Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान ३२
तदाऽभ्यर्णवत्तिसर: सिन्धुकूपादिजलं सकलं व्ययितं दूरे एव जलं स्थितमिति भावः । भूरिदानं च दत्तमिति तात्पर्यार्थः । तस्याः कस्याः ? 'यत्तदोर्नित्यसम्बन्धात्' या आ-लक्ष्मीः सिन्धोः - समुद्रात् तनुं - देहं अवे: प्राप्त्यर्थत्वात् आव-प्राप । तनु (नुं) किंवि० ?, आत्- कृष्णात् अपि पृथुं महत्तरं - गुरुतरं । पुनः किंवि० ? नीलं - नीलमणिरूपं । पुनः किंवि० ?, एकं श्रेष्ठं । पुनः किंवि० ?, मुक्तागुणं - मुक्ताःत्यक्ता: अगुणाः अपगुणा येन स मुक्तागुणः तं मुक्तागुणम् । या किंवि० ? दूरात् भातीति डप्रत्यये दूरभा । त्वयि किं० ? शाङ्गिणः - कृष्णस्य वर्णो-यश:स्तुतिर्वा तस्य चौर:- अपहारकः सः तस्मिन् वर्णचौरे - कृष्णयश: सर्वस्वापहारके इत्यर्थः ॥५०॥
तामुत्तीर्य व्रजपरिचितभ्रूलता विभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५१॥
व्याख्या ॥ भ्रूलताया विभ्रमो - भ्रूसमुद्भवो विकारविशेषो विद्यते यासां ताः भ्रूलताविभ्रमाः विशेषणसामर्थ्यात् स्त्रियः, तासां भ्रूलताविभ्रमाणां स्त्रीणां व्रजो (व्रजः ) - समूह:, तेन परि-समन्तात् चितो - व्याप्तो यः तस्य सम्बो० हे व्रजपरिचित !! भूलताविभ्रमाणां किं० ?, प्रकर्षेण भातीति प्रभा, प्रकृष्टा वा प्रभा यासां ताः प्रभाः, तासां प्रभाणाम् । आत्-कृष्णात् उत्- ऊद्धर्वं प्राबल्येन वा क्षेपः- उपमादिभिः आधिक्यकरणं यस्य तस्य सं० हे उत्क्षेप ! पा-प्रौढा क्ष्माभूमिर्यस्य तस्य सम्बो० हे पक्ष्म ! परि सामस्त्येन विलसत् - देदीप्यमान्नं (नं) कृष्णवत्-विष्णुवत् सारं बलं धनं वा यस्य तस्य सं० [हे] परिविलसत्कृष्णसार ! | नुं - स्तुतिं गच्छति स नुगः, तस्य सम्बो० हे नुग ! | मधु-मद्यं कुर्वन्तीति मधुकरा:कल्यपालाः, तेषां श्रियं लक्ष्मीं शोभां वा मुष्णाति अपहरति यः स मधुकर श्रीमुषः । त्वया मद्यस्य करणं पानं च निषिद्धं, ते तु तत् कुर्वन्ति । ततस्तेषां शिक्षार्थं सर्वस्वापहारकः । तस्य सम्बो० हे मधुकर श्रीमुष ! | आम:श्रीआमनृपः श्रीबप्पभट्टिसूरिपादानां परमभक्तः, तथा त्वमपि श्रीहीरविजयसूरिपादानां ततु (तत्तु) ल्यः, तत्सम्बो० हे आम ! । दैः- कलत्रैः, "शं श्रेयसि सुखेऽव्यय" इति सुधाकलशवचनात् श:- श्रेयान् उत्कृष्टः, तत्सम्बो० हे दश !!
82
Jain Education International
-
For Private & Personal Use Only
-
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50