Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
52
अनुसन्धान ३२
ग्रन्थभूयस्त्वभयान्नात्र लिख्यते । अहं हेतुः । चकारः पुनरर्थे । या - लक्ष्मी: अयंशुभदैवं पाति तत् तस्मात् हेतो: त्वं आं द्रक्ष ( क्ष्य) सि इत्यपि व्याख्येयम् । सत्-साधु यथा स्यात् तथा ॥ १०॥
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रातपत्रां, तुच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आकैलाशाद्विसकिशलयच्छेदपाथेयवन्तः,
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
व्याख्या कर्तुमित्यादि । उत्-ऊर्ध्वं शिरसि शिलि (लीं) न्ध्रोऽहिच्छत्रस्तदाकृतिवत् आतपत्रं - छत्रं यस्य सः, तस्य सम्बो० हे उच्छिलि (ली) न्ध्रातपत्र ! | अ:-कृष्णस्तद्वत् पराक्रमादिना श्रवणं श्रुतिर्यस्य सः, तस्य सम्बो० हे अश्रवण !। यद्भवान् "महावुत्सवतेजसी" त्यनेकार्थवचनात् महो यस्यास्तीति मही- तेजस्वी सन्, "गर्जितो मत्तकुञ्जरे, गर्जितं जलदध्वाने" इत्यनेकार्थवचनात् गर्जितं - उन्मत्तकुञ्जरं-सुभगं स्ववशत्वात् - सुन्दरं अथवा 'शसयोरैक्यात्' शुभं गच्छतीति शुभगं - शुभगतिकारकं उन्मत्तगतिनिषेधात् कर्तुं विधातुं प्रभवति समर्थो भवति, कोऽर्थः ? मत्तमतङ्गजोऽपि स्वबलेन वशीकर्तुं शक्यते इत्याशयः । तत् तस्मात् हेतो: ते तव आं-लक्ष्मीं ईदृशीं श्रुत्वा - आकर्ण्य । कीदृशीमित्याह-अः - कृष्णस्तस्येयं अणि सा ई, तां ई - कृष्णसम्बन्धिनीमित्यर्थः । "नभं तु नभसा साक" मिति शब्दप्रभेदवाक्यात् नभे-आकाशे सीदन्ति गच्छन्ति उप्रत्यये नभ: (नभसः) सत्त्वात् नभसा - देवाः, ते सन्त्यस्य स नभसी - देवतायुक्तः, स चासौ भवांश्च नभसिभवान्, तस्मात् नभसिभवतः - देवतायुक्तात् भवतः । राजहंसा:राजश्रेष्ठाः प्रधाना - राजानः ईदृशाः सम्पत्स्यन्ते । कीदृशा: ?, इत्याह- पाथेयवन्त:सम्बलयुक्ताः । तथा सह: - समर्थ: अय:- शुभदैवं येषां ते सहायाः । अथवा हयानां समूहो हायं, तेन सह विद्यन्ते ते सहायाः - अश्वसमूहयुक्ता इत्यर्थः । भवतः किम्भूतात् ?, आ-लक्ष्मीः तस्यां कैलाशः तस्मात् आकैलाशात् । अथवा कैलासं (शं) यावत् अतति सः, तस्य सम्बोधनं हे आकैलाशात् ! । विशिष्टा सा लक्ष्मीर्यस्य सः, तस्य सम्बो० हे बिस ! | किशलयवत् - मृणालवत् छा-निर्मला ई:- लक्ष्मी:, तथा दं- कलत्रं दानं वा यस्य सः, तस्य सम्बो० हे किशलयच्छेद ! । किशलयवत्-नवपल्लववत् तरुणत्वात् छा-निर्मला ई:- देहशोभा येषां तानि ईनि,
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50