?, यन्-विहरन् । त्वं किंविशिष्टः ?, कु-कुत्सिता अमारोगाः, कम्पः-खेदः, श्रमो-मूर्छत्यादयः यस्मात् स क्वमः । ईदृशः इ:-कामः तस्य घो-हननं यस्य सः क्वमेघः, "घ: कुम्भे हनने" इति सुधाकलशात् । पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50