Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 19
________________ 56 अनुसन्धान ३२ वल्मीको-रोगविशेषः तस्मात् अग्रात्-अधिकात् दुःखदातृत्वात् । धनुः किं०?, श्यामं विचित्रवर्णत्वात् कुत्रचित्प्रदेशे श्यामम् । पुनः धनुः किं०?, इवप्रेक्ष्यं[:]-कामस्तस्य वप्रः-तात:-श्रीकृष्णः तस्य ईक्ष्यं-दर्शनीयं मनोहरत्वात् । तव किम्भूतस्य ?, खण्डमाखण्डलस्य-खण्डानां-विसङ्ख्याकानां नवखण्डानां वा मालक्ष्मी[:]तया आखण्डल:-इन्द्रः स तथैव । पुनः किम्भूतस्य ?, गोपवेषस्यगोपो- भूपतिः तस्य वेषो यस्य स तथैव । पुनः किंवि० ?, विष्णोः-कृष्णस्य दुष्टशत्रुनिकृन्तनात् । तत्किमित्याह- येन धनुषा भवान् 'पुरत् अग्रेसरत्वे' इति वचनात् पुरतितरां-अतिशयेन अग्रेसरत्वं भजतीत्यर्थः । केनेव ? बर्हेणेवपरिवारेणेव । वः पुनरर्थे येन भवान् कान्ति-शोभां आपात्स्यते, किम्भूतेन ? स्फुरितरुचिना-स्फुरितरोचिषा ॥१५॥ त्वय्यायत्तं कृषिफलमिति भूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्यमालं किञ्चित्पश्चाद् व्रजलघुगतिर्भूय एवोत्तरेण ॥१६॥ व्याख्या-त्वया(य्या)यत्तमित्यादि । भ्रुवोविकार:-विकृतिः तत्राऽनभिज्ञःतदविधानात् अचतुरः, तस्य सम्बो० हे भ्रूविकारानभिज्ञ ! । अमालं-निष्कपटं यथा स्यात्तथा, त्वं क्षेत्रं-कलत्रं ईदृशं व्रज-जानीहि 'गत्यर्थानां ज्ञानार्थत्वात्' । केन ?, उत्तरेण अर्थाद् गुरूणाम् क्षेत्रं कीदृशं ?, 'शसयोरै० रलयोरैक्याच्च' सीरं-शीलं ब्रह्मचर्यं तस्य उत्कषणो-हिंसनः सुरभिर्गन्धो यस्य तत् तथैव । स्त्रीणां स्पर्शः शीलं नाशयतीति भावः । पुनः किम्भूतं ?, त्वयि कृषिवत् फलतीति तत् कृषिफलं । त्वयि किम्भूते ? एति-गच्छति 'गत्यर्थानां ज्ञानार्थत्वात्' जानातीति इत्, तस्मिन् इति-तत्त्वातत्त्वविचारके इत्यर्थः । पुन: किं० त्वयि ?, आरुहिकन्दर्पे, आ लक्ष्मीः तस्यां, 'रुहं जन्मनीति वचनात्- रुहति (रोहति) सः क्विपि स आरुट् तस्मिन् आरुहि । कोऽर्थः ? । त्वं कन्दर्पः रूपवत्त्वात् इति अस्मात् हेतोः । त्वयि क्षेत्रं अधीनं इत्यपि व्याख्येयम् । त्वं किम्भूतः ?, वधूलोचनैः पीयमानः कामादपि अधिकरूपावात्त्वात् । लोचनैः किम्भूतैः ? प्रीत्या-स्नेहेन स्निग्धैः मित्रैः मित्रतुल्यैरित्यर्थः । पुनस्त्वं किं०?, सती-शोभना या-लक्ष्मीर्यस्य स सद्यः । कुतः ?, चात्-चन्द्रात्, सुश्रीकत्वात् चन्द्रादधिक इत्यर्थः । पुनः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50