Page #1
--------------------------------------------------------------------------
________________
38
अनुसन्धान ३२ पं. मानसागरकृत मेघदूत-खण्डना ॥ अपूर्ण ॥
सं. विजयशीलचन्द्रसूरि 'मेघदूत' ए महाकवि कालिदासनी अनुपम अमर काव्यकृति छे. आ काव्यनी अनुकृतिरूपे के समस्या(पाद) पूर्तिरूपे केटकेटला दूतकाव्यो जैनजैनेतर विद्वानो द्वारा रचायां छे ! सिद्धदूत, शीलदूत, चेतोदूत, चन्द्रदूत, नेमिदूत, मेघदूतसमस्यालेख, इन्दुदूत, मयूरदूत - अने एवां तो अढळक काव्यो जडे छे, जे मेघदूतना प्रत्येक श्लोकना एक-मोट भागे अन्तिम चरणने उपाडीने बाकीनां ३ चरणोनी नवी रचनारूप होय. मेरुतुङ्गाचार्ये तो वळी 'जैनमेघदूत' पण रची आप्युं ! तो केटलाये जैन मुनिओए मेघदूत पर टीका पण लखी छे.
सन्देश-व्यवहार ए आपणी-मानवीय संस्कृतिना विकासनुं एक महत्त्वपूर्ण बिन्दु छे. स्थूल के बाह्य व्यवहार जगतमा सन्देशव्यवहार, जेम खास मूल्य छे, तेम मनुष्यना भावजगतमां, स्नेह, मैत्री, भक्ति वगेरेरूप भावात्मक के लागणीओना जगतमां पण सन्देशव्यवहारर्नु मोटुं मूल्य छे. आ मूल्य कालिदासने सौथी वहेलुं अने वधु समजायुं एटले तेणे तेनो मेघदूतमा विनियोग को. 'इश्के मिजाजी'नी आ काव्यरचना एक अपार्थिव अने तेथी अलौकिक प्रीतिनी कथा वर्णवती रचना छे. पछीथी घणा कविओ आने अनुसर्या छे, अने 'मेघ' जेवा विविध पदार्थोने भौतिक परिवेश अीने तेना द्वारा पोतानां पात्रो वच्चे सन्देश-व्यवहार करावतां रह्या छे.
जैन कविओनं चित्त 'इश्के हकीकी' प्रति वधु ढळतुं होय छे. एटले तेमणे रचेलां आ पादपूर्तिरूप दूतकाव्योनो सूर, संसारस्थ प्राणीनो परमात्मतत्त्व साथेना सन्देश-व्यवहारनो रह्यो छे. क्यारेक पोताना इष्ट परमात्मा साथे पत्रसन्धान के वार्तालाप, क्यारेक आत्मबोध, तो क्यारेक पोताना पूज्य गुरुजनो प्रत्ये विज्ञप्ति - एम विविध भावो प्रगटावतां आ दूत- पत्र-काव्यो जैन कविओ द्वारा रचायां छे. तेमांनां घणां बधां प्रसिद्ध पण थयां छे.
अत्रे जे रचना प्रगट थई रही छे, ते उपरोक्त तमाम रचनाओ करतां तद्दन जुदीज भातनी रचना छे, आ रचना नथी समस्या (पाद) पूर्तिरूप के नथी अनुकृतिरूप. आमां तो कालिदासना मूळ मेघदूतने यथावत् रहेवा दईने तेना
Page #2
--------------------------------------------------------------------------
________________
June-2005
39
तद्दन नवा, विलक्षण, आधुनिक अर्थघटननो एक समर्थ प्रयास थयेलो जोवा मळे छे. कर्ता पोते ज प्रारम्भना श्लोकमां सूचवे छे के -- "मेघदूतना नूतन अर्थो द्वारा हु अकबरनी स्तुति करीश" - (पद्य ६).
एकाक्षरी अने अनेकार्थी शब्दकोशो, तथा व्याकरणना केटलाक विचित्र नियमो अने सूत्रोनो आधार लईने, मेघदूतना श्लोकोना प्रत्येक पदनी तोडफोड के जोड़तोड करीने, तेना नवा ज अर्थ घटाववानुं दुर्घट के विकट प्रयोजन कविए साधी बताव्युं छे, जे अजोड छे, अने विस्मयप्रेरक पण. तेमणे पोते, आथी ज, आने 'मेघदूत-खण्डना' एवा नामे ओळखावेल छे. खण्डना एटले तोडफोड.
तपगच्छपति जैनाचार्य हीरविजयसूरि अने दिल्लीपति अकबर- ए बेनो सम्बन्ध तो इतिहाससिद्ध अने जगप्रसिद्ध छेज. ते बनो पात्रोनां गुणगान गावाना लक्ष्यने केन्द्रमा राखीने ते काळे अनेक कृतिओ रचाई होवानुं पण हवे सुपेरे जाणीतुं छे. परन्तु ते प्रयोजनने माटे 'मेघदूत' जेवा प्रेमकाव्य के सन्देशकाव्यनो उपयोग करवानुं सूझे, ते कवि विलक्षण प्रतिभाना स्वामी ज होवा जोईए, एमां शंका नथी.
अलबत्त, आवी रीते काव्यनां तमाम पदोने तोडी-जोडीने नीपजाववामां आवता अर्थो सुघट के सुगम होय छे तेवू तो जराय नथी. बल्के आवं करवाथी क्लिष्टता अने दुर्गमता ज वधती जणाय छे. तो पण, प्रसिद्ध वस्तुना प्रचलित अर्थाने साव छोडी दईने तेना नवा ज अर्थो नीपजाववा, ए कांई सामान्य अने सामान्य बुद्धि-प्रतिभानुं काम तो नथी ज नथी, एटलुं स्वीकारवू ज रह्यु..
पं. मानसागरजी ए हीरविजयसूरिशिष्य पं. बुद्धिसागरजीना शिष्य हता एवं, आ विवरण-कृतिना ४२ मा पद्यने अन्ते पोते आपेल पुष्पिका परथी नक्की थाय छे. तेमने विषे बीजी माहिती प्राप्य नथी, पण 'जैन साहित्यनो संक्षिप्त इतिहास' (मो. द. देसाई, पृ. ५९७)मां मळती नोंध प्रमाणे, "त, विजयसेनसूरिराज्ये (सं. १६५२-१६७१) बुद्धिसागर शि. मानसागरे शतार्थी पर वृत्ति रची." - ए परथी १७मा शतकना पश्चार्धमां तेओ विद्यमान होय तेम अनुमानी शकाय छे. आ सन्दर्भमां शतार्थी--वृत्तिनो जे उल्लेख थयो छे, ते प्रायः सोमप्रभाचार्यकृत शतार्थी (१ श्लोकना १०० अर्थ) उपरनी वृत्ति होय तो बनवाजोग छे. जोके मध्ययुगमां तो आवा विविध शतार्थी-ग्रन्थो रचाया छे.
Page #3
--------------------------------------------------------------------------
________________
40
अनुसन्धान ३२
मेघदूत - खण्डनानी आ वाचना, २७ पानांनी एक, १७मा शतकमां ज लखायेली जाती हायपोथीनी जेरोक्स प्रतिकृति उपरथी तैयार थई छे. प्रति अशुद्ध छे. केटलोक अंश छूटी गयो छेः पत्रो तूटतां नथी छतां पाठ तूट्यो छे मां लेखकनुं अनवधान काम करी गयुं हशे तेम लागे छे.
आ नकल मने मुनिराज श्रीधुरन्धरविजयजी महाराजे केटलांक वर्षो पूर्वे आपी हती. प्रायः ते तेओना निजी संग्रहनी प्रति हशे आ रचना अधूरी छे. ते आखी क्यांक ने क्यांक होवी ज जोईए. एक धारणा मुजब आगराना धर्मलक्ष्मी ज्ञानभण्डारमां आनी पूर्ण प्रति हती. आ संग्रह हाल कोबाना श्रीकैलाससागरसूरिश्रुतभण्डारमां होवानुं सांभळ्युं छे. जो ते आखी प्रति मळी शकशे, तो आ आखी कृतिनुं सम्पादन करवानी भावना रहे छे.
मेघदूतमां विश्राम के सर्ग एवा विभाग नथी. फक्त पूर्वमेघ अने उत्तरमेघ एम बे ज विभाजन होय छे. परन्तु अहीं तो प्रथम विश्राम ४२ पद्योमां पूरो थतो जोवा मळे छे, अने पछी १२ ज पद्यो थतां ज प्रथम सर्ग पूर्ण थयेलो वर्णवायो छे. अध्येताओ माटे आ मुद्दो नोंधपात्र छे. ५४मा पानी वृत्ति प्रतिमां ज नथी; पद्यनो पाठ आपीने प्रति पूरी थई छे.
परिशिष्टरूपे प्रतिगत पद्यो तेमज मुद्रित पुस्तकगत पद्योनी तालिका आपेल छे, जे अभ्यासीओ माटे उपयुक्त बने तेम छे. स्व. पण्डित दलसुखभाई मालवणिया ला. द. विद्यामन्दिरना नियामक पदे हता त्यारे एक एवो विचार तेमणे व्यक्त करेलो के " जैन साधुओए कालिदास - माघ- भारवि - श्रीहर्ष वगेरे महाकविओनां महाकाव्यो पर अनेक टीकाओ लखी छे तेनी पोथीओ पण विपुल मात्रामां प्राप्य छे. ते पोथीओमां नोंधायेल ते ते काव्योनी वाचनाओ नधाय तो ते तमाम काव्योनी वधु सशक्त अने वधु साची के सारी वाचनाओ उपलब्ध अवश्य थाय." प्रस्तुत टीका - कृतिमां जोवा मळता अमुक पाठ ते आ वातने पुष्टि आपी जाय छे. आ बहु रसप्रद तेमज महत्त्वपूर्ण मुद्दो छे.
आ प्रति परथी कृतिनी सुवाच्य नकल मुनि श्रीकल्याणकीर्तिविजय जीए वर्षो पूर्वे करी आपेली छे. प्रतिनी नकल आपवा बदल मुनिमित्र श्री धुरन्धरविजयजीनो ऋणस्वीकार करूं छं. आनी अन्य प्रति/प्रतिओ मेळवी आपवा विद्वज्जनोने - मुनिराजोने विज्ञप्ति करुं छं.
Page #4
--------------------------------------------------------------------------
________________
June-2005
41
पं. श्रीमानसागर विरचिता
मेघदूत-खण्डना ॥o || प्रसादो रविवद्यस्यास्तम:संहारकारणे । सद्यः प्रसद्य सा देयात् विद्यां मे श्रीसरस्वती ॥१॥ विश्राणयतु सा श्रीणां श्रेणि श्रीजिनमण्डली । नखत्विषः पुरो यस्यां भानुः खद्योतपोतति ||२|| श्रीमन्तः सूरयः सन्ति श्रीहीरविजयाभिधाः । क्रिया सुष्टु प्रिया येषां क्रियासुस्ते सुखश्रियम् ।।३।। पद्मा पुरःस्थिता येषां प्रत्यक्षा च सरस्वती । सुसिद्धः सूरिमन्त्रोऽपि धर्मो येषामकैतवः ॥४॥ तान् समाहूतवान् भूमान् गुरूनिव सुरेश्वरः । रहस्यं सर्वशास्त्राणां जिज्ञासुर्यवनेश्वरः ॥५॥ तेषां गुणावली येन वर्णिता निजपर्षदि । मेघदूतनवीनाथै स्तं कवेऽकबरं नृपम् ।।६।। तस्याद्यं पद्यम्कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥१॥
कश्चित्कान्तेत्यादि- चित्कान्त ! हे बुद्धिरम्य ! हे अविरह ! हे विरहवर्जित ! केन सह ? गुरुणा मातापित्रादिना । यदाह
माता पिता कलाचार्य एतेषां ज्ञातयस्तथा ।
वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥१|| अथाऽत्रैव श्रीअकबरनामाकर्षणपूर्वं सम्बोधनमाह- कः ककारः अन्ते यस्य स कान्त: । कान्तश्चासौ अः अकारश्च कान्ताः । अथ बवयोरैक्यात् कान्ताश्च बः
Page #5
--------------------------------------------------------------------------
________________
42
अनुसन्धान ३२
बकारश्च कान्ताबौ तौ विद्यते यस्मिन्निति कान्ताबी । ईदृश: र: रकारो यस्य नाम्नि स कान्ताबिर: तस्य सम्बोधनं हे कान्ताबिर ! हे अकबर ! । ह: पादपूरणे । अथवा हकारयुक्तो यो गुरुः स हगुरुः । ततः हगुरुतः श्रीहीरविजयगुरुतो णो ज्ञानं आश्रवादिविरमणरूपं यस्य । "णः प्रकटे नि:फले च प्रस्तुते ज्ञानबन्धयो"रिति सुधाकलशवाक्यात् । सः । तस्य सं. हे [हागुरुण ! अथवा हः ईश्वरः गुरुर्ब्रहस्पतिः । तद्वत् णो ज्ञानं यस्य स तथैव । "आत्मीयः स्वः स्वकीयश्चे"ति वचनात् .. अस्वा अनात्मीयत्वात् वैरिणस्तेषां आधिं मानसी व्यथां करोतीति, अथवा तेषां आधिर्मानसी व्यथा कारा बन्दिग्रहं(गृह)च यस्मात् सः । तस्य सम्बोधनं हे अस्वाधिकार ! अथवा न स्वेन द्रव्येण स्वत आत्मतो वा अधिकं आरं अरिसमूहो यस्य स तथैव ।
"शं श्रेयसि सुखेऽव्यय" इति सुधाकलशवचनात्, शानि मङ्गलानि । "शं शुभे" इति हैमवाक्यात् वा आप्नोतीति अचि तस्य सं. हे शाप ! । हे इन ! हे स्वामिन् !। कस्य ?, भर्तुः देशाधिपतेः । अथवा भर्ता देशादीनां अधिभूः तस्य मध्ये इनः सूर्यः प्रतापोदग्रत्वात् । चक्रेण-सेनया ई लक्ष्मीस्तस्या जनका उत्पादकाः तनयाः पुत्रा यस्य सः । तस्य सं० हे चक्रेजनकतनय ! | अः कृष्णस्तद्वत् ता लक्ष्मीर्यस्य स । तस्य सं. हे अत ! । स्निग्धानां मित्राणां छाया शोभा यस्मात् सः। तस्य सं० हे स्निग्धच्छाय ! । त्वं पुण्योदकेषु दानादिसुकृतजलेषु वसति रात्रि यावत् । 'कालाध्वनोनॆरन्तर्ये द्वितीया' । त्वं न न अस्नाः । 'द्वौ नौ प्रकृत्यर्थं सूचयत' इति न्यायात् अस्नाः स्नानं कृतवानित्यर्थः । त्वं किंविशिष्टः ?, को ब्रह्मा सकलकार्यकर्तृत्वात् । 'चिती संज्ञाने', चेतयती[तिक्विपि चित् । पुनः किं विशिष्टः ?, 'मदी हर्षे', क्तप्रत्यये मत्त इति सिद्धम् । प्र-प्रकर्षेण मत्त:हर्षितः प्रमत्तः । "मत्ता हर्षभरात्सुखं सुरेन्द्रा" इति वचनान्मत्तशब्दः क्षीबतावाचकोऽपि न दुष्टः । पुन: किंविशिष्टः ?, "महावुत्सवतो(ते)जसी" इति वाक्यात् महस्तेजोऽस्याऽस्तीति मही, अंशुमत्त्वात् सूर्यः । “मास्तु मासनिशाकरे" इति वाक्यात् माश्चन्द्रः । अस्तं प्रति गमितौ प्रापितौ महि-मासौ प्रतापसौम्याधिक्यात् सूर्या-चन्द्रमसौ येन सः अस्तङ्गमितमहिमाः । पुनः किंविशि० ?, वर्ष भरतक्षेत्रं तस्य भोग: पालनमस्यास्तीति वर्षभोगी ।
"भोगः सुराजे वेश्याभृतौ सुखे" ॥३८॥धनेऽहिकायफणयोः पालनाभ्यवहारयोः ॥"
Page #6
--------------------------------------------------------------------------
________________
June-2005
अथवा वर्षस्य - भरत क्षेत्रस्य भोगः - सुखं धनं वाऽस्याऽस्तीति वर्षभोगी । ए-ऐ हं-हैवदामन्त्रणे । भा-कान्तिस्तस्यै ऋतवो वसन्ताद्या यस्य सः । भर्तुः इति । इत्थमपि व्याख्येयम् । पुनः किं किं वि० ? ; यक्ष:- धनदः, दानसौ ( शौ) ण्डत्वात् । अथवा यो - यमस्तस्मिन् क्षः राक्षसः, विध्वंसकत्वात् । 'क्षः क्षेत्रे रक्षसी "ति वचनात् । पुण्योदकेषु किविशिष्टेषु ?, रुषु रक्षणेषु संसारात् "रु: सूर्ये रक्षणेऽपि चे 'ति वाक्यात् । पुनः किंविशि० ?, रामः रामचन्द्रस्तद्वद्गिरयः - पूज्या आश्रमाब्रह्मचर्यादयश्चत्वारो येभ्यः तानि रामगिर्याश्रमाणि तेषु तथैव । अथवा रामःरामचन्द्र:, स एव गिरि:- पर्वत:, तत्र आश्रमो - गृहं येषां तानि तेषु तथैव ॥ १ ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः सकामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्टः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
-
-
व्याख्या - तस्मिन्नद्रौ इत्यादि । स श्रीअकबरः तस्मिन् अद्रौ । अतन्तीति क्विपि अतो- जीवाः, तेषां रुः रक्षणं यस्मात् स अदुः, तस्मिन् अद्रौ - श्रीगुरौ कामी इच्छावान् अस्ति । "यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीति क्रिया अनुक्ताऽपि प्रयोक्तव्या" इति न्यायात् । आसान् - याचकान् । आ-लक्ष्मीस्तस्यां तस्या वा आशा- 'शसयोरैक्यात्' वाञ्छा विद्यते तेषां ते आशा:- याचकाः, लक्ष्मीवाञ्छक - त्वात् । तान् आशान् आं लक्ष्मीं नीत्वा प्रापय्य, नीत्वेत्यत्र 'आ' शब्दविश्लेषः । स किंविशिष्ट: ? - चिद् - बुद्धिः अबला :- स्त्रियः, आ-लक्ष्मीः, विविधं विशिष्टं वा प्राति- पूरयतीति विशेषणसामर्थ्यात् विप्रो धर्मः । अथवा विप्रा- ब्राह्मणाः । एभिर्युक्तः सहितः सः चिदबलाविप्रयुक्तः । “त्रिर्वर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्ये" ति वचनादनेन विशेषणेनाऽस्य त्रिवर्गसाधनं प्रोक्तम् । पुनः किं वि० ?, कनकवत् सुवर्णवत् बलं रूपं यस्य स कनकबलः । तथा यो- यमस्तस्य भ्रंशोऽधः पतनं पुण्यकरणादिना यस्मात् स यभ्रंशः । तथा रिक्तान् - धनहीनान् प्रान्ति पूरयन्ति रिक्तप्राः, ईदृशा: कोष्ठा - धान्यागाराणि यस्य स रिक्तप्रकोष्ठः । ततः कर्मधारयः । पुनः किंवि० ?, वप्रा दुर्गा: चित्रकूटादयः,क्रीडाः जलादीनां केलयः तथा परिणताः तिर्यग्घातिनः अथवा परिणता:
१. सोमप्रभाचार्यः सूक्तमुक्तावल्याम् ॥
2
43
Page #7
--------------------------------------------------------------------------
________________
44
अनुसन्धान ३२
वयःप्राप्ताः गजा:-दन्तिनः, तथा प्रेक्षणानि- नाटकानि, एते सन्त्यस्य स वप्रक्रीडापरिणगतजप्रेक्षणी । अद्रौ-श्रीगुरौ किंविशिष्टे ?, कति । क इवमित्रमिवाचरति, शतरि कन्, तस्मिन् कति । "क: सूर्य-मित्र-वाद्यग्नि-ब्रह्मात्मयम-केकिषु' इति सुधाकलशः । पुनः किंवि० गुरौ ?, आषाढस्यप्रथमदिवसेआषाढो वतिनां दण्डस्तेन स्यायन्ते गच्छन्तीति आषाढस्या:-'शसयोरैक्यात्' व्रतिनः । तेषां पूज्यत्वात् प्रथम आद्यः । अथवा आषाढे-आषाढमासे एव, न तु श्रावणादौ, स्यायन्ते-चलन्ति-विहरन्तीति डप्रत्यये आषाढस्या:-साधवः । श्रावणादौ विहाराभावात् । तेषां मध्ये प्रथमः-आदिमः स आषाढस्यप्रथमः । तथा दिवस्यस्वर्गस्य सा-लक्ष्मीर्यस्मात् स दिवसः । 'दिवं खे त्रिदिवे दिने" इति वाक्यात् । तत: कर्मधारयः । तस्मिन् आषाढस्यप्रथमदिवसे । स क इत्याह-यं-नरेन्द्रं दानाधिक्यात् मेघमा-जलद-लक्ष्मीः ददर्श-दृष्टवती । यं किंवि०?, आश्लिष्टाआलिङ्गिता । सातो-लक्ष्मीतः नुः-स्तुतिर्येन सः, तं आश्लिष्टसानुम् ।।२।।
तस्य स्थित्वा कथमपि पुरः केतकाधानहेतोः रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः कण्ठाश्लेषे प्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥
व्याख्या - तस्येत्यादि । तस्य श्रीनरेन्द्रस्य राजरा अपि - राजद्रव्यमपि, "रा: स्वर्ण जलदे धने" इति वाक्यात् । पुरो-नगर्याः कथं सुखभयत्राणं दध्योचिन्तयामास । "कं नीरसुखमूर्द्धसु" इति, "थो भवेत् भयरक्षणे" इति वाक्यात् कं च थश्च कथं । तत् किं कृत्वा ?, चिरं स्थित्वा-गतिनिवृत्तिं विधाय । राजरा: किंवि० ?, अन्तर्मध्ये शरीरस्य बाष्पो-दाहो यस्मात् सः । “सन्तापः सञ्चरो बाष्फः" इति वचनात् । अन्तर्बाष्यः । यद्वा अन्तर्मध्ये बाष्फ:-सन्ताप:-दुःखमिति यावत् यत्र सः अन्तर्बाष्फः । इदं द्रव्यस्य स्वभावकीर्तनम् । यतो द्रव्यं स्वभावादेव दुःखकारि । यत:
द्रव्यानामर्जने दुःखमर्जितानां च रक्षणे ।
आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥१।। इति । पुनः किंवि० ?, अनु-पश्चात् चरतीति अनुचरः । तस्य किंवि० ?, जस्य जेतुः अर्थात् शत्रूणाम् । “जस्तु जेतरीति" वचनात् । पुरः किंविशिष्टाया: ?,
For Pris
Page #8
--------------------------------------------------------------------------
________________
June-2005
45
केतकाधानहेतोः । केतकानां-केतकीवृक्षाणां उपलक्षणत्वात् वासन्ती-मालतीमागधीप्रभृतीनां आधानस्य-उत्पत्तेः हेतु:-कारणं या सा, तस्याः । तस्य कस्येत्याह - यत्तदोर्नित्यसम्बन्धात् यस्य श्रीनरेन्द्रस्य चेतो दूरसंस्थेऽपि जने लोकऽन्यथावृत्तिअन्यथाभावं नो भवति । "अमा-नो--ना प्रतिषेधे" इति वाक्यात्, न स्यादित्यर्थः । चेतः किंवि०?, सुखमस्यातीति सुखि तत् पुनः कण्ठाश्लेषप्रणयिनि-पुत्र-मित्रकलत्रादौ अन्यथावृत्ति किं स्यात् अपि तु न स्यादित्यर्थः । कण्ठाश्ले० किं विशिष्टे ?, मेघालोके-मेघवत् आह्लादकत्वात् सौम्यत्वात् वा । आलोको-दर्शनं यस्य स तस्मिन् ॥३॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थं जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्गैः कुटजकुसुमैः कल्पितार्थाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥
व्याख्या-प्रत्यासन्नेत्यादि । हे प्रत्यासन्न ! राजरङ्कादिविज्ञप्तिश्रवणे हे सन्निहित ! हे दयिताजीवित ! वल्लभाजीवित ! हे जीमूत ! 'भीमो भीमसेन' इत्यादिन्यायात् हे जीमूतवाहननृप ! लोकानां बाह्यप्राणभूतधनदानात् । यदुक्तम्
"कर्णस्त्वचं शिबिर्मासं जीवं जीमूतवाहनः ॥" इत्यादि । अयीति कोमलामन्त्रणे । “कुट: कुम्भ: करीरश्चे'"ति नाममालावचनात्कुटाज्जायते इति कुटजः, तस्याऽऽमन्त्रणं हे कुटज ! - कुम्भजन्मन् ! शत्रुसमुद्रशोषणात् । हे इन ! हे सूर्य ! व? "ई नभसि ई भुवि-श्रिया" मिति महीपवाक्यात् । ई-भमि-सैव नभ:-आकाशस्तत्र । कल्पितौ अर्थायौ- पूजा-लाभौ येन सः, तस्याऽऽमन्त्रणं हे कल्पितार्थाय ! तस्मै-पुंसे । तस्मै कस्मै ?, इत्याह- 'यत्तदोर्नित्यसम्बन्धात्' यः पुमान् प्रीत-इष्टो भवति इति तस्मै । “यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीत्यादिक्रियाऽनुक्ताऽपि प्रयोक्तव्ये"ति न्यायः । कैः कृत्वा ? कुसुमैः-पुष्पैः । किंविशिष्टैः ?, अग्रेः-प्रधानैः । स्वेषु-आत्मीयेषु-ज्ञातौ वा अगः पर्वतः तुङ्गत्वात् अथवा सुष्ठ आ लक्ष्मीः तां गच्छति प्राप्नोतीति तस्याऽऽमन्त्रणं हे स्वाग ! । स भवात्(न् ?) तं श्रीगुरुं प्रति व्याजहार बभाषे । तं किंविशिष्टं ? आलम्बनार्थंआलम्बनाः पततां अवष्टम्भदायका ईदृशाः अर्थाः सूत्राणां यत्र यस्य वा स तं तथैव । अथवा आलम्बनस्याऽर्थः प्रयोजनं यस्मात् स तम् । तथा पुनः किं
Page #9
--------------------------------------------------------------------------
________________
46
अनुसन्धान ३२
वि०?, स्वकुशलं - स्वस्य - आत्मीयस्य - ज्ञातेर्वा कुशलं - कल्याणं यस्मात् सः, तं तथैव । पुनः किंवि०?, इं- कामं रूपवत्त्वात् । पुनः किंवि०?, प्रवृत्तिःप्र-प्रकृष्टा-असावद्या वृत्तिर्वर्तनं यस्य ।
"अहो जिणेहिं असावज्जा वित्ती साहूण देसिया ।"
इत्यागमोक्तेः स तं तथा । पुनः किंविशिष्टं ?, प्रीतिप्रमुखवचनं-प्रीतिसौहार्दै प्राति-पूरयतीति ड प्रत्यये प्रीतिप्रं ईदृशं मुखं-वदनं तथा वचनं-वाक्यं च यस्य स तं तथैव । भवान् किंविशिष्टः ?, हारः जनानां भूषाकरत्वात् । पुनः किंवि० भवान् ?, इध्य इव-वसन्त इवाऽऽचरन्-इष्यन्, शतरि, जनानां (नं) दकत्वात् । अत्र "स्वरे यत्वं चे"ति सूत्रेण विसर्गस्य यकारः ।।४।।
धूमज्योतिःसलिलमरुतां सन्निपातः क मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे कामार्ता हि प्रकृति कृपणाश्चेतनाऽचेतनेषु ॥५॥
व्याख्या - धूमज्योतिरित्यादि । तं श्रीगुरुं सन्देशार्था इति ययाचेयाचितवान् । सं-शोभनं देशेभ्योऽर्थ-द्रव्यम् । असी गत्यादानयोरिति असतिआदत्ते विपि समर्थविशेषणात् । सन्देशार्थाः नृपः(पाः) देशेभ्योऽर्थग्राहकत्वात् । इतीति किं हे पातः ! - हे रक्षक ! केषां ?, धूमज्योतिःसलिलमरुताम् । धूमेन युक्तो यो ज्योतिः-वह्निः, तथा सलिलं-जलं, तथा मरुत्-वायुः, एषां द्वन्द्वः । ततस्तेषां हे सन्-साधो, इ इत्यामन्त्रणे । प्रतिपक्षः 'परो रिपुरिति वाक्यात् परा:-शत्रवः सन्त्यस्मिन् असौ परी । न विद्यते ईदृशः शत्रुरहितत्वात् गणोगच्छो यस्य सः । अथवा अ:-कृष्णस्तद्वत् सर्वव्यापितया परि-समन्तात् चतुर्दिक्षु गणो यस्य सः । तस्याऽऽमन्त्रणे हे अपरिगण ! । कु:- भूमिस्तस्या रक्षकत्वात्, अ:-कृष्णः, तस्याऽऽ मन्त्रणं हे क्व ! | पटुः क-आत्मा यस्य स तस्याऽऽमन्त्रणे हे पटुक !। इ:- कामस्तत्र यो-यमः विध्वंसकत्वात, तस्याऽऽमन्त्रणं हे इय !! हे क:- हे ब्रह्मन् ! त्वं औत्सुक्यात् आम-आगच्छ। 'अम दुम गतौ' आयूर्वकः । त्वि (त्वं) किं कुर्वन् ?, यन्-विहरन् । त्वं किंविशिष्टः ?, कु-कुत्सिता अमारोगाः, कम्पः-खेदः, श्रमो-मूर्छत्यादयः यस्मात् स क्वमः । ईदृशः इ:-कामः तस्य घो-हननं यस्य सः क्वमेघः, "घ: कुम्भे हनने" इति सुधाकलशात् । पुनः
Page #10
--------------------------------------------------------------------------
________________
June-2005
47
किंविशिष्टः ?, गुह्यानां-रहस्यानां आलोचनादौ प्रोक्तानां क:-मित्रं स गुह्यकः । सन्देशार्थाः किविशिष्टाः ?, अ:-कृष्णः कैः-रणैः -सङ्ग्रामैः । किंविशिष्टैः ?, प्राणिभिः-प्र-प्रकृष्टः आणः-शब्दो येषां ते प्राणा-निस्वानादयः, ते सन्त्येषु ते प्राणिनः, तैः प्राणिभिः । पुन: किंवि०?, प्र-प्रकृष्टा आपणा-हट्टा येषां ते प्रापणा:वणिजः, ते सन्त्यस्य स प्रापणी । पुनः किंवि०?, अर्ताहिप्रकृतिकृपणाः अहिवत्भुजगवत् क्रूरत्वात् प्रकृति:-स्वभावो येषां ते अहिप्रकृतयः वैरिणः । अर्तापीडिता अहिप्रकृतयो येन स अ हिप्रकृतिः । तथा कृपणान्-मितम्पचान् अस्यतिक्षिपति दानाधिक्यात् इति कृपणाः ततः कर्मधारयः । च पुनरर्थे । पुनः किंवि०?, इतो ज्ञातश्चासौ ना नरश्च स इतना-प्रसिद्धनरः । केषु ?, चेतनेषु-प्राणिषु ।।५।।
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाहूरबन्धुर्गताऽहं याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥६॥
व्याख्या- जातमित्यादि । पुष्करस्य-पद्मस्य पाणि-पादादौ आवर्तो यस्य स तस्याऽऽमन्त्रणं हे पुष्करावर्त !। हे दूर ! हे विप्रकृष्ट ! कुतः ?, विधिवशात्, विधि-विधाता, तस्य यो वशः, तस्मात्, स्वयं सकलकृत्यकर्तृत्वात् । याच्चामार्गणं तत्र अमोघः-सफल: तस्याऽऽमन्त्रणं हे याच्चामोध !! हे लब्धकाम ! लब्धाः-प्राप्ताः कामाः उपलक्षणत्वाद्भोगा येन स लब्धकाम: तस्य सम्बोध० । अ इत्यामन्त्रणे । “एते चतुर्दशाऽपि पादपूरणभर्त्सनामन्त्रणनिषेधेष्विति" बृहन्यासप्रामाण्यात् । अथवा लब्धाः-प्राप्ताः कामा:-शब्दादयः तै: अ:-कृष्णतुल्य: तस्य सम्बोध० हे लब्धकामा!। हे श्रीनरेन्द्र ! त्वां अहं ईदृशं जानामि । किंविशिष्टं ?, जातं-उत्पन्नं । कस्मिन् ?, वंशे । किविशिष्टे ?, भुवनविदिते । त्वां पुनः किंवि० ?, प्रकृतिपुरुष-प्रकृतीनां पौरामात्यादीनां पुरुष-आत्मा तम् । “पुरुषस्त्वात्मनि नरे" इत्यनेकार्थवचनात् । पुनः कि?, कामरूपं कामवत्-कन्दर्पवत् रूपं यस्य स तं तथैव । अहं किंवि० ?, बन्धुः-भ्राता रक्षकत्वात् । केषां ?, कानां वह्निवायु-वारीणाम् । इत्यनेन कवेः साधुत्वं वर्णितम् । साधुभिश्च वर्णितः पुरुषः उत्तमः स्यान्न चेतरैः । यदुक्तं
Page #11
--------------------------------------------------------------------------
________________
48
अनुसन्धान ३२
"साधवो यं प्रशंसन्ति तमाहुः पुरुषोत्तममित्यादि ।" तथा"चारणा यं प्रशंसन्ति यं प्रशंसन्ति मद्यपाः । बन्धुक्यो यूं प्रशंसन्ति तमाहुः पुरुषाधमम् ॥" इति । कः सूर्यमित्रवास्व(यव?)ग्निब्रह्मात्मयमकेकिषु ।
प्रकाशवक्रयोश्चापि कं तीरसुखमूर्द्धसु ॥ इति सुधाकलशः । तेन हेतुना त्वयि-त्वद्विषये मघोनः-इन्द्रस्य अर्थित्वं-याचकवृत्तित्वं अस्ति । अर्थित्वं किम्भूम?, गतो-नष्टः ऊहो-विचारो यत्र तत् गतोह-निर्विचारमित्यर्थः । पुन: किम्भूतं ? अवरं-अश्रेष्ठं । त्वयि किम्भूते ? अधिगुणे-प्राप्तगुणे, नाधमे-नकारस्य निषेधार्थत्वात् अगर्हणीये इत्यर्थः । "अधमो न्यूनगर्झयो"रित्यनेकार्थः ॥६॥
सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्यो ते वसतिरलकानामयक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥७॥
व्याख्या-सन्तप्तानामित्यादि । असिना-कृपाणेन शः- श्रेष्ठः । “शं श्रेयसि सखेऽव्ययः" | तस्य सम्बोधनं हे असिश !! अथवा 'शसयोरैक्यात' असौ-सालक्ष्मीर्यस्य सः, तस्य सम्बोधनं असिश !! सन्तप्तानां-दुःखाग्निप्रोषितानां हे पयोद !-हे जलदतुल्य !! सं-शोभनं ददाति, तस्य सम्बो० हे सन्द !-हे प्रिय ! कस्य ? मे-मम । आमा-रोगा न सन्त्यस्य स, तस्य सं० हे अनाम ! - हे यक्ष ! - हे धनद ! दानशौण्डत्वात् । “आ विधातरि मन्मथे" इति महीपवाक्यात् आमन्मथः तस्य, रम्यत्वात् उद्यानं क्रीडास्थानं तस्य सम्बो० हे ओद्यान ! । स्थित:गतिनिवृत्ति प्राप्तो हरः शम्भुर्यत्र तत् स्थितहरं ईदृशं शिरो-मस्तकं यस्य सः, तस्य सम्बो० हे स्थितहरशिरः !! तथा चन्द्रिकया धौतानि-क्षालितानि हाणि यस्य सः, तस्य सम्बो०। अथवा, "चन्द्रोऽम्बुकाम्ययोः स्वर्णे सुधांशौ कपूरे" इत्यनेकार्थवाक्यात् चन्द्रः-स्वर्णमस्त्येषु तानि चन्द्रीणि-स्वर्णवन्ति ईदृशानि । तथा क:-प्रकाशः तेन आ-समन्तात् धौतानि हाणि-धवलगृहाणि यस्य सः, तस्य सम्बो० हे चन्द्रिकाधौतहh !! अ इति सम्बोधनो(ने) । त्वं रणं-शब्दं हरअपनय । कस्य ? धनं-द्रव्यं तस्य पति-गमनं यस्मात् स धनपतिः, ईदृशो यः क्रोधः स एव विश्लेषी-विश्लेषितवान् यः तः-तस्करः सः, तस्य
Page #12
--------------------------------------------------------------------------
________________
June-2005
49
धनपतिकोधविश्लेषितस्य । किम्भूतं रणं ?, ई-बुद्धि श्यति-तनूकरोतीति इशः तम् । ई-लक्ष्मी वा श्यतीति ईशः तं ईशम् । किम्भूतस्त्वं ?, 'बवयोरैक्यात्' वाहा-अश्वाः सन्त्यस्य स वाही । तथा अयेन-शुभदैवेन, अ:-कृष्णः स अया: तस्य सम्बो० हे अया ! - शुभभाग्येन हे कृष्णतुल्य ! । हे नरेन्द्र ! इभ्यानां ईश्वराणां ते तव वसतिः-राजधानी गन्तव्या-गमनार्हा । कोऽर्थः ? यो नृपः क्रोधतस्करं निवारयति तस्याऽऽस्थानं गन्तव्यमिति भावः । कथम्भूता वसतिः ? अलका-ऋद्धिबाहुल्यादलकापुरीसदृशीत्यर्थः ॥७॥
अथ कश्चिन्निमित्तज्ञो नरेन्द्रं ब्रूतेत्वामारूढं पवनपदवीमुद्रहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥
व्याख्या - त्वामारूढमित्यादि । हे प!- हे रक्षक ! “पस्तु पातरी"ति वाक्यात् । वः पुनरर्थे । हे न ! - हे पूज्य ! “नकारो जिनपूज(ज्य)योरिति विश्वलोचने । अथवा पानि-प्रौढानि वनानि-गृहाणि गृहस्थत्वात् यस्य सः, तस्य सं० हे पवन ! । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थः । उत्प्राबल्येन गृहीत-आत्तः अलकायाः अन्तः-सीमा येन सः, तस्य सं० हे उद्गृहीतालकान्त ! । हे अविरह ! - हे विरहरहित ! त्वां प्रति आ:-लक्ष्म्यः प्रेक्षिष्यन्ते-गजतुरगादिकाः विलोकयिष्यन्ति; कुतः? अयात्-शुभदैवात् आशुशीघ्रम् । त्वां किम्भूतं?, पदवीं-राजपदवीं आरूढं प्राप्तं, आः किम्भूताः ?, केन-ब्रह्मणा वनिताः-याचिताः ताः कवनिताः ।
"वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ।।
वनितोत्पादितात्यर्थं रागनार्यपि नार्यपि ॥" इत्यनेकार्थः । पुनः किम्भूतं त्वां ?, अहं-न हन्तीत्यहः । तं अहं-दयालुं ज्ञात्वेति भावः । आः किं कुर्वन्त्यः इति ?, असन्त्य:-'असी गत्यादानयोः', गत्यर्थानां ज्ञानार्थत्वात् इति जानन्त्यः । इत्यव्ययोऽध्याहार्यः । किमित्याह-त्वयि संनद्धे सति कोऽपि-ब्रह्माऽपि जायांभार्यां उपेक्षेत । किम्भूताम् ?, विधुः- चन्द्रस्तद्वद्राजते इति डप्रत्यये विधुरा तां विधुरां । तथा इत्थं यः-यमोऽपि 'शसयोरैक्यात्' नश्यात्-नश्यतु इत्यर्थः । कथं
Page #13
--------------------------------------------------------------------------
________________
50
अनुसन्धान ३२
इव ? यथा अन्यो जनः पराधीनवृत्तिः - परवशः सन् त्वयि संनद्धे नश्यति तथा यमोऽपीत्यर्थः । तथा आः किम्भूता: ? "नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ " इति वाक्यात् सत्य:- शोभनाः । अनुस्वाराभावात् इत्यपि व्याख्येयम् ॥८॥ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगर्वः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥
व्याख्या
तत्र
मन्दं मन्दमित्यादि । "गर्भः कुक्षौ शिसौत्सन्धौ ( शिशौ सन्धौ) भ्रूणे पनसकण्टके मध्येऽग्नाऽपवरके" । इत्यनेकार्थवाक्यात् गर्भ:- सन्धि: तस्याऽऽधानं-निष्पादनं षड्गुणोपेतत्वाद् यस्य सः, तस्य सं० हे गर्भाधान ! 1 पे- पथि वाति - गच्छति तस्य सं० हे पव ! । हे नः !- हे नर ! अ:- कृष्णस्तद्वत् । "यो वातयशसोः पुंसी" ति विश्वलोचनवचनात् यो - यशो यस्य स अय:, तस्य सम्बो० हे अय ! | "थो भवेद् भयरक्षणे" इति वचनात् थो-भयरक्षणं, अः - कृष्णतुल्यः तस्य सं० हे था: ! । अथवा न यः अयः, अयः - अयशः, तस्य थो - भयरक्षकः तस्य सम्बोधनं हे अयथ ! | अ इति सम्बोधने । ते तव सः, गर्वोऽ ऽिहङ्कारः । त्वां मधुरं शिवधुरं नदति, "मश्चन्द्रे विधौ शिवे " इति वाक्यात्, म:- शिवः तद्वत् धूः -- धूर्वी यस्य स तं मधुरम् । कोऽर्थः ? तव गर्वः त्वां शिवं सकलकृत्यकर्तृत्त्वात् वक्तीति भावः । किम्भूतः गर्वः ?, अनुकूलः - आत्महितकारकः । पुनः किम्भूतः ?, वामः - प्रशस्तः स्वप्रतिज्ञानिर्वाहकत्वात् । स क इत्याह- 'यत्तदोर्नित्यसम्बन्धात्' यो गर्वः मन्दं - अलसमपि नरं तु ( नु ) दति अशक्यवस्तुविधाने प्रेरयति । तथा च पुनः मन्दं - मूर्खमपि नुदति, अपीत्यध्याहार्यम् । तव गर्वः पुनः किम्भूतः ? " चश्चन्द्रचकोरयो" रित्येकाक्षरवाक्यात् चवच्चन्द्रवत् अतति-निर्मलत्वात् सततं गच्छति स चातः, ईदृशः कः - आत्मा यस्य स चातकः । चः पुनरर्थे । नये - न्याये नो बुद्धिर्यस्य "नो बुद्धौ ज्ञानबन्धयो” रिति सुधाकलशात्, सः, तस्य सम्बोधनं हे नयन ! । त्वां बलाका:-राजान:- स्त्रियो वा सेविष्यन्ते - आश्रयिष्यन्ति । कुत: ? क्षणपरिचयात् । बलेन कटकेन अकन्तिकुटिलं गच्छन्ति ते बलाका- नृपा इत्यर्थः । बलेन रूपेण वाऽकन्तीति बलाका:स्त्रियः । ततश्च किम्भूता: ? आबद्धा - रचिता माला पुष्पादिदामपङ्क्तिर्वा यैर्याभिश्च
Page #14
--------------------------------------------------------------------------
________________
June-2005
आबद्धमालाः । अथवा आ-ब्रह्मा तेन बद्धं निबद्धं मालं- कपटं यासु ताः तथैव | क्षण:- नाडिकाषष्ठो भागः, तस्य यः परिचयः तस्मात्, बहुपरिचये किं पुन: ? । त्वां किम्भूतं ? सुभगं सर्वजनेष्टम् । पुनः किंविशिष्टं ? खानि - सुखानि, तथा इभा:-गजाः, खानि च इभाश्च खेभाः । ते सन्त्यस्य स खेभवान् तं खेभवन्तं नूनं - निश्चितम् ॥९॥
तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥१०॥
व्याख्या तां चाऽवश्यमित्यादि । दिवं स्वर्गः तद्वत् सा - लक्ष्मी: मणिस्वर्णादिरूपा यस्य सः तस्य सं० हे दिवस ! । एकपत्नी - सुचरित्रा स्त्री सैव मा-जननी यस्य; "मा मातरि तथा लक्ष्म्या " मिति वाक्यात् सः, तस्य सम्बो० हे एकपलीम !! भ्रातृजानां भ्रातृपुत्राणां कुटुम्बपोषकत्वात् आयो-लाभो यस्मात् सः, तस्य सम्बो० हे भ्रातृजाय ! । प्रगतं अयश:-अकीर्तिर्यस्मात् सः, तस्य सम्बोo प्रायश: ! । प्रणयि- प्रेमयुक्तं हृत्-हृदयं यस्य सः, तस्य सम्बोधनं क्रियते हे प्रणयित् ! तां आं- लक्ष्मीः त्वं अवश्यं द्रक्ष्यसि आं किम्भूतां ?, परां प्रकृष्टां त्वं किंविशिष्टः ?, विगतो ह: - हस्तो येषां ते विहाः, ईदृशा ये ता:- तस्करास्तेषां गतिः - पलायनं यस्मात् सः विहतगतिः । पुनः किम्भूतः ?, आशा-दिशस्तासां बन्धो यस्मात् सः, अथवा आशा - याचकानां धनप्राप्तिरूपा वाञ्छा तस्या बन्धो यस्मिन् सः आशाबन्ध: । पुनस्त्वं किम्भूतः ?, गणना - गणवत्-प्रमथवत् ना-नर अत एव लोकोक्त्या त्वं ईश्वरस्य निजभक्त इति सिद्धः । तां कामित्याह'यत्तदोर्नित्यसम्बन्धात्' या लक्ष्मीः । व्यापद् - विपत्तिः तस्या नाम- अभिधां रुणद्धि । क्व सति ? विप्रयोगे विविशिष्टः प्रयोग: प्रयुक्तिः दानधर्म्मादिकृत्यं, विविशिष्टं विविधं वा प्राति- पूरयतीति विप्रो - धर्म्मः । तस्य योगे सति या विपत्तिनाम आवृणोति व्यापन्नाम । किम्भूतं ? अङ्गनानां स्त्रीणां कुसुमसदृशं गर्हणीयत्वात्पुष्पतुल्यमित्यर्थः । ननु " वाक्यान्तरप्रवेशेन विच्छिन्नं खण्डितं मतं " - इति वाग्भटालङ्कारवचनादनुचितमिहेदम् । नैवम् । अलङ्कारचूडामणौ " क्वचिद गुणोऽपीति" भणनात् वाक्यान्तरप्रवेशेऽपि नाऽत्र दोषः । एवं अग्रेऽपि चिन्त्यं
ܩܩ
51
Page #15
--------------------------------------------------------------------------
________________
52
अनुसन्धान ३२
ग्रन्थभूयस्त्वभयान्नात्र लिख्यते । अहं हेतुः । चकारः पुनरर्थे । या - लक्ष्मी: अयंशुभदैवं पाति तत् तस्मात् हेतो: त्वं आं द्रक्ष ( क्ष्य) सि इत्यपि व्याख्येयम् । सत्-साधु यथा स्यात् तथा ॥ १०॥
कर्तुं यच्च प्रभवति महीमुच्छिलीन्ध्रातपत्रां, तुच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आकैलाशाद्विसकिशलयच्छेदपाथेयवन्तः,
सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११ ॥
व्याख्या कर्तुमित्यादि । उत्-ऊर्ध्वं शिरसि शिलि (लीं) न्ध्रोऽहिच्छत्रस्तदाकृतिवत् आतपत्रं - छत्रं यस्य सः, तस्य सम्बो० हे उच्छिलि (ली) न्ध्रातपत्र ! | अ:-कृष्णस्तद्वत् पराक्रमादिना श्रवणं श्रुतिर्यस्य सः, तस्य सम्बो० हे अश्रवण !। यद्भवान् "महावुत्सवतेजसी" त्यनेकार्थवचनात् महो यस्यास्तीति मही- तेजस्वी सन्, "गर्जितो मत्तकुञ्जरे, गर्जितं जलदध्वाने" इत्यनेकार्थवचनात् गर्जितं - उन्मत्तकुञ्जरं-सुभगं स्ववशत्वात् - सुन्दरं अथवा 'शसयोरैक्यात्' शुभं गच्छतीति शुभगं - शुभगतिकारकं उन्मत्तगतिनिषेधात् कर्तुं विधातुं प्रभवति समर्थो भवति, कोऽर्थः ? मत्तमतङ्गजोऽपि स्वबलेन वशीकर्तुं शक्यते इत्याशयः । तत् तस्मात् हेतो: ते तव आं-लक्ष्मीं ईदृशीं श्रुत्वा - आकर्ण्य । कीदृशीमित्याह-अः - कृष्णस्तस्येयं अणि सा ई, तां ई - कृष्णसम्बन्धिनीमित्यर्थः । "नभं तु नभसा साक" मिति शब्दप्रभेदवाक्यात् नभे-आकाशे सीदन्ति गच्छन्ति उप्रत्यये नभ: (नभसः) सत्त्वात् नभसा - देवाः, ते सन्त्यस्य स नभसी - देवतायुक्तः, स चासौ भवांश्च नभसिभवान्, तस्मात् नभसिभवतः - देवतायुक्तात् भवतः । राजहंसा:राजश्रेष्ठाः प्रधाना - राजानः ईदृशाः सम्पत्स्यन्ते । कीदृशा: ?, इत्याह- पाथेयवन्त:सम्बलयुक्ताः । तथा सह: - समर्थ: अय:- शुभदैवं येषां ते सहायाः । अथवा हयानां समूहो हायं, तेन सह विद्यन्ते ते सहायाः - अश्वसमूहयुक्ता इत्यर्थः । भवतः किम्भूतात् ?, आ-लक्ष्मीः तस्यां कैलाशः तस्मात् आकैलाशात् । अथवा कैलासं (शं) यावत् अतति सः, तस्य सम्बोधनं हे आकैलाशात् ! । विशिष्टा सा लक्ष्मीर्यस्य सः, तस्य सम्बो० हे बिस ! | किशलयवत् - मृणालवत् छा-निर्मला ई:- लक्ष्मी:, तथा दं- कलत्रं दानं वा यस्य सः, तस्य सम्बो० हे किशलयच्छेद ! । किशलयवत्-नवपल्लववत् तरुणत्वात् छा-निर्मला ई:- देहशोभा येषां तानि ईनि,
-
Page #16
--------------------------------------------------------------------------
________________
June-2005
53
दानि-कलत्राणि यस्य सः, तस्य सं० तथैव । अथवा भवतः-तव नभसि-व्योमनि राजहंसा:-राजानः श्रीशशाङ्काः, तथा हंसा:-श्रीसूर्य्याः, सहाया: सम्पत्स्यन्ते । पाथेयं-प्राचीनाचीर्णपुण्यरूपं तद्वन्तः-पाथेयवन्तः । पूज्यत्वाद्बहुत्वनिर्देशः । मानसे उत्-प्रधानं कं-सुखं आधिरहितत्वात् येषां ते मानसोत्काः । इदं कर्तृविशेषणम्
||११॥
आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्गय शैलं वन्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्फमुष्णम् ॥१२॥
व्याख्या-आपृच्छस्वेत्यादि । आ इत्यामन्त्रणे । सु-सुष्टु आगजतुरगादिरूपा लक्ष्मीर्यस्य सः, तस्य सं० हे स्व !! अथवा हे स्व !-आत्मीय ! हे प्रिय ! - गुरुविनयविधायकत्वात् मे-मम हे वल्लभ ! रघुपतिवत् पातिरक्षतीति रघुपतिपः]तस्य सं० हे रघुपति[प]!। हे अखल !-निष्पाप ! । "खलं कल्के भुव: स्थाने कूरे कर्णेजपे अधमे" इत्यनेकार्थवचनात् हे अखल !-- अक्रूर ! त्वं अमुं-श्रीगुरुं आलिङ्ग्य शैलं पृच्छ,-शीलं-साधुवृत्तं तस्य समूहः शैलं, तस्य कति भेदाः इत्यादिविचारस्य पृच्छां कुरु इत्यर्थः । अमुं किम्भूतं ?, दैः-दानैः अभय-सुपात्रादिभिः अङ्कितं लक्षितम् । 'शसयोरैक्यात्' आसु-शीघ्रम् । अमुं कं ?, इत्याह-यस्य गुरोः सं-शोभनं योग-अलब्धलाभं बोधिबीजरूपं इति 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञात्वा भवति-त्वद्विषये स्नेहव्यक्तिर्भवति, कोऽर्थः? अत्र स्नेहाविष्करणे मम लाभोऽस्तीति ज्ञात्वा यस्य स्नेहाविष्करणमतिभावः भवति । किम्भूते ?, अकाले-अ कृष्णवर्णे गैं(गौ)रवर्णत्वात् । पुनः किं० ?, कालेकृतान्तरूपे वैरिणां, अथवा काले प्रस्तावे सति यस्य नेहव्यक्तिर्भवति-निष्कारणं न स्यादित्यर्थः इत्यपि ज्ञेयम् । तस्य किं कुर्वतः ?, मुञ्चतः, कं ? बाष्कं-दाहं, कस्य?, भवः-संसारः तस्य, भवतः-संसारस्य । सार्वविभक्तिकः तस् । तस्मादिह षष्ठी ज्ञेया । बाष्पं किम्भूतं ?, उष्णं दुःसहत्वात् । पुनः किम्भूतं ?, चिरं विरह जनयतीति डप्रत्यये चिरविरहजम् ॥१२।।
मार्ग तावत् श्रृणु कथयतस्त्वत्प्रया या )णानुरूपं सन्देशं मे तदनु जलद ! श्रोष्यसि श्रोत्रपेयम् ।
Page #17
--------------------------------------------------------------------------
________________
54
अनुसन्धान ३२
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्ताऽसि यत्र क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥१३॥
व्याख्या- मार्गमित्यादि । मां-लक्ष्मी इता-प्राप्ता: ये दनुजाः-दानवाः । ल-इन्द्रः तद्वत् दो-दानं यस्य सः । अथवा "दो दातृदानयो"रिति सुधाकलशात् । तद्वत् दो-दाता सः, तस्य सं० हे मेतदनुजलद ! । सं०शोभनं दं-कलत्रं यस्य तस्य सम्बोधनं हे सन्द ! | "श्रोत्रपे कर्णमार्गे प: पाने पवने पथि" इति सुधाकलशः । त्वं यं गुरुं श्रोष्यति 'यत्तदोनित्यसम्बन्धात्'। तु-पुनः तस्य- श्रीगुरोः तावत् आदौ मार्ग-धर्माचरणरूपं श्रृणु । गुरुं किं० ?, ईशं - इ:-कामस्तस्य विनाशे ईशं-रुद्रप्रायं, । मार्ग किम्भूतं ?, अतन्ती[ति]क्विपि अत:-आत्मानः, तेषां प्रयाणानुरूपं-गमनयोग्यं । पुनः किं०? शिखरिषु पदं-वृक्षेषु श्रेष्ठं कल्पवृक्षं ई(इ)ष्टार्थपूरणात् । किं कुर्वतः गुरोः ?, कथयत:-प्ररूपयत: धर्माधर्मस्वरूपमिति शेषः । परि-सामस्त्यो(स्त्ये)न लघून्-अद्युम्नादिना ह्रस्वान् प(पा)ति-रक्षति तस्य सं० हे परिलघुप ! | तु पुनरर्थे । यत्र-गुरौ यो-यमोऽपि खिन्नः खिन्नः तथा क्षीणः क्षीणश्च भवति । गुरौ किम्भूते ?, श्रोतसां-इन्द्रियाणां उपयुजि-गृहीतरिनिग्रहकर्तरि इत्यर्थः । अ इति सम्बोधने । नितरां असौ-खङ्गे आ-लक्ष्मीर्यस्य सः, तस्य सं० हे न्यस्य !- नरेन्द्र ! त्वं गन्ताऽसि-, 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञाता वर्तसे । स्वयमेव विज्ञोऽसि तर्हि मयाऽस्य गुरोः किं स्वरूपं निरूप्यते इति भावः ॥१३॥
अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिदृष्टोत्साहश्चकितचकितं मुग्धसिद्धां श( ? )ताभिः (?)(द्धाङ्गनाभिः? )। अस्मात्स्थानात् सरसनिचुलादुत्पतोदे दङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१४॥
___ व्याख्या - अद्रेरित्यादि । अङ्ग इत्यमन्त्रणे । हे मुग्ध ! - हे रम्य ! हे सिद्ध ! - प्रतिष्ठाप्राप्स: (स!), हे स्थूलहस्त !- हे बृहत्कर ! दानादिशुभकृत्यकरणादित्यर्थः । खं-सुखं यथा स्यात् तथा । पथि-मार्गे । उत्प्राबल्ये तप(पत)गछा(च्छ)त्वं । किं कुर्वन् ? परिहरन्-निवारयन् । कान् ?, अवलेपान्-- मदान्, बहुत्वनिर्देशात् अष्टाऽपि ज्ञेयाः । केषां? दिशः-प्राच्यादिकाः चतस्रः, नागा:-हस्तिन: ते दिग्नागाः तेषाम् । नागशब्दग्रहणेन "ध्वजान्तो धर्मः गजान्ता
Page #18
--------------------------------------------------------------------------
________________
June-2005
55
लक्ष्मीः" इति वचनात् सर्वाऽपि लक्ष्मीज़ैया । पुनः किं० ?, उदङ्मुखःस्वे(श्वे)तवस्त्रपरिधानादौ अथवा उद्घट्वत्-उत्तरवत् । शुभकार्यादौ शुभमुखः श्रेष्ठः । यथोत्तरा दिग् शुभकार्यादौ मन्यते तथा त्वमपीत्यर्थः । पुनस्वं (स्त्वं ?) इति हेतोः, ईभिः-लक्ष्मीभिः खं-सुखं यथा स्यात्तथा उन्मुखी-ऊर्ध्वमुखवान् दृष्टः इति-अस्मात् हेतोः । कुतः इत्याह-असौ-नरेन्द्रः अद्रेः-सूर्यस्य शृङ्ग-प्रभुत्वंउत्कर्ष वा हरति-स्वप्रतापाधिक्यादयहरां(दपहर ?)तीत्यर्थः । शृङ्ग किंवि० ?, चकिताः-भीताः चः-चन्द्रः-चकोरा वा । तथा कः-सूर्यः तस्याऽपत्यं कि:यमः अर्कसूतत्वात्, शनिर्वा । तथा ता:-तस्कराः यस्मात् तत् चकितचकितम् । किंभूतः त्वं?, सरस:-शृङ्गारयुक्तः निचुल:-निचोलो यासां ताः सरसनिचुलाः, विशेषणसामर्थ्यात् स्त्रियः ।, ताः प्रति अतति-सततं गच्छति सम्भोगवशेन सः सरसनिचुलात् । पुनः किम्भूतः ?, 'शसयोरैक्यात्' अस्मानि-गिरिशिलाः तानि अदन्ति ते अस्मादः - खलशिलाकणभोजनत्वात् पारापताः, तेषां स्थानं अतति-- गच्छति स: अश्मात् । स्थानात् त्वम् पुनः किंवि०?, पुनः-पवनः पवित्रः । पुनः किंवि०?, सु-शोभनं एति-गच्छतीति क्विपि स्वित् । प्रभुत्वं किम्भूतं ? अत्साहंअद्भयः प्राणिभ्यः अर्थात् प्रजाभ्यः सां लक्ष्मी न हरति इति ड प्रत्ययेऽत्साहं, किमित्याश्चर्ये ॥१४॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्तात् वल्मीकानात्प्रभवति घ(ध )नुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥१५॥
व्याख्या - रत्नच्छायेत्यादि । रत्नवत्-मणिवत्, अथवा रत्नेभ्यः छायाशोभा यस्य सः, तस्य सम्बोधनं हे रत्नच्छाय ! । वल्मीकनामा महामुनिः तद्वत् अग्राः-प्रधानाः ते वाल्मीकानाः-श्रीगुरवः । त एव अत्-आत्मा यस्य सः, तस्य सं० हे वाल्मीकाग्रात् ! । ते-तव करे-हस्ते तत् धनुः-कोदण्डं प्रभवति । धनुः किम्भूतं ?, अति- "तकारस्तस्करे युद्ध" इति वचनात् त:-तस्करः, तस्याऽपत्यं तिः, न विद्यते ति:-तस्करपुत्रो यस्मात् तत् अति । अत एव धनुः किंवि० ?, अवत्येवं शीलं आवि-रक्षणशीलम् । कस्याः ?, पुरः-नगर्याः । कुतः ?, तात्तस्करात् । “त: तस्करे क्रोडपुच्छयो"रिति वाक्यात् । यद्वा तात् किम्भूतात् ?,
Page #19
--------------------------------------------------------------------------
________________
56
अनुसन्धान ३२ वल्मीको-रोगविशेषः तस्मात् अग्रात्-अधिकात् दुःखदातृत्वात् । धनुः किं०?, श्यामं विचित्रवर्णत्वात् कुत्रचित्प्रदेशे श्यामम् । पुनः धनुः किं०?, इवप्रेक्ष्यं[:]-कामस्तस्य वप्रः-तात:-श्रीकृष्णः तस्य ईक्ष्यं-दर्शनीयं मनोहरत्वात् । तव किम्भूतस्य ?, खण्डमाखण्डलस्य-खण्डानां-विसङ्ख्याकानां नवखण्डानां वा मालक्ष्मी[:]तया आखण्डल:-इन्द्रः स तथैव । पुनः किम्भूतस्य ?, गोपवेषस्यगोपो- भूपतिः तस्य वेषो यस्य स तथैव । पुनः किंवि० ?, विष्णोः-कृष्णस्य दुष्टशत्रुनिकृन्तनात् । तत्किमित्याह- येन धनुषा भवान् 'पुरत् अग्रेसरत्वे' इति वचनात् पुरतितरां-अतिशयेन अग्रेसरत्वं भजतीत्यर्थः । केनेव ? बर्हेणेवपरिवारेणेव । वः पुनरर्थे येन भवान् कान्ति-शोभां आपात्स्यते, किम्भूतेन ? स्फुरितरुचिना-स्फुरितरोचिषा ॥१५॥
त्वय्यायत्तं कृषिफलमिति भूविकारानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्यमालं किञ्चित्पश्चाद् व्रजलघुगतिर्भूय एवोत्तरेण ॥१६॥
व्याख्या-त्वया(य्या)यत्तमित्यादि । भ्रुवोविकार:-विकृतिः तत्राऽनभिज्ञःतदविधानात् अचतुरः, तस्य सम्बो० हे भ्रूविकारानभिज्ञ ! । अमालं-निष्कपटं यथा स्यात्तथा, त्वं क्षेत्रं-कलत्रं ईदृशं व्रज-जानीहि 'गत्यर्थानां ज्ञानार्थत्वात्' । केन ?, उत्तरेण अर्थाद् गुरूणाम् क्षेत्रं कीदृशं ?, 'शसयोरै० रलयोरैक्याच्च' सीरं-शीलं ब्रह्मचर्यं तस्य उत्कषणो-हिंसनः सुरभिर्गन्धो यस्य तत् तथैव । स्त्रीणां स्पर्शः शीलं नाशयतीति भावः । पुनः किम्भूतं ?, त्वयि कृषिवत् फलतीति तत् कृषिफलं । त्वयि किम्भूते ? एति-गच्छति 'गत्यर्थानां ज्ञानार्थत्वात्' जानातीति इत्, तस्मिन् इति-तत्त्वातत्त्वविचारके इत्यर्थः । पुन: किं० त्वयि ?, आरुहिकन्दर्पे, आ लक्ष्मीः तस्यां, 'रुहं जन्मनीति वचनात्- रुहति (रोहति) सः क्विपि स आरुट् तस्मिन् आरुहि । कोऽर्थः ? । त्वं कन्दर्पः रूपवत्त्वात् इति अस्मात् हेतोः । त्वयि क्षेत्रं अधीनं इत्यपि व्याख्येयम् । त्वं किम्भूतः ?, वधूलोचनैः पीयमानः कामादपि अधिकरूपावात्त्वात् । लोचनैः किम्भूतैः ? प्रीत्या-स्नेहेन स्निग्धैः मित्रैः मित्रतुल्यैरित्यर्थः । पुनस्त्वं किं०?, सती-शोभना या-लक्ष्मीर्यस्य स सद्यः । कुतः ?, चात्-चन्द्रात्, सुश्रीकत्वात् चन्द्रादधिक इत्यर्थः । पुनः
Page #20
--------------------------------------------------------------------------
________________
June-2005
57
किं०?, चिद्-बुद्धिः तया पाति-रक्षतीति चित्पः । पुनः किं० ?, लघु-शीघ्रं गति:- ज्ञानं यस्य सः, अथवा लघूनां-बालानां गतिः-मार्गो वा यः । यतः,
"दुर्बलानामनाथानां बालवृद्धतपस्विनाम्।। पिशुनैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥"
इति वचनात् सः लधुगति: । पुन: किं०?, भूः-भूमिः तस्याः सकाशात् या-लक्ष्मीर्यस्य सः भूयः । किमिति वितर्के । एव-निश्चितम् । अथवा ए इत्यामन्त्रणे, वेषु-ज्ञानेषु उत्तरं-श्रेष्ठं स्वपरहितत्वात् श्रुतं तेन वोत्तरेण । श्रुतज्ञानेन त्वं क्षेत्रं व्रजेत्यपि व्याख्येयम् । हे जन[प] ! हे जनरक्षक !, हे द !.- हे दायक ! ||१६||
त्वामासारप्रशमितवनोपप्लवं साधु मूर्जा वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । नक्षद्रोऽपि प्रथमसकतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ।।१७।।
व्याख्या-त्वामासारेत्यादि । आ-लक्ष्मीः तया सारः]-श्रेष्ठः । आसमन्तात् सारं-बलं यस्य वा सः । तस्य सं० हे आसार ! । सा-लक्ष्मीः तस्याः अनुमानं यस्मात् सः, तस्य [सं०]हे सानुमान !| त्वं, आम्रवत्-सहकारवत् कूट माया यस्मिन् सः आम्रकूट:-शत्रुः अन्तःकूटत्वात् । सहकारे हि मायित्वं स्यात् । यतः
"अन्तर्वहसि कषायं, बाह्याकारेण मधुरतां यासि ।।
सहकारविटपि मायिन् !, युक्तं लोकैर्बहिः क्षिप्तः ॥"
इति वचनात् आने अन्तःकषायित्वं बहिर्मधुरतादिलक्षणं कूटं स्यात् । ततोऽस्योपमा शत्रोरिति आम्रकूट:-शत्रुः त्वां मूर्जा-शिरसा वक्ष्यति-धारयिष्यति । साधु यथा स्यात्तथा । त्वां किम्भूतं ?, अध्वश्रमं मार्गश्रमं परिगच्छन्ति-डप्रत्यये अध्वश्रमपरिगा: ईदृशाः ताः-तस्कराः यस्मात् सः, तं अध्वश्रमपरिगतं । पुनः किम्भूतं ?, प्रशमितवनोपप्लवं-प्रशस्तं शं-सुखं यस्य सः-तं प्रशं त्वां । पुनः किवि०? इतं-प्राप्तं, "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानन" इत्यनेकार्थवचनात्; वनं-प्रवासो येन स इतवनः । ईदशः उपप्लव:-उपद्रवो यस्मात् स इतवनोपप्लवः । अथवा प्रशं-प्रशस्तसुखाय इतं-प्राप्तं वनं ननु (न तु)धन-सहजादिभवनं येन सः
Page #21
--------------------------------------------------------------------------
________________
58
अनुसन्धान ३२
प्रशमितवनः । ईदृशः उपप्लवो-राहुर्यस्य सः, तम् । तथा उच्चैः नक्षुद्रः-अक्षुद्रः, सज्जनोऽपि त्वां मूर्जा वक्ष्यति । तथा पुनः हे अक्षय ! सदोदयत्वात्, आं-श्रियं संश्रयते इति आसंश्रयः, ईदृशः अय:-शुभदैवं यस्य सः, तस्य सं० हे आसंश्रयाय ! भवति-त्वयि-त्वत्समीपे मित्रे-सहचरे प्राप्ते सति यः-यमोऽपि उच्चैः विमुखःपराङ्मुख:-विगतवक्त्रो वा किं न स्यात् ? अपि तु स्यादेवेत्यर्थः । य: किम्भूतः?, क्षुद्रः-तुच्छः । त्वयि किम्भूते ?, प्रथमसुकृतानि-प्राग्भवार्जितपुण्यानि आप्नोति स प्रथमसुकृतापः, तस्मिन् प्रथमसुकृतापे ॥१७॥
अध्वक्लान्तं प्रतिमुखगतं, सानुमानाम्रकूटः तुङ्गेन त्वां जलद शिरसा धारयिष्यत्यवश्यम् । आसारेण त्वमपि शमयेस्तस्य नैदार्थमग्नि सद्भावार्द्रः फलति नि(न)चिरेणोपकारो महत्सु ॥१८॥
व्याख्या-अध्वक्लान्तमित्यादि । सा-लक्ष्मीः, नुः-स्तुतिः, ज(त)योर्मानोगृहं, "मानश्चित्तोन्नती गृहे" इत्यनेकार्थः। सः, तस्य सं० हे सानुमान ! | तुङ्गानांउन्नतानां इनः-स्वामी, तस्य सं० हे तुङ्गेन ! । हे ज !- वैरिजेत: ! "जस्तु जेतरी"तिवाक्यात् ! ल-इन्द्रः तद्वत् दो-दानं यस्य, सं० हे लद !! त्वामाम्रकूट:शत्रुरपि शिरसा धारयिष्यति । त्वां किम्भूतं ?, अध्वा-मार्गो न्यायरूपः तस्मिन् "रलयोरैक्यात्' क्रान्त:-चलितः सः, तं अध्वक्लान्तम् । पुनः किं०?, प्रतिमुखगा:प्रतिकूलवक्त्रगा: ता:-तस्करा यस्मात् सः, तं प्रतिमुखगतम् । अवश्यं-निश्चितंनितरां ददाति ड प्रत्यये निदः-नृपः । अधिकारात् तस्याऽपत्यं नैदः, तस्य सं० हे नैद !--नृपतनय !। त्वं आ-समन्तात् सारेण-द्रव्येण-बलेन वा, तस्य-पुरुषस्य, अथवह्रि-दुःखमग्नि शमयेः । तस्य कस्येत्याह-'यत्तदोनित्य-सम्बन्धात्' यस्य उपकारः महत्सु-महानुभावेषु फलति । किम्भूतः ?, सन्-शोभनो यो भावः तेन आर्द्रः-क्लिन्नः सः सद्भावार्द्रः । न चिरेण-शीघ्रम् ॥१८||
छन्नोपान्तः परिणतफलज्यो( यो )तिभिः काननादै
स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । १. मेघदूतेऽयं प्रक्षिसत्वेन मतः श्लोकः ॥ २. वक्ष्यति श्लाघ्यमानः मु. मैघ० ।। ३. नैदाघ० मु. मेघ० ॥
Page #22
--------------------------------------------------------------------------
________________
June-2005
नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थां
मध्ये श्यामस्तन इव भुवः शेषविस्तारपाण्डुः ॥ १९ ॥
व्याख्या - छनोपान्त इत्यादि । अमरवत् - देववत् मिथुनं रतं सङ्गतिर्वा यस्य सः अमरमिथुन: । "मिथुनं रतसङ्गत्योनि (रि) "त्यनेकार्थः । तस्य सं० हे अमरमिथुन !! त्वं भुव:- पृथिव्याः मध्ये - अन्तरे प्रेक्षणीयां प्रकर्षेण दर्शनीयां अवस्थां दशां यास्यति । त्वं किम्भूतः ? निश्चलः । पुनः किम्भूतः ?, छन्नोपान्त:आवृतपार्श्वः । कै: ?, परिणतफलज्योतिभिः - परिणतं पक्कं फलं शुभाशुभरूपं, ज्यो (द्यो ) तयन्ति - शास्त्रेण प्रकाशयन्त्येवंशीलाः ते परिणतफलज्यो (द्यो ) तिन:- शास्त्रेण शुभाशुभफलप्रकाशनात् निमित्तज्ञाः तैः काननाम्रै: - वनसहकारतुल्यैः; सर्वेषां फलप्रदर्शनात् । पुनः किम्भूतः त्वं ?, मः - चन्द्रः स एव 'रलयोरैक्यात् ' चर:स्पशो यस्य सः । अथवा मवत् रात्रिचारित्वात् चरा यस्य स मचरः । पुनः किम्भूतः ?, श्याम:-प्रयागवटः सर्वेषां तापवारकत्वात्, अथवा अवत्-कृष्णवत् श्याम: - वृद्धदारको यस्य सः । पुनः किं० ?, तानां - तस्कराणां नो- बन्धो यस्मात् स तनः । काव्यस्य चित्रत्वात् विसर्गलोपः । पुनः किम्भूतः ? शेषवत्-शेषनागवत् यो विस्तारः तेन पाण्डुः - गौर: शेषविस्तारपाण्डुः । भुवो मध्ये किम्भूते ?, आरूढे -अध्युषिते । कस्मिन् ?, त्वयि - त्वद्विषये । किम्भूते त्वयि ?, स्निग्धा - अरूक्षा वेणी- केशबन्धो यस्य सः । तथा 'शसयोरैक्यात्' ईशो - महादेवस्तद्वत् वर्णा: - शरीरस्य स्तुतिर्वा यस्य सः । ततः कर्मधारयः, तस्मिन् स्निग्धवेणीसवर्णे । अथवा स्निग्धानां - मित्राणां वेणीसवर्णे- भूषकत्वात् शिरः शिखासमाने । अः - कृष्ण:तद्वत् मस्तके लक्षणापेतत्वात् शिखा - चूडा यस्य सः, तस्य सं० हे असिख ! हे र ! - हे नर ! | अथवा 'शसयोरैक्यात्' असि: खङ्गः तेन खर ! - अतीक्ष्ण !, राक्षसविशेषे वा विपक्षाणां भक्षकत्वात् सः, तस्य सं० तथैव । शेषवत् शेषनागवत् विस्तार:- प्रपञ्चो यस्य स तस्य सं० हे शेषविस्तार ! इत्यपि बोध्यम् । अनूनंअहीनं यथा स्यात् तथा । इ इति सम्बोधने । वकारः पुनरर्थे ||१९||
स्थित्वा तस्मिन्वनचरवधूभुक्तकुचे मुहूर्त्तं तोयोत्सर्गाद् द्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिस्थे(च्छे? ) दैरिव विरचितां भूतिमङ्गे गजस्य ॥२०॥
-
59
-
Page #23
--------------------------------------------------------------------------
________________
60
अनुसन्धान ३२
व्याख्या-स्थित्वेत्यादि । वनेषु-काननेषु चरा:-स्पशाः यस्य सः, तस्य सं० हे वनचर ! । वधूभिः आलिङ्गनादिना भुक्त-उपभुक्तः यः सः, तस्य सं० हे वधूभुक्त ! । तानां-तस्कराणां ऊ:-हिंसनं तत्र यो यमः सः, तस्य सं० हे तोय । द्रुता-विलीनाः ता:- तस्करा यस्मात् सः, तस्य सं० हे द्रुतत ! – हे नरेन्द्र ! । तस्मिन्-गुरौ सति त्वं भूति-समृद्धि द्रक्ष्यसि-विलोकयिष्यसि । तस्मिन् किम्भूते ?, उपलो-ग्रावा, तथा विषं-गरं, तद्वत् “परद्रव्याणि लेष्टुवत्" इत्य(त्यु)क्तेः, माकनकादिरूपा लक्ष्मीर्यस्य सः, तस्मिन् उपलविषमे । पुनः किम्भूते ?, "विन्ध्यो व्याधाऽद्रिभेदयो"रित्यनेकार्थवचनात् विन्ध्यो-व्याधो-वधको(क) इत्यर्थः । तनिषेधात् अविन्ध्यौ-अवधकौ-सर्बजीवप्रतिपात(ल)को पादौ यस्य सः अविन्ध्यपादः । तस्मिन् अविन्ध्यपादे । यत्तदोनित्यसम्बन्धात्' यः श्रीगुरुः उत्सर्गात् अनपवादमार्गात् कुञ्जे-कुडङ्गे मुहूर्त कालविशेषं स्थित्वा परं स्थविरकल्पमार्गाऽपेक्षया उत्कृष्टं वर्त्म-मार्गं जिनकल्परूपं तीर्ण-आचीर्णो भवतीत्यर्थः । यः किम्भूतः ? रस्य-कामस्य गति- शो यस्मात् स रगतिः । यद्वा रा-तीक्ष्णा गतिविहारो यस्य स रगतिः । भूति(ति)किम्भूतां ?, इ:-कामः स्व(स) एव गजः तस्य इगजस्य-कामगजेन्द्रस्य रेवां-कामगजोत्पत्तिहातात्वात् नर्मदातुल्यामित्यर्थः । पुनः किं०?, अविशीर्णा, कै:? दैः-दानैः अविच्छिन्ना याचकादौ त्यागविधानादक्ष(क्षा) मित्यर्थः । पुनः किं०?, इवविरचितां इं-कामं, "स्याद्वात् गतिहिंसयो" रिति वाति-हिनस्ति स इव: कामहननात् साधुः-शम्भुर्वा । यद्वा इ इति पादपूरणेऽव्ययः, वः शम्भुर्वा तेन विरचितां-कृतां, अङ्गेत्यामन्त्रणे ।।२०।।
तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टि ष्टि)जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तस्सारं घनतुलयितुं नाति( नि )ल: शक्षा क्ष्य )ति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णतागौरवाय ॥२१॥
व्याख्या-तस्यास्तिक्तैरित्यादि । वने-गृहे गजा-हस्तिनो यस्य । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थात्, सः, तस्य सं० हे वनगज ! हे तोय !- स्वच्छस्वभावत्वात् हे नीर ! मां-लक्ष्मी ददाति तस्य सम्बोधनं हे माद ! | आये-लाभे गः-गणेशः, "गो गन्धर्वगणेशयो"रिति सुधाकलशात्, सः, तस्य सं० हे आयग ! । हे घन !-हे दृढ ! प्रतिज्ञानिर्वाहकत्वात् । त्वां
Page #24
--------------------------------------------------------------------------
________________
June-2005
61
तुलयितुं-तव सादृश्यं कर्तुं आ-लक्ष्मी: तस्याः , “निस्तु नेतरी"त्येकाक्षरीवाक्यात् निः-नेता, स चासौ ल-इन्द्रश्च स-आनिल: न शक्ष्यति-न समर्थो भविष्यति । त्वां किम्भूतं ?,तस्या: समृद्धेः तिक्तै:-मनोज्ञैः मदैः-हर्षेः सितं-धवलं अशुभकर्मबन्धाभावात् । समुच(च्च)ये । लः किम्भूतः ?, वान्ता-उदगीर्णा वृष्टिर्येन स वान्तवृष्टि: "इन्द्रात्वृष्टि"रिति स्मृतेः ।२। पुनः कि० ? छा-निर्मला ई-लक्ष्मीर्यस्य सः छः । त्वां किम्भूतं ?, जम्बुः(म्बू:)-जम्बु(म्बू)द्वीपः, कुञ्जाः-निकुञ्जाः, तेषु प्रतिहतः-आहत: 'रलयोरैक्यात्' रयः-तूर्यत्रयी यस्य सः, तं तथैव । पुनः किम्भूतं ?, अन्तर्मध्ये सारं-बलं यस्य सः, तं अन्त:सारम् । १। भवति त्वत्समीपे सर्व: रिक्त:-अर्थहीनोऽपि जनः पूर्णतागौरवाय: स्यात्-पूर्णा-परिपूर्णा ता-लक्ष्मी:, तथा गौरवं म:-लघुर्लघिमानं प्रात: (?) तथा (?) यस्य सः पूर्णतागौः (?) । ह त्वं (?) तथा अयो-लाभो यस्य स पूर्णतागौरवायाः)। अत्र चित्रत्वात् विसर्गो, यद्वेदं पदं नृपविशेषणं क्रियते ततः हे पूर्णतागौरवाय ! त्वत्समीपे सर्वोऽपि रिक्तः 'रलयोरैक्यात्' लघुः-रघुर्भवति-रघुराजेव भाग्यवान् भवतीति भावः ॥२१॥
नीपं दृष्ट्वा हरितकपिशं केशरैरर्धरूढि( है )राविभूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । 'दग्धारण्येष्वधिकसुरभिं गन्धमाघ्राय चोाः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥२२॥
व्याख्या-नीपं दृष्ट्वेत्यादि । हरीणां-अश्वानां ता-लक्ष्मीर्यस्य सः, तस्य सं० हे हरित !। हे क !-हे मित्र ! जनहितत्वात् । अः-कृष्णः तद्वत् ऋद्धःसमृद्धः सः, तस्य सं० हे अर्द्ध ! दग्धानि अरण्यानि यैः ते दग्धारण्याः वह्निशस्त्रमयत्वात् । ईदृशा इषवः-बाणां(णाः) तैः अधिक:-अतिरिक्तः सः, तस्य सं० हे दग्धारण्येष्वधिक !। जेषु-जेतृषु ल-इन्द्रः, तस्य सं० हे जल !! हे ल !हे इन्द्र !! कस्याः ?, ऊर्ध्या:-पृथिव्याः । ते-तव 'शसयोरैक्यात्' शरैः-बाणैः 'रलयोरैक्यात्' दरी:-गिरिगुहाः उकुलाः । अनुकच्छं-कच्छं प्रति, अहं शङ्केविवर्कयामि । 'उरीश्वर' इति वाक्यात् ऊनां-एकादशरुद्राणां कुलं-गृहं यत्र ताः उकुला: । कोऽर्थः ?, आविः-प्रकटं, भूतेभ्य:-प्रेतेभ्य: प्रथम-अग्रेसरत्वं यथा स्यात्तथा भूतप्रथमं । शरैः किम्भूतै ?, "रु: सूर्ये रक्षणेऽपि चे"ति १. जग्ध्वारण्येष्वधिक० मु. मेघ० ॥
Page #25
--------------------------------------------------------------------------
________________
62
अनुसन्धान ३२ सुधाकलशवाक्यात् रुः-सूर्यः, तेन ऊढा:-स्वविमाने धारिताः ते रूढाः । तैः रूद्वैः । किं कृत्वा ?, नितरां ई-लक्ष्मीं पातीति नीपं एवंविधं कं-सुखं ते-तव दृष्ट्वा अहं शङ्के । अत एव वैरिणां विनाशात् त्वं सुखेन तिष्ठसीति भावः । चकारः पुनरर्थे । ते-तव सुरभि-शोभनं गन्धं प्रति मार्ग-मृगमदं सूचयिष्यन्तिकथयिष्यन्ति । के ?, इत्याह-सारङ्गाः-सबलपुरुषाः नृपति-श्रीपतिप्रभृतयः । यतः = "सारङ्गश्चातके भृङ्गे कुरुगे(रङ्गे ?) च मतङ्गजे ।
पक्षिभेदे च सारङ्गः सारङ्गः सबलेष्वपि ॥१॥ "इति । किं कृत्वा ?, आघ्राय-सिङ्घित्वा । तव किम्भूतस्य ?, बमुच:-‘बवयोरैक्यात्'-"बकारो वरुणे पद्मे कलहे विगतौ" इति सुधाकलशवाक्यात् बं-कलहं मुञ्चति-त्यजति, विपि स बमुग्, तस्य बमुचः । “वष्टि भागुरि"रित्यादिना अपेरकारलोप: ।।२२।।
अम्भोबिन्दुग्रहणरभसांश्चातका का न्वीक्षमाणाः श्रेणीभूताः परिगणनया निद्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥२३॥
व्याख्या- अम्भोबिन्दु इत्यादि । भो इत्यामन्त्रणे । हे निप्रिय ! - नितरां प्रियो-वल्लभस्तस्य सं० । अथवा "निस्तु नेतरि" इत्येकाक्षरीवचनात् नीनांभूमिपतीनां प्रियः तस्य सं० हे निप्रिय ! । सहचरीभिः सम्भ्रमेण त्वरया आलिङ्गितअ(आ)श्लिष्टः, तस्य सं० हे सहचरीसंभ्रमालिङ्गित !। त्वां-अर्थात् श्राद्धं आसाद्यप्राप्य सिद्धाः-सर्वप्रकारैः प्राप्तप्रतिष्ठा:- श्रीपरमगुरवः मानयिष्यन्ति । क्व ?, स्तनितसमये । स्तनित-उक्तः अर्थाद् भगवा(व)ता यः समय:-सिद्धान्तः तस्मिन सिद्धाः । किं कुर्वाणाः ?, वीक्षमाणाः- पश्यन्तः । कान् ? अतन्ति-सततं गच्छन्ति इति आतका:-प्राणिनः तान् आतकान् । किम्भूतान् ?, 'बवयोरैक्यात्' उ:शम्भुः, इन्दुः-चन्द्रः, तयोर्देवत्वेन ग्रहणं-देवताबुद्ध्याऽङ्गीकरणं तत्र रभसा:[उत्सुकायन्ते, तथैव तान् बिन्दुग्रहणरभसान्-मिथ्यात्विनः पश्यन्तः इत्यर्थः । पुनः किं कुर्वन्तः ?, निद्दिशन्तः । किं?, अं-परब्रह्म प्ररूपयन्त इत्यर्थः । पुनः कि० ?, श्रेणीभूताः-उपशमश्रेणीभूता इत्यर्थः । कथं ?, अनि-न विद्यते इ:कामो यत्र तत् अनि-अकामं यथा स्यात्तथा श्रेणीभूता इत्यर्थः । पुनः किम्भूताः?,
१. क्षेपकोऽयमिति मु. मेघ० ।।
Page #26
--------------------------------------------------------------------------
________________
June-2005
परि-समन्तात् गणे-गच्छे नयो-न्यायो येषां ते परिगणनयाः । पुनः किम्भूताः ?, बलेन-शौर्येण आ:-श्रीकृष्णाः, तथा का:-श्रीब्रह्माणः, ते बलाकाः । पुनः किम्भूताः ?, सह उत्कण्ठया वर्तते(न्ते) ये ते सोत्कण्ठाः अथवा प्राणिनः । किं०? सोत्कण्ठान् । सा-लक्ष्मीः, तस्यां उत्कण्ठा वर्तते येषां ते सोत्कण्ठा:अर्थपरा इत्यर्थः । तान् सोत्कण्ठान् । पुनः किं०?, सहचरीभिः समालिङ्गिता ये ते सहचरीसमालिङ्गिता:-कामपरा इत्यर्थः, तान् सहचरीसमालिङ्गितान् । इ इति प्रत्यक्षेऽव्ययः । कोऽर्थः ? अतकान्-अन्यप्राणिनः, सोत्कण्ठान्-अर्थपरान् तथा सहचरीसमालिङ्गितान् कामपरान् पश्यन्तः सन्तः सिद्धाः- श्रीगुरवः त्वां मानयिष्यन्ति इति भावः इत्यप्यर्थान्तरं ज्ञेयम् ।।२३।।
उत्पश्यामि द्रुतमपिसखेमत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२४॥
उत्पश्यामीत्यादि । खैः-सुखैः सह वर्तते यः सः, तस्य सं० हे सख ! । ईमन्त:-इभ्याः तेषां, निर्लोभत्वात् प्रियः-वल्लभः, तस्य सं० हे ईमत्प्रिय !। द्रुतंशीघ्रं मा-लक्ष्मीर्यस्मात् सः, तस्य सं० हे द्रुतम ! । ते-तव पर्वतेऽपि-गिरौ अपि अर्थ-द्रव्यं उत्प्रधानं पश्यामि-वीक्ष्ये(क्षे) । पर्वते किम्भूते ?, काला:-नीलाः क्षा:-क्षेत्राणि यत्र, "क्षः क्षेत्रे रक्षसी"त्येकाक्षरीवचनात्, सः, तस्मिन् कालाक्षे । ककुभवत्-वृक्षविशेषवत् सुरभयः-गावो यत्र सः अथवा को-ब्रह्मा, तस्य कु:भूमिः, तस्यां भाति, तस्य सं० । ककुभ ! पर्वते किं० ?, सुरभौ-सुगन्धे । अथवा कस्य-ब्रह्मणो या कु:-भूः तस्यां भान्ति ताः ककुभाः, ईदृशाः सुरभयोगावो यत्र सः, तस्मिन् ककुभसुरभौ । पुनः किम्भूते ?, पर्वणः-उत्सवस्य तालक्ष्मीर्यत्र सः तथैव । अथवा पर्वते पर्वते तव द्रव्यं वीक्षे । शेषं तथैव इत्यपि व्याख्येयम्। "वष्टि भागुरि"रित्यादिना अपेरकारलोपः । तव किम्भूतस्य ?, यियासोः गन्तुमिच्छोः । क(कं?) पं०(कथं)- पन्थानं न्यायमार्गमित्यर्थः । सह जलेन महत्त्वरूपेण वर्तते यः, तस्य सम्बो० हे सजल !। भवान् कथं प्रति गन्तुं आशु व्यवस्येत् -अध्यवसायं कुर्यात् । “कः सूर्यमित्र वाद्यमित्र वाद्यग्निब्रह्मात्मयमकेकिषु" "थो भवेद् भयरक्षणे भूधरे च तथा भारे ।" इति
Page #27
--------------------------------------------------------------------------
________________
64
अनुसन्धान ३२
सुधाकलशवाक्यात् कः सूर्यस्तस्य थो-भारः-प्रतापादिरूप: जगदुपकर्तृत्वादिरूपो वा, तं कथम् । भवान् किम्भूतः?, उत्प्रधानं यातः-ज्ञातः, 'गत्यर्थानां ज्ञानार्थत्वात्' । ज्ञात: कै: ?, शुक्लापाङ्गैः-गुरुभिरपि । शुक्लं-नि:पापत्वात् विमलं अपाङ्गगणस्थापनारूपं तिलकं येषां ते, "अपाङ्गं नेत्रान्त'द्व(पुण्ड्)यो" रित्यनेकार्थात्, तैः शुक्लापाङ्गैः। किं कृत्वा ? स्वागतीकृत्य-आदरं दत्वा । किम्भूतैः शुक्लापाङ्गैः?, नयनैः, नये-न्याये नो-बुद्धिर्येषां ते नयनाः तैः नयनैः । "नो बुद्धौ ज्ञानबन्धयो'रिति वाक्यम् । पुनः किम्भूतो भवान् ?, के- सुखी पच(र)दुःखं न जानाति, यत उक्तं च - "सुखी न जानाति परस्य सु(दुः)खं"; त्वं तु परदुःखज्ञातृतया-सुखे सति अकं-दुःखं अस्यति-क्षिपतीति क्विपि अकाःदुःखोच्छेदक इत्यर्थः ॥२४॥
पाण्डुच्छायोपवनवृतयः केतकाः]शूचिभिन्नैः नीडारम्भैगुहबलिभुजामाकुलग्रामचैत्याः । त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥२५॥
व्याख्या-पाण्डुच्छायेत्यादि । पाण्डुरुज्ज्वला चारित्रादिना छाया-शोभा यस्य सः, तस्य सं० हे पाण्डुच्छाय ! उ:-शम्भुः तद्वत् पाति-रक्षति(ति) । पःकामस्य(?) (कामः सः) तस्य सं० हे ऊ(उ)प!-वनं । शूच्या-सेवन्या अर्थ्या(र्था?)दुपदेशरूपिण्या भिनत्ति क्विपि, तस्य सं० हे शूचिभित् ! कस्य(स्ये)ति । उपं, ईदृशं "वनं प्रश्रवणे गेहे" इति वचनात् वनं-गृहं यस्य तस्य सम्बो० हे उपवना (न)!| अथवा ऊर्दया तां पान्ति-रत्र(क्ष)न्ति ड प्रत्यये ऊपानिजीवदयापराणि वनानि-गृहाणि यस्मात् । हे नू(नी)डारम्भ !- नितरां ईडास्तुतिस्तस्या आरम्भः-प्रारम्भो यस्य सः नीडारम्भः, तस्य सं० । इ:-कामः तस्य ए:, शुचिभिद्-व्यथकत्वात् सेवनीभेदकः । कैः कृत्वा ? नै:-ज्ञानैः मतिश्रुत्या(ता)दिभिः "नो बुद्धौ ज्ञानबन्धयो"रिति वाक्यात् । नैः किम्भूतैः ?, केतकैः । “क: सूर्यमित्रवाद्यग्निब्रह्मात्मयमकेकिषु, प्रकाशवक्रयो"रिति सुधाकलशवाक्यात् कः-सूर्यः, तद्वत् इतः-, 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञातः कःप्रकाशो येषां ते केतकाः, तैः केतकैः । परिणतं-परिपक्वं फलं-स्वर्गादिरूपं यस्मात् सः, तस्य सं० हे परिणतफल ! । पे-मार्गे ज्ञानादिरूपे यतते क्विपि हे
Page #28
--------------------------------------------------------------------------
________________
June-2005
65
पयत् ! - हे गुरो !! त्वयि आसन्ने सति हंसा:-निर्लोभाः राजानः श्रीअकबरनामान: परिसंपत्स्यन्ते- भविष्यन्ति । "हंसोऽर्के मत्सार(मत्सरेऽ)च्युते खगाश्वयोगिमन्त्रादिभेदेषु परमात्मनि निर्लोभनृपतौ प्राणवाते श्रेष्ठेऽग्रतः" इत्यनेकार्थः । हंसाः] कीदृशा: ? इत्याह-वृता-अङ्गीकृता ई-श्रीः यः ते वृतयः । पुनः किम्भूताः ? गृहा:-दाराः, तथा बलं--स्थाम, तद्वन्तौति(?) लां(अतिल)क्षणोपेतत्वात् भुजौबाहू येषां । अथवा गृहा-दाराः तेषां यद्बलं-सत्त्वं "स्त्रीणां हि सत्त्वं प्रशस्यं" । यत उक्तं च
"पाण्योरुपकृतिं सत्त्वं स्त्रियो भग्नशुनो बल''मिति ॥ तद्वत्तौ भुजौबाहू वा येषां ते तथैव । पुनः किम्भूताः ? मा-लक्ष्मी: तस्याः ]कुलं-समूहो यत्र तानि माकुलानि ईदृशानि ग्रामचैत्यानि येन्वः(भ्यः?) ते माकुलग्रामचैत्याः । अथवा मया-श्रिया आकुलानि-अत्यन्तव्यग्राणि ग्रामवत् चैत्यानि-जिनप्रासादा: येभ्य: ते माकुलग्रामचैत्याः । पुनः किम्भूताः ? श्याम-कृष्णं जम्बूद्वीपस्य वनंकाननं, तावत् अन्तः-सीमा येषां ते श्यामजम्बूवनान्ताः । पुनः कि० ? इनवत्सूर्यवत्, तिष्ठन्तीति इनस्थाः । इ इति गुरोरामन्त्रणे, अत्र 'स्वरे यत्वं वे'ति यि । पुनः किं०? दशार्णेभ्यः -देशविशेषेभ्यः आ-लक्ष्मीः येषां ते दशार्णाः । त्वयि किम्भूते ?, कति को-मित्रं तदिवाऽऽचरतीति शतरि कन्, तस्मिन् कति ॥२५॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानी गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत्सत् (यस्मात्) सभ्रूभङ्गं मुखमिव पयो चै( वेत्रवत्याश्चलोम्मि ॥२६॥
व्याख्या-तेषामित्यादि|Jहे दिक्षु प्रथित !-- काष्ठासु हे विख्यात ! विशिष्टंविविधं वा दिशति वितरति स, तस्य सं० हे विदिश !! अथवा विदा-ज्ञानेन इंकामं श्यति-तनूकरोति, तस्य सं० हे विदिश !- हे गुरो ! । तेषां-श्रीनरेन्द्राणां निर्लोभनृपाणां]राजधानीं गत्वा कामुकत्वस्य-सुन्दरतायाः अविकलं-मनोज्ञं फलं भवान् लब्धा-लप्स्यते । राजधानी किं० ?, आ-समन्तात् लक्षणानिनिवासयोग्यगुणा यकसो (यत्र सा) निर्दूषणत्वात् सा, ता(तां) । अथवा आलक्ष्मीः, तस्या लक्षणं-चिह्नं यत्र सा, तां आलक्षणां । भवान् किं० ?, सतीसो(शो) भना या-चारित्ररूपा-लक्ष्मीर्यस्य सः सद्यः । यत्-यस्मात् तेषां
Page #29
--------------------------------------------------------------------------
________________
अनुसन्धान ३२
निर्लोभनृपाणां सा-लक्ष्मीः यस्मात् सः, तस्य सं० हे तत्स ! - गुरो ! । त्वं चे(च)त्रवत्या नद्याः पय इव-जलमिव मुखं-वक्त्रं पासि-रक्षसि । मुखं किं०?, स्तनितसुभगं,-स्तनित:-शब्दितः सुष्ठु भगो-वैराग्यं ज्ञानं यशो वा येन तत् तथैव । पुनः किम्भूतं ?, 'शसयोरैक्यात्' न विद्यते शी:-निद्रा हिंसा वा यत्र तत् अशि । पुनः किं० ?, स्वादु-स्वादयुक्तम् । पुनः किम्भू० ?, ध्रुवो-रोमपद्धत्या भातिशोभते तत् भ्रूतं (भ्रूभं?) । पुनः किं०?, गं-गणेशतुल्यं लाभदातृत्वात् । चकारः पुनरर्थे । पुनः किं०?, ल:-इन्द्रः, तस्य ऊम्मिाः ]हर्षकल्लोलो यस्मात् तत् लोमि। त:-तस्करः पुत्ररजन्यामेव प्रादुर्भावात्, तत्सदृशो यः इ:-काम: तस्य ये रोपा:मार्गणाः तेषां अन्तो-नाशो यस्मात् सः, तस्य सं० हे तीरोपान्त ! । इदं गुरोरामन्त्रणम् ॥२६॥
नीचैराक्षा ख्यं गिरिमधिवसेस्तत्र विश्रामहेतोस्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्फैः( पुष्पैः) कदम्बैः । यः पया पण्य )स्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभियौवनानि ॥२७॥
व्याख्या-नीचैराख्यमित्यादि । नीचो-निखर्वः पामरो वा ए।ः]-विष्णुर्यस्य, सम्यग्-सम्यग्दृष्टित्वात् यस्य सः तस्य सं० हे नीचैः !। इ:-कामः तत्र विध्वंसकत्वात् दाहकत्वात् वा वो-महेसः (शः), अथवा इं-कामं "स्याद् वाल् गमनहिंसयो"रिति वाक्यात् वाति-हिनस्ति, तस्य सम्बोधनं हे इव !- हे गुरो !! त्वं तत्र-तस्यां राजधान्यां तं- श्रीनरेन्द्रं अधिवसेः]-वासं कुर्या इत्यर्थः । तं किम्भूतं?, रेषु-नरेषु आख्या-अभिधा यस्य सः तं राख्यं । पुनः कि०? गिरि - पूज्यं - "गिरिः पूज्येऽक्षिरुजि कंतु(चु?)के शैलगिरियके" इत्यनेकार्थवाक्यां (क्यात्) । पुनः किम्भूतं ?, पुलकितं-रोमाञ्चितं । कुतः ? त्वत्संपर्कात्-तव संयोगात् । किम्भूतात् ?, विश्रामहेतो:-विश्रामस्य हेतुः-प्रयोजनं यः सः, तस्मात् तथैव । 'यत्तदोनित्यसम्बन्धात्" । तं कस्मि(कमि)त्याह-नागराणां यौवनानि उद्दामानि प्रथयति; उद्दामा-अनर्गला आ-लक्ष्मीर्येषु तानि उद्दामानि कर्मतामापत्रानि । किविशिष्टो यः ?, पण्यः-स(स्तु)त्यः । कैः ? शिलावेश्मभिः । किं० ? स्त्रीरतिपरिमलोद्गारिभिः-स्त्रीणां रतिः-सुरतक्रीडा, तस्याः परिमल:-कामुक लोकप्रियाविमर्दत्सं(विमर्दसं) भवो गन्धस्तदु(मु)निरन्तीत्येवंशीलानि तानि
Page #30
--------------------------------------------------------------------------
________________
June-2005
तथाभूतानि तैः ॥२७॥
विश्रान्तः सन् [वाजनगनदीतीरजातानि सिञ्चत्रुद्यानानां नवजलकणैयू(यूं)थिकाजालकानि। गण्डस्वेदोपनयनरुजाक्लान्तकर्णोत्पलानां छायाद( दा )नाक्षणपर रि )चितः पुष्फर ष्प लावीमुखानाम् ॥२८॥
व्याख्या-विश्रान्त इत्यादि । व्रजो-गोष्ठं स एव नगो-वृक्षस्तत्र नदीतीर:नदीतटतुल्य: गोचारकत्वात्, तस्य सं० हे व्रजनगानादीतीर ! । यूथं-तिर्यग्गणो मृगव्याघ्रगजादिकः सोऽस्यास्तीति यूथी, यूथी एव यूथिकः, तस्य सं० हे यथिक ! । "गण्डस्तु वीरे पिटकचिह्नयो"रित्यनेकार्थवाक्यात् गण्डा-वीगस्तेषां स्वेदः स्वाधिक्यात् यस्मात् सः, तस्य सं० हे गण्डस्वेद !! अथवा गण्डे-पिटकेषु स्वं-द्रव्यं यस्य सः, तस्य सं० हे गण्डस्व !। हे ईद !- हे लक्ष्मीद !, हे नः !हे नर !, हे ज ! इति सम्बोधने । 'रलयोरैक्यात्' आक्रान्त:-दानादिभिः- अतिक्रान्तः कर्णः-कर्णनृपतिर्येन सः, तस्य सम्बोधनं हे आक्रान्तकर्ण ! | पुष्पं-धनदविमानं लाति-गृह्णाति, तस्य सं० हे पुष्पल ! । “अर्वः (विः?) प्रकाशः आदित्यो भूमि: पशुः राजे" त्याधुणादिवृत्तिवाक्यात् अवीमुखाना-पशुप्रभृतीनां, तथा उद्यानानांपक्षिणां, उत्-उ(ऊ) यानं-चलनं येषां ते उद्यानाः, तेषां तथैव । उत्-प्रधानानि पलानि-मांसानि तेषां जातानि । “जाती: समूहान्वाजातां जात्योऽथ जनिष्वि" त्यनेकार्थवाक्यात् अपनय-वर्जय । कुतः ? छाया-शोभा, तस्या आदानं-ग्रहणं तस्मात् छायादानात् । त्वं किं कुर्वन् ?, सिञ्चन्-अभ्युक्षन् । कान् ?, अजालकानश्रीगुरून; "अजः छागे हरे विष्णौ रघुजे वेधसि स्मरे" इत्यनेकार्थात् अजस्यकामस्य, "अली भूषापर्याप्तिनिवारणेष्वि"ति वचनात् आलका:-निवारकाः ते अजालकाः स्मरनिवारकत्वात् गुरवः इत्यर्थः । तान् तथैव । इः पादपूरणसम्बुद्धौ। . कैः?, नवजलकणै:- नवः-स्तुतिः सैव जलकणा:-जलशीकराः ततस्तैः । पुनः किम्भूतः ? विश्रान्तः-विगतश्रमः, सकलकृत्यकरणात् । पुनः च किं०?, सन्सज्जनः । पुनः किं० ?, क्षणपरिचितः क्षणैः-महोत्सवैः परि-समन्तात् चितोव्याप्तः ॥२८॥
वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो माश्मभूरुज्जयन्याः ।
Page #31
--------------------------------------------------------------------------
________________
68
अनुसन्धान ३२
विद्याद्या( विद्युद्दा )मस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥२९॥
[व्याख्या]- वक्रा:पन्था इत्यादि । सौधे-नृपमन्दिरे, तथा उत्सङ्गे, उत्प्रधान: सङ्गः-सङ्गतिः, तत्र च प्रणयः-प्रेम यस्य सः, तस्य सं० हे सौधोत्सङ्गप्रणय !। वि-विशिष्टा द्युत्-कान्तिर्यस्य सः, तस्य सं० हे विद्युत् !! दामानि-सजः तैः स्फुरितः-दीप्तः, तस्य सं० हे दामस्फुरित !! भवतः-तव उत्तराशां-उदीची दिशं प्रति प्रस्थितस्य-चलितस्य भवतः-तव वक्र:-मङ्गलोऽपि तव पुण्यात् पन्थामार्गः स्यात् । कोऽर्थः ? बुधमङ्गलदिने दिक्शूलत्वात् उत्तरस्यां नराणां गमनं निषिद्धं, तव तु शुद्धम् । मङ्गलेनाऽपि त्वया सह किमपि न चलते इत्यर्थः । इ इत्यामन्त्रणे । तेभ्यः-तस्करेभ्यः त्रायते-रक्षति, तस्य सं० हे तत्र ! - हे नरेन्द्र !! त्वं वञ्चितोऽसि । - उ:-शम्भुः, तेन अञ्चित:-पूजितः । कुत इत्याह-यत्यस्मात् हेतोः चकितै:-कातरनरैः स्वयं शूरत्वात्, तथा पौराङ्गनानांपुरवासिजनस्त्रीणां लोचनै-नयनैः सह त्वं न रमसे-परस्त्रीपरित्याग(गि)त्वात् न क्रीडसीत्यर्थः । लोचनैः किम्भूतैः ?, लोलापाङ्गैः-चञ्चलनेत्रप्रान्तैः । कातरनरपक्षे लोला:-चञ्चलाः, तथा अपगताः(गतानि?) अङ्गा(ङ्गानि ?)-अवयवाः येषां ते अपाङ्गाः, लोलाश्च ते अपाङ्गा-असमर्थाश्च, तैः तथाभूतैः । त्वं किं० ?, विमुखःविश(शि)ष्ट-वदनं(नः?) । कस्याः ?, उज्जयन्याः-अवन्त्याः । सर्वासां पुरीणां उपग्रहणार्थं अवन्त्या ग्रहणम् । पुनः किम्भूतः ? मस्य-चन्द्रस्य 'शसयोरैक्यात्' अस्मानः (अश्मानः)-उपलाः ते मास्मान:-चन्द्रकान्तमणयः, तेषां भुवो-भूमयो यस्य सः माश्मभूः ।।२९।।
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथिभवरसाभ्यन्तरं संनिपत्य स्त्रीणामाद्या प्रणयवचनं विभ्रमो हि प्रियेषु ॥३०॥
व्याख्या-वीचिक्षोभेत्यादि । विशिष्टं ध्यायति, तस्य सं० हे विध्य ! (विन्ध्य!) !-हे विन्ध्याचलतुल(तुल्य) !! गजेन्द्रविराजितत्वात् त्वम् । “आ श्रिया"मिति वाक्यात् आया:-लक्ष्म्याः निः-पतिर्भाव(र्भव?) “निस्तु नेतरी"ति वाक्यात् : ... कृत्वा ?, रसाभ्यन्तरं-भूमध्यभागं संनिपत्याऽनुभूय । आया:]
Page #32
--------------------------------------------------------------------------
________________
June-2005
69
किम्भूतायाः ?, वीची(चि) क्षोभस्तनितविहग श्रेणिकाञ्चीगुणायाः । वीची(चि)क्षोभः-तरङ्गक्षोभः, तथा स्तनितविहगश्रेणि:-शब्दितशकुनिपङ्क्तिः तद्वत् शब्दायमानत्वात् काञ्चीगुणो-मेखलागुणो यस्यां सा, तस्याः तथाभूतायाः । पुनः किं कुर्वत्याः ?, संसर्पन्त्याः ], 'गत्यर्थानां ज्ञानार्थत्वात्' - जानन्त्याः (जानत्याः )। कि ? प्रणयवचनं-स्नेहवाक्यम् । किम्भूतं ?, स्त्रीणां-नारीणां पथि-मार्गे आद्यं मुख्यम् । पुनः किम्भूतं ?, स्खलितसुभगं-स्खलित: (तं)-पलित:(तं) सुष्ठ वैराग्यं यस्मात् तत् तथैव । त्वं किम्भूतः ?, विभ्रमः-विगतभ्रान्तिः । केषु ? प्रियेषु-- वल्लभजनेषु, भ्रमरहितो वल्लभ इत्यर्थः । हि-निश्चितम् ॥३०॥
वेणीभूतप्रतनुसलिलातामतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिर्जीर्णपणः । सौभाग्यं ते सुभग विरहावस्थयाव्यञ्जयन्ती कार्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३१॥
व्याख्या-वेणीभूतेत्यादि । हे जीर्ण !-हे चन्द्र ! सौम्यत्वात्, "जीर्णो जीर्णद्रुमेन्दुषु" इत्यनेकार्थवाक्यात् । तथा हे प ! - हे रक्षक ! - जगत्पालक ! किं कृत्वा ? ऋणे:-दुर्गः "ऋणं देवं(ये) जले दुर्गे" इत्यनेकार्थात् । ऋणैः किम्भूतैः ?, तटरुहतरुभ्रंशिभिः-तटे-पार्वे रुहन्तीति तटरुहाः, ते च ते तरवश्चेति । हे सुभग ! येन विधिना-प्रकारेण जयन्ती-इन्द्रपुत्री कार्यं त्यजति स विधिः त्वया उपपाद्य:-अनुष्ठेयः । कार्यं किम्भूतं ? अव्यं-प्राप्यं, अवेः प्राप्त्यर्थकत्वात् । कया? विरहावस्थया-वियोगदशया । कस्य ? ते-तव । कोऽर्थः ? जयन्ती तव संयोगाभावेन दुर्बलत्वं गतेति भावः । पुनः कार्यं कि० ?, वेणीभूतप्रतनुवेणीवत्-केशविन्यासवत् भूता-जाता प्रकृष्टा तनु-शरीरं यस्मात् तत् तथैव । तव किम्भूतस्य ?, सलिले-जले अः-कृष्णः तस्य ता-लक्ष्मीः, तां अतीतस्यअतिक्रान्तस्य । अथवा अतिशयेन इतस्य-प्राप्तस्य 'गत्यर्थानां प्राप्त्यर्थकत्वात् । जयन्ती किं० ?, पाण्डुरुज्ज्वला छाया-शोभा यस्याः सा पाण्डुच्छाया । पुनः किम्भूता ?, सिन्धुनदीतुल्या, सर्वेषामुपकर्तृत्वात् । विधिः किम्भूतः ?, सौभागीसौभाग्यवान् । कार्यं किम्भूतं ?, अं-कृष्णं श्यामत्वात् ।।३१।।
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामनुसरपुरीश्रीविशालां विशालाम् ।
Page #33
--------------------------------------------------------------------------
________________
अनुसन्धान ३२
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥३२॥
व्याख्या-प्राप्यावन्तीत्यादि । ई-लक्ष्मीः नुदति-प्रेरयतीति ईनुत्, ईदृशं अयन-मार्गो यस्य तस्य सं० हे ईनुदयन !! हे कोविद !- विचक्षण ! । अवत्कृष्णवत् नुः-शत्रुहननादिरूपा स्तुतिः येषां ते अनवः, ईदृशा: 'शसयोरैक्यात्' शरा-बाणा: यस्यासः, तस्यासं० हे अनुसर !। त्वया ईदृशी कथा-वार्ता प्रापिप्राप्ता । हे अ !-कृष्ण !! कथा किं कुर्वती ?, अवन्ती-रक्षन्ती । कान् ?, ग्रामवृद्धान्, - ग्रामाः-संवसथाः, वृद्धाः-प्राज्ञाः स्थविरा वा, तान् । पुनः ?, पुरी:-नगरी विशालां-उज्जयिनी-अवन्तीपुरीं । किम्भूतां ?, पूर्व-श्रुतभेदः, तेन उद्दिष्टा-कथिता या तां पूर्वोद्दिष्टाम् । पुनः किम्भूतां ?, अलति- भूषयतीति अला, तां अलां । पुनः किम्भूतां ?, श्रीविशालां-ऋद्धयादिभिः विस्तीर्णाम् । पुन: ? गां-स्वर्ग अवन्ती । क्व सति ? स्वर्गिणां-दि(दे)वानां सुचरितफले-सुकृतफले स्वल्पीभूते-स्वल्पे सञ्जाते सति । स्वर्गिणां किम्भूतानां ?, गतानां-विज्ञातानां 'गत्यर्थानां ज्ञानार्थत्वात्' । कै; ? पुण्यैः । किम्भूतैः ?, शेषैः-उज्ज्वलत्वात शेषाहि सदृशैरित्यर्थः । पुनः ? डं-चन्द्रमण्डलं अवन्ती । डं किम्भूतं ?, कान्तिमत् - शोभायुक्तं खं-व्योमं यस्मात् तत् कान्तिमत्खं-डं । पुनः किम्भूतं ?, एकंश्रेष्ठ, "एकोऽन्यः केवलः श्रेष्ठ" इत्यनेकार्थवाक्यात् डं । पुनः किम्भूतं ? हृतंराह्वादिभिः दिव:-आकाशात् अपहृतमपि चन्द्रमण्डलं तव कथा रक्षतीति भावः । इवत्-कामवत् वाति-गच्छति सः, तस्य सं० हे इव ! ॥३२॥
दीर्घाकुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतम्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३३॥
व्याख्या-- दीर्धीकुर्वनि(नि)त्यादि । पटूनां-वाग्मिनां मदो-हर्षो यस्मात् सः, तस्य सं० हे पटुमद !। प्रत्यूषवत्-प्रभातवत् इषुभि-र्बाणैः स्फुटिता-प्रकटिता कमला-पद्मा यस्य, तस्य सं० हे प्रत्यूषेषुस्फुटितकमल ! । यात्-यमात् त्रायतेरक्षति तस्य सं० हे यत्र ! । सुरा-देवास्तद्वत् ता-लक्ष्मीर्यस्य तस्य सं० हे सुरत !! १. हतमिव० मु. मेघ. ॥
Page #34
--------------------------------------------------------------------------
________________
June-2005
त(भ)वान् स्त्रीणां ग्लानि - बलहीनतां हरति अपनयति । भवान् किं कुर्वन् ?, दीर्घे (घ) कुर्वन् । किं ?, कलं - मधुरध्वनं (निं), किम्भूतं ?, सारसानां पक्षिविशेषाणां कूजितमिव कूजितं सारसशब्दतुल्यमित्यर्थः । भवान् किं० ? आ समन्तात् मोद-प्रमोदः 'अपास्ताशेषदोषाणा' मित्यादिलक्षणसूचित:, तथा मैत्री मा कार्षीत् कोऽपि पापानी' त्यादिलक्षणसूचिता । तयोः कषायः - रसो विद्यते यत्र सः मोदमैत्रीकषायः । "कषाय: । सुरभी रसे रागवस्तुनि निर्यासे क्रोधादिषु विलेपने वर्णे " इत्यनेकार्थः । पुनः किम्भूतः ? अङ्गेन वपुषा - अनुकूल[:]-प्रशस्तः सः अङ्गानुकूलः । अथवा अङ्ग इत्यामन्त्रणे, अनुकूलः कुटुम्बादीनां हितत्वात् । पुनः किं० ?, सिप्रावात इव प्रियतम[ : ] | अथवा सिप्रानदी यथा जनानां तीर्थभूतत्वेन प्रियतमा:(मा)तथा भवानपि । तथा वातो- वायुः स इव प्रियतमः । पुनः किम्भूत: ? प्रार्थनाचाटुकं - प्रियवाक्यात्मकं आरं अरिसमूहो यस्य सः प्रार्थनाचाटुकारः ||३३|| 'हारास्तारांस्तरलगुलिकान् कोटिशः शङ्खशुक्ती:
"
शिष्यश्यामान्मरकतमणीन( नु )न्मयूखप्ररोहान् ।
यस्यां दृष्ट्वा विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष( क्ष्य) न्ते सलिलनिधयस्तोयमात्राविशेष : ( षाः ) ॥३४॥
-
71
व्याख्या-हारास्तारानित्यादिकाव्यं तथैव व्याख्येयम् । नवरं यस्यामित्यादि पदव्याख्याने यस्य श्रीनरेन्द्रस्य आं- लक्ष्मीं दृष्ट्वा । शेषं तथैव ||३४|| प्रद्यत्तस्य प्रियदुहितरं वत्सराजोऽत्र ज हैमं ताल द्रुम वनम] भूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पादित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः || ३५॥ व्याख्या- प्रद्योतस्येत्यादि ।
( अतः परं कियानपि पाठो लेखनदोषात् त्रुटित इव आभाति । पत्रक्रमस्य यथाक्रमत्वेऽपि ३५तमस्य पद्यस्य वृत्तिः, ३६-३७ तमे पद्ये च वृत्तिसहिते न दृश्यन्ते । प्रत्यन्तरप्राप्तावेव एतत्पूर्ति: शक्या । सम्पादक: II)
१. क्षेपकोऽयमिति मु. मेध ॥ २. ०गुटिकान् ०. मेघ. ॥ ३. क्षेपकोऽयमिति मु. मेघ० ॥
Page #35
--------------------------------------------------------------------------
________________
72
अनुसन्धान ३२
... ति क्विपि नपुंसके इस्वत्वे आनि ॥३६-३७॥युग्मम् ॥ अप्यन( न्य )स्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३८॥व्याख्या (?) *पादन्यासक्वणितरसनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् ॥३९।।
व्याख्या-अप्यान्यास्मिन्नित्यादि । जलधरो-मेघस्तद्वत्, "महा उत्सव तेजसी" इति वाक्यात्, महस्तेज उत्सवो वा यस्य तस्य सं० हे जलधरमह ! नाये-न्याये, “नो बुद्धौ ज्ञानबन्धयो"रिति वाक्यात्, नो-बुद्धिर्यस्य तस्य सं० हे नयन ! । सं-शोभनं ध्यायति-चिन्तयति जनानां ड प्रत्यये सन्ध्यः तस्य सं० हे सन्ध्य !! आ-समन्तात् बलिनरेन्द्रवत् पटहो-दानसम्बन्धी यस्य तस्य सं० हे आबलिपटह ! । भवान् विषयं-देशमासाद्य-प्राप्य अस्मिन् काले अभि- भीरहन्ति (भीरहितं) यथा स्यात्तथा एति-चलति । देशं किम्भूतं ? स्थातव्यं-निवासयोग्यम् । कस्य ? ते-तव । पुनः किम्भूतं ?, अकालं-धवलं निःपापत्वात् । अथवा, अकं-दुःखं अलति-वारयतीति अकालः तं अकालम् । अथवा, न विद्यते काल:दुःकालः-मरणं वा यत्र सः, तं अकालम् । देशमित्यत्रैकत्वं जातेरेकत्वनिर्देशात्(द्)ज्ञेयम् । भवान् किम्भूतः ?, भानुः-तस्करादिनाशकत्वात् भास्करत्वात् सूर्यतुल्यः इत्यर्थः । अपि पुनरर्थे । भवान् गर्जितानां-मत्तकुञ्जराणां, "गर्जितो मत्तकुञ्जरे" इत्यनेकार्थवाक्यात् फलं-लाभं लप्स्यसे। फलं किम्भूतं ? अविकलंमनोज्ञं । भवान् किं कुर्वन् ? शूलिनः श्लाघनीयां-महेशस्य श्लाघ्यां ईदृशीं तां-- लक्ष्मी कुर्वन्-सृजन् । गर्जि[ता]नां किम्भूतानां ?, आ समन्तात् मन्द्रो-मधुरगम्भीरो ध्वनिर्येषां तेषां आमन्द्राणाम् । “निस्तु नेतरी"ति अनि-पतिरहितं यथा स्यात्तथादेशमासाद्य । शेषं तथैव व्याख्येयम् । फलं किम्भूतं ? या-लक्ष्मी: अस्मिन्नस्तीति यावत् कर्मतामापन्नम् ।।३८।। १. पाठोऽयमधिको लिखितोऽस्तीति प्रतिभाति ।।
Page #36
--------------------------------------------------------------------------
________________
June-2005
73
पादन्यासक्वणितरसनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् बाष्या प्राप्य )वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३९॥
व्याख्या - पादन्यासेत्यादि । तेभ्यः-तस्करेभ्यस्तात्-सङ्ग्रामाद्वा त्रायतेरक्षति तस्य सं० हे तत्र ! । रत्नानि-मणयः, छाया-शोभा, खानि-सुखानि, तैः चितो-व्याप्त:, तस्य सं० हे रत्नच्छायाखचित ! नो-ज्ञानं, खं-सुखं, तयोः पदंस्थानं, तस्य सं० हे नखपद !! त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् वेश्या:पण्यस्त्रियो मोक्ष्यन्ति । किं कृत्वा ? त्वत्त: वर्षावत् अग्राः-प्रधानाः बिन्दवोवीर्यबिन्दवः, तान् प्राप्य वर्षाग्रबिन्दून् प्राप्य । किम्भूतान् ?, सुष्ठ खानि-इन्द्रियाणि येभ्य: तान् सुखान् । वेश्याः किम्भूताः ?, क्लान्तः 'रलयोरैक्यात्' क्रान्त आक्रान्तो वा हस्तो यासां ताः क्लान्तहस्ताः । कैः ? अमरैः । किम्भूतैः ? 'बवयोरैक्यात्', बलिभि-बलवद्भिः रूपवद्भिर्वा । चकारः पुनरर्थे । पुनः किम्भूतैः ?, लीलावध्वःक्रीडास्त्रियः तासां ता-लक्ष्मीर्येषां तैः लीलावधूतैः । अथवा लीलया-क्रीडया अवधूतैः-अवधूतवेषधारिभिः । वेश्याः पुनः किं० ?, पादन्यासक्वणितरसनाः ॥३९॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्थ्यं तेजोविकसितजपापुष्परक्तं दधान । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥४०॥
व्याख्या- पश्चादुच्चैरित्यादि । उच्चै-महत् भुजे-बाहौ ता-जयलक्ष्मीर्यस्य तस्य सं० हे उच्चैर्भुजत !! रार्द्रः - हे कामक्लिन्न !। अथवा आ-लक्ष्मीस्तया आ Hः(ः) तस्य सं० हे आर्द्र ! (आर्द्रः !)
"नागो मतङ्गजे सर्प पुन्नागे नागकेसरे ।
क्रूराचारे नागदन्ते मस्तके सरसीरुहे ॥" इत्यनेकार्थवाक्यात् नागवत्-सरसीरुहवत् कोमलत्वात् अजिनं-तनुत्वग् यस्य तस्य सं० हे नागाजिन !! त्वं पशुपते-महेशस्य तेजो-बलिं(बलं) द्युति हर-लक्षणया १. ०न्यासै: मु. मेघ. ॥ २. तेजः प्रतिनव० मु. मेघ० ॥
Page #37
--------------------------------------------------------------------------
________________
74
अनुसन्धान ३२
गृहाण । तेजः किम्भूतं? ''रुः सूर्ये रक्षणेऽपि चे"ति सुधाकलशवाक्यम् । रु:सूर्यस्तस्य वनं-गृहं तत् रुवनं । अथवा रो:-सूर्यस्य वनं-प्रवासो गगनभ्रमणरूपो यस्मात् तत् रुवनं । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थः । सन्ध्या(न्धा)यां-प्रतिज्ञात्यां(यां)-स्थित्यां वा भवं सान्ध्यम् । पुन: किं० ?, नवजपापुष्परक्तं तथैव । ज्ञेजो (तेजो) हि रक्तं वर्ण्यते ततोऽस्य जपापुष्पसाम्यम् । पुनः किं०?तिमीनां-मत्स्यानां, तथा तानां-तस्कराणां नयो-न्यायः-परस्परगिलनरूपः । यतः
"धर्मः क्षोणीभृतां शिष्टपालनं दुष्टनिग्रहः।
मात्स्यो न्यायोऽन्यथा नूनं भवेद्भुवनघस्मरः ॥" तस्य नो-बन्धो यस्मात् तत् तिमितनयनम् । त्वं किं कुर्वाणः ? नृत्यारम्भेनाट्यप्रारम्भे इच्छां--अभिलाषं दधानः-बिभ्राणः । पुनः त्वं किम्भूतः ?, शान्तःउपशमं गतः उद्वेगो यस्मात् स शान्तोद्वेगः । पुनः किं०?, मण्डले-देशे लीनआश्लिष्टः । तेजः किम्भूतं ? नाभि-श्रेष्ठं । त्वं किं० ? दृष्टभक्ति:- ज्ञातसेवः । का(क)या?, भवान्या-पार्वत्या; कोऽर्थः? असौ मम भक्तः इति पार्वत्या ज्ञातः । पुनः [किा भूतः ? पः-प्रौढः । कुत: ? चात्-चन्द्रात् ॥४०॥
गच्छन्तीनां रमणवसति योषितां तत्र नक्तं रुद्धालोके नरपतिपथे शूचिभेद्यैस्तमोभिः । सौदामिन्या कनकनिकषस्निग्धया दर्शयित्री (दर्शयोर्वी) तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्त्र:(स्ता:) ॥४१॥
व्याख्या - गच्छन्तीनामित्यादि । योषितां-स्त्रीणां हे रमण !- हे प्रियतम !। किं कुर्वतीनां ?, गच्छन्तीनां-जानन्तीनां 'गत्यर्थानां ज्ञानार्थत्वात्' । कां? वसतिस्थानं गृहं वा । कस्य ?, इ:-कामः तस्य ए: । हे तत्र !-तस्करेभ्यो हे रक्षक !। सौदामिनी-विद्युत् तस्याः आ-लक्ष्मीः, तथा कनकं-सुवर्णं तस्य निकषः, तद्वत् स्निग्धः-अरूक्षः । अथवा अनयोः पीतवर्णेन सदृशत्वात् स्निग्धो-मित्रं, तस्य सं० हे सौदामिन्याकनकनिकषस्निग्ध ! । अत्र लोके तमोभिः-पातकैः अदातृत्वादिभिः नक्तं-रात्रि रात्रिध्वान्तयोरभेदात्(द्ध्वान्तमित्यर्थः । असूचिसूचितं । कोऽर्थः ? पातकैर्ध्वान्तमेव स्यादिति भावः । अतः त्वं याः-लक्ष्मीः प्रति गर्तादिक्षेपेन(ण) ऊर्ती-भूमि, "अमानोना प्रतिषेधे" इति वचनात्, अकारस्य
Page #38
--------------------------------------------------------------------------
________________
June-2005
75
निषेधार्थत्वात्, अ-मा दशाय(दर्शय?)यतः ता:-लक्ष्म्यः विक्लवा:-विह्वला: सन्ति । त्वं किम्भूतः ?, स्तनित:-शब्दस्तेन हेतुभूतेन, अथवा तेन युक्तं मुखंवदनं, तेन राजते-शोभते सः स्तनितमुखरः । कुतः ? उत्सर्गात्-दानात् । कस्मिन् ?, नरपतिपथे-राजमार्गे । त्वं पुनः किं० ?, "मः शिवे विधौ चन्द्रे" इति वचनात्, मः-चन्द्रस्तस्य 'शसयोरैक्यात्' अश्मानि-उपलानि ते (तानि?) माश्मानिचन्द्रोपला:-चन्द्रकान्तमणय इत्यर्थः, तेषां भूः-भूमिर्विद्यते यस्य सः माश्मभूः । ता-जयलक्ष्मी: तस्य ऊ-रक्षणं याति-गच्छति ड प्रत्यये सम्बोधने हे तोय !
॥४१॥
तां कस्यांचिद्भुवनबलभौ सुप्तपारापतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदवशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्या ॥४२॥ इति श्रीमेघदूतकाव्ये प्रथमविश्रामः ॥
व्याख्या- तां कस्यामित्यादि । अ-परं ब्रह्म, चिद्--बुद्धिः, तयोर्भवनंगृहं तस्य सं० हे अञ्चिद्भवन !! 'बवयोरैक्यात्' बलं-रूपं तेजो वा तेन भाति स बलभः, तस्य सं० हे बलभ !। ऊ इत्यामन्त्रणे; सुप्त-दीर्घनिद्रां गतं [१०] प्रौढं आरं-अरिसमूहो यस्य तस्य सं० हे सुप्तपार !! त्वं खलु- निश्चयेन सुहृदांसज्जनानां मध्ये भवान्-चन्द्रो भवसि । भानि-नक्षत्राणि सन्त्यस्य स भवान् । "यत्र नान्यत् क्रियापदं तत्रास्तिभवतीत्यादिक्रियाऽनुक्ताऽपि प्रयोक्तव्ये"ति न्यायात् । त्वं किं कृत्वा ?, नीत्वा-आनीय कान्तां-रात्रिम् । कस्य ? सुखस्य - चिरविलसनात् यां-लक्ष्मी नीत्वा-आदाय त्वं भवान् भवसि । त्वं किम्भूतः ?, खिन्ना विद्युत् रूपाधिक्यात् येभ्यः तानि खिन्नविद्युन्ति, ईदृशानि कलत्राणि यस्य स खिन्न विद्युत्कलत्रः । तां कामित्याह - या-रात्रिः सूर्ये- श्रीभानौ दृष्टेऽपि अध्वा एव शेष:-शेषनागः तं अध्वशेष प्रतिहयेत्-न गच्छेत् । सूर्ये किम्भूते ? ईतेज:श्री: सैव अन्ताः स्वरूपं यस्य, अथवा तया युक्तो अन्तः-समीपं यस्य स यन्तः, तस्मिन् यन्ते । अभि-भीरहितं यथा स्यात् तथा उपेता:-समीपं प्राप्ताः अर्था-धनानि यस्य तस्य सं० हे उपेतार्थ !! त्वं पुनः किंवि० ?, कृत्यं-करणीयं असति- 'गत्यर्थानां ज्ञानार्थत्वात्' जानाति क्विपि स कृत्याः । वा समुच्चये ।
Page #39
--------------------------------------------------------------------------
________________
76
अनुसन्धान ३२
रात्रि: कि० ?, अपगता: ता:-तस्कराः यस्यां सा अपता-गततस्करा इत्यर्थः
॥४२॥
इति श्रीतपागच्छाधिराजभट्टारकश्रीहीरविजयसूरीश्वराशिष्यापण्डित श्रीबुद्धिसागरशिष्य पं. श्रीमानसागरकृतायां मेघदूतखण्डनायां नरेन्द्रश्रीअकबरवर्णनः प्रथमो विश्रामः समाप्तः ॥
अथ 'द्वितीयविश्रामं प्रारित्स्पु (प्सु)मङ्गलं चिकीर्षुरशान्तिहरसा(शा)न्तिकरशान्तिदेवनामधेयपूर्वकं नृपवर्णनामाह
तस्मिन्काले नयनसुभगंलिल( नयन सलिलं) योषितां खण्डितानां शान्ति नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥४३॥
व्याख्या-तस्मिन्निति । हे नयन !-लोचनतुल्य ! कासां ? योषितां । किम्भूतानां ? नखादिना कृत्य(त)वणानाम् । तस्करस्तस्याऽपत्यं ति:-चौरपुत्रः, तद्विषये अजो-रघुजः, तस्य सं० हे त्यज ! ईं-लक्ष्मी भुवं वा याति-गच्छति ड प्रत्यये सम्बोधनं हे ईय !। तस्मिन्काले-प्रभातलक्षणे प्रणयिभिः-भक्तजनैः शान्तिंश्रीशान्तिदेवं प्रति स्नात्रार्थं सलिलं-जलं नेयं-नेतव्यं भवति । सलिलं किम्भूतं ? अ:-कृष्णस्तस्य वर्त(म)-मार्गो यत्र । "स्थले विष्णुर्जले विष्णु"रिति वचनात् । तत् अवर्त्म । तस्मिन्कस्मिन्नित्याह- 'यत्तदोनित्यसम्बन्धात्' यस्मिन्काले भानो:श्रीसूर्यात् नलिनी-पद्मिनी-कमलं तदेव वदनं, तस्मात् कमलवदनात् अश्रृं स्वधवविरहनेत्राम्बु हर्तु-अपनेतुं आशु-शीघ्रं प्राला-प्रकर्षेण समर्था भवति "अलपर्यासिभूषावारणेषु" इति पाठात्, प्रकर्षेण अलति-समर्था भवति अचि प्राला । अपि-पुनः त्वयि कररुधि-सूर्यतेजोरोधके । अतः आः स्मृतौ, सः सूर्यः अनल्पाभ्यसूयः-प्रचुरेावान् स्यात् । सूर्यः किं० ? आ समन्तात् वृत्त:वृत्ताकारत्वात् स आवृत्तः ॥४३॥
१. एतादृशो विश्रामविभागो मूल-मेघदूते न दृश्यते इति ज्ञेयम् ॥
Page #40
--------------------------------------------------------------------------
________________
June-2005
77
गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने 'अच्छायात्मा प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्यान्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४४॥
व्याख्या-गम्भीराया इत्यादि । हे गम्भीर !। कुतः ?, सरितः-नदीतोऽपि हे गम्भीर !। ते-तव पयसीव-दुग्ध इव प्रसन्ने-स्वस्थे चेतसि- चित्ते सति भवान् शं-सुखं लप्स्यते । भवान् किम्भूतः ? अयां अलक्ष्मी अस्यति-क्षिपतीति विपि अयां (अयाः), पुनः किम्भूतः ?। छाया-राढा तस्याः आत्मा-जीवः-शरीरं वा, तदाधारत्वात् । अथवा अच्छ:-निर्मलः अयो-भाग्यं, तथा आत्मा-जीवः(व) स्वभावः-शरीरं वा यस्य स अच्छायात्मा । पुनः किं० ?, प्रकृत्या-स्वभावेन शु(सु)भगः-मनोज्ञः स प्रकृतिसुभगः । प्र-प्रकृष्टा वयः-पक्षिणः शुक-सारिकाकपोताद्या यस्य तस्य सं० हे प्रवे ! । अथवा चेतसि किम्भूते ?, प्रवे-प्र-प्रकृष्टो वो-महेसो वो(?)यस्मिन् तत्प्रवं, तस्मिन् प्रवे महेश्वर]त्वा(त्व)युक्ते इत्यर्थः, उज्ज्वलत्वात् । "वो महेस्वर" इत्येकाक्षरवचनात् । चटुला:-चञ्चलाः सफरामत्स्यास्तेषां ऊ(उ)द्वतनं-कष्टान्निवर्तनं यस्मात् तस्य सं० हे चटुलसफरोद्वर्त्तत् ! । असौ-खड्गे आ-श्रीर्यस्य स अस्य:, तस्य सं० हे अस्य !! पुनस्ते--तव तस्मात्नधैर्यात्-बुद्धिधैर्यात्"नो बुद्धौ ज्ञानबन्धयो"रिति सुधाकलशः । प्रेक्षन्ते-प्रकर्षण इतस्ततः विलोकयन्तीत्येवंशीलाः प्रेक्षिणो ये ता-स्तस्कराः तान्-प्रेक्षितान् त्वं मोघीकर्तुं अर्हसि-निष्फलान् विधातुं योग्योऽसि । तस्मात् कस्मात्? 'यत्तदोनित्यसम्बन्धात्' यत् नधैर्यं अस्व(अस्य)-कृष्णस्य कुं-शब्दं-भूमि वा उदविशद्उपविष्टवान् । कोऽर्थः ? अहं कृष्ण इति सम्बन्धं अधिष्ठितवान् इत्यर्थः । आः इति स्मृतौ । नधैर्यं किम्भूतं ? आ-लक्ष्मीस्तेजोरूपा तस्या निः-पतिः तत् आनि | इ इत्यामन्त्रणे ॥४४॥
अथ वर्षासु सरिन्मार्गेण जिगमिषु नरेन्द्रं प्रति कविराह-हे सखे-हे मित्र !
तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं
कृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । १. छायात्मापि० मु. मेध० ॥
Page #41
--------------------------------------------------------------------------
________________
78
अनुसन्धान ३२
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो पुलिना विवृत )जघनां को विहातुं समर्थः ॥४५॥
व्याख्या - हे सखे :-हे मित्र ! इ:-कामस्तस्य 'वप्र-स्तात: कृष्णः, तस्य सं० हे इवप्र !- पराक्रमादिना हे कृष्ण ! । हे क !- सूर्य ! तेजोमयत्वात् त्वं तस्य-गुरोः चित्-ज्ञानं आसवान्-प्राप्तो भव । "यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीत्यादि क्रिया प्रयोज्ये"ति न्यायात् । त्वं किम्भूतः ?, मुक्तः-त्यक्तो रोधोविरोधो येन सः मुक्तरोधः । चित्किम्भूतं ?, करे-हस्ते धृतं-पुस्तकग्रहणेन, पुस्तकस्य च ज्ञानमयत्वात् । पुनः किं० ? ई-लक्ष्मीः, 'शसयोरैक्यात्' रसाभूमिः, तयोः खं-सुखं, "नास्ति ज्ञानसमं सुख"मित्युक्ताः], यस्मात् तत् ईरसाखम् । पुनः किं० ? अनीलं-निर्मलं । पुनः किं० ? अनितं-अप्राप्तं । कं?बं-कलहं, क्लेशवजितमित्यर्थः । पुनः किं०? ते-तव थं-भयरक्षणं अर्थात् कर्मणामित्यर्थः । चित् पुनः किं०?, भां-दीप्ति अवति-रक्षतीत्येवंशीलं भावि । ते किम्भूतस्य ? प्रलम्बो-मानः पूजा यस्य सः, तस्य [प्रलम्बमानस्य । किं कृत्वा ? हृत्वाअपनीय, किं ?, प्रस्थानं-चलनं । किम्भूतं ? 'यत्तदोनित्यसम्बन्धात्' यो गुरुः ज्ञाताऽपि-सकलशास्त्राणां वेत्ता सन्, किमित्याश्चर्ये, विपुलजधनां-स्त्रियं विहातुंत्यक्तुं समर्थो भवति । किम्भूतः ? न विद्यते स्वादः-संसारसम्बन्धी यस्य सः अस्वादः । गुरुः किंवि० ? क:-वायुतुल्यः अप्रतिबद्धत्वात् । आ इति स्मृतौ
॥४५॥
त्वन्निस्या ष्य)न्दोच्छ्वसितवसुधागन्धसम्पर्करम्यः श्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरि ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥४६॥
व्याख्या- हे अरन्ध्र ! - अच्छिद्र !! ध्वनौ--शब्दे ता-लक्ष्मीर्यस्य, तस्य सं० हे ध्वनित !। उ:-शम्भुः तद्वत् पाति-रक्षति तस्य सम्बोधनं हे उप ! हे देव ! -हे नरेन्द्र । ते-तव पू:-पुरं सैव वो-महेशः तं पूर्व; अशीतो-गुरुः "नीचैः स्वे(स्वै)राऽल्पनीचेष्वि"त्यनेकार्थवचनात्, नीचैः-स्वैरं वास्यति-प्राप्स्यति । "वाक् सुखातिगतिसेवासु स्याद्वाल्ग् (गमन)हिंसयो"रिति धातुपाठात् । न विद्यते १. 'वप्र' शब्दस्तातवाचकत्वेन प्रयुक्तोऽत्र । वप्रः-बप्र:-बप्प:-बापः इति यावत् ।
Page #42
--------------------------------------------------------------------------
________________
June-2005
79
शी-निद्रा-हिंसा वा यत्र सा अशीः, ईदृक् ता-चारित्रलक्ष्मीर्यस्य सः अशीत:हिंसानिद्राद्रव्यरहित इति । समर्थविशेषणात् गुरुरिति गम्यते । अशीतः किम्भूतः? तुभ्यं त्वदर्थं नितरां स्यन्दते च(चे)ति सः त्वत्रिस्यन्दः । उत्स्वसिता-रोमाञ्चिता वसुधा भूमिाः}, "तत्स्थे तव्यपदेशात्" जगद् वा यस्मात् स उत्स्वसितवसुधः । आ-समन्तात् गन्धस्य-सुरभेर्यः सम्पर्कः-संयोगस्तेन रम्यः-मनोज्ञः, एषां पदत्रयाणां विशेषेण कर्मधारयः । पुनः किम्भूतः ?, परिणमयिता-कर्मणां परिपाककर्ता इत्यर्थः । ते किम्भूतस्य? जिगमिषोः- 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञातुमिच्छोः । किं ? आयुः-जीवितकालः । चकारः पुनरर्थे । ततः श्रोत-इन्द्रियं 'जातेरैक्यात्' श्रोतांसीत्यर्थः । केषां?, काननोदुम्बराणां । कानना:-काननोद्भवाः, उदुम्बरा:-वृक्षविशेषास्तेषां, अथवा कस्य-सुखस्य आननं-मुखं, तस्य सं० हे कानन ! शेषं तथैव । पूर्व किम्भूतं ? पुरमहेशं । अत्र पुरस्य महेशेन साम्यं जने स्मितकारित्वात् परैरक्षोभ्यत्वाच्च । पूर्वं कि० ? गिरि-पूज्यं । पुन: किं० ?, सुभगं-मनोहरं । कैः ? दन्तिभि:-हस्तिभिः । 'वष्टि भागुरिरल्लोप"मित्यादिना अपेरकारलोपः । अपि पुनः गुरुः किम्भूतः ? ईयमानः अर्थात् सद्भिरित्यर्थः
॥४६॥
[तत्र स्कन्दनियतवसति पुष्पमेघीकु(कृ)तात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजला । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनां मत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥४७॥
व्याख्या - तत्र स्कन्दमित्यादि । तेभ्यः-तस्करेभ्यः त्रायते-रक्षति डप्रत्यये हे तत्र !-तस्करभयवारकत्वात् हे नप !! पुष्पं-धनदविमानं, तस्मिन् तस्य वा आ-लक्ष्मीर्यस्य स पुष्फा:(ष्पाः) विशेषणबलाद् धनदस्तस्य सं० हे पुष्फा: (ष्याः)!- हे धनद !॥ कै: ? सारैः-धनैः । हे व्योमगङ्गाजल !-निर्मलत्वात् आकाशगङ्गाजलतुल्य !! हे हुतवह !-हे वह्ने ! कस्य हेतोः? वासवीनांइन्द्रसम्बन्धिनीनामपि चमूनां रक्षाहेतोः-भस्मकारणस्य । आ-लक्ष्मीःतया आर्द्रःसरसः, तस्य सं० हे आई !! ए इत्यामन्त्रणे । चित्रत्वात् विसर्गाऽभावः । नव:स्तोत्रं तेन शशिभृतो-महेशः अचिन्त्यशक्तित्वात् स म(न)वशशिभृतः, तस्य सम्बो० १. जलाद्रैः० मु. मेध० ।।
Page #43
--------------------------------------------------------------------------
________________
अनुसन्धान ३२
हे नवशशिभृत ! । हे अ !-हे कृष्ण ! भवान् तत्-तेजः स्त्रपयतु । तत्तेजः । "स्कन्दं गतिशे(शो)षणयो'रिति धातुः । स तरस्कन्दिन् (?) । शोषयत् । कां ? नियतवसति-नियता-मनुष्यलोके सततं भवतीत्यादिप्रकारेण निश्चिता या वसति:रात्रिः तं तथैव । 'यत्तदोनित्यसम्बन्धात्' तत् किमित्याह-यत् तेजः मुखे-वक्त्रे, हि-निश्चित, संभृतं-सम्यक् धृतं भवति । भवति क्रियापदे हेतुस्तथैव। तेजः किम्भूतं ? अत्यादित्यं-सुगमम् । भवान् किं० ?, पुष्पाणां मेघोऽस्याऽस्तीति पुष्पमेघी । तेजः किं०? ई:-तेजः श्री[:]तया कृत:-निःपादितः निष्पन्नो वा आत्मासूर्यो येन तत् ईकृतात्मः । आ इति सम्बोधनेऽव्ययः ॥४९||
ज्योतिर्लेखावलयि गलितं यस्य बर्ह भवानी पुत्रप्रेम्णा कुवलयदलप्रापिकणे करोति । धौतापाङ्गं हरशुसिर शशि )रुचा पावकेस्तंमयूरं पश्चादप्रि(द्रि ग्रहणगुरुभिग(र्ग )र्जितैना तैर्न तयेथाः ॥४८॥
व्याख्या ! ज्योति:-तेजः, तेन लेख:-देवः, तस्य सं० हे ज्योतिर्लेख !। आ-सुवर्णादिलक्ष्मीः तया, समन्ताद्वा 'बवयोरैक्यात्' बलिः-पूजा यस्य । अथवा बलि-बलि(नृ)पतुल्यः सः, तस्य सं० हे बले ! इ इत्यामन्त्रणे । कुवलयदलानि प्राप्नुतः इत्येवंशीलौ-कोमलत्वात् करें यस्य तस्य सं० हे कुवलयदलप्रापिकर्णा(ण) ! ई इति संनिधानार्थे । हे पावक !-पवित्रीकारक ! “अद्रिस्तु पर्वते सूर्ये सा(शा)खिनी"त्यनेकार्थवाक्यात् अद्रिग्रहः-सूर्यग्रहः तद्वत्, "णस्तु फले ज्ञाने" इत्येकाक्षरवचनात् भास्करत्वात् णो-ज्ञानं यस्य तस्य सं० हे अद्रिग्रहण !-हे श्रीगुरो !। तं श्रीनरेन्द्रं-मयूरं त्वं नर्तय(ये)थाः]। कैः ? जिनवाग्जलदध्वानयोरभेदोपचारात् गर्जितैः-जिनवाग्भिः शब्दैर्वा । कि० गजितैः ?, गुरुभि:-महद्भिः । त्वं किम्भूतः ? इं (इ.)-कामः रूपवत्त्वात् । तं किं० ?, धौतं-क्षालितं, तथा आं-लक्ष्मी पाति डप्रत्यये आपं, ईदृशं अङ्ग-देहं यस्य स तं धौतापाङ्गं । कया ? हरशशिरुचा हरो-रुद्रः, शशी-चन्द्रः, तद्वत् तयोर्वा रुग्रोचि: तया तथैव । त्वं किं०? प:-प्रौढः कुतः , चात्-चन्द्रात् निर्मलत्वात् । तं कं ? यस्य नरेन्द्रस्य भवानी-पार्वती पुत्रप्रेम्णा बह-परिवारं करोति, "बर्हः पणे परिवारे कलापे" इत्यनेकार्थः । बहँ किम्भूतं ? "गलिर्दुष्टवषः शक्तोऽप्यधूर्वह" इति नाममालावाक्यात् गलयो-दुष्टवृषभाः शक्ता अपि
Page #44
--------------------------------------------------------------------------
________________
June-2005
अशक्तिमन्तः स्युः । तादृशाः ताः - तस्करा यस्मात् तं गलितम् ॥४८॥ आराध्यैनं शरवणभुवं देवमुल्लङ्गिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथा[:] सुरभितनयालंभजां मानयिष्यन् श्रोतोमूर्त्या भुविपरिणतां रन्तिदेवस्य कीर्तिम् ॥४९॥
व्याख्या - हे आराध्य !- हे पूज्य ! सुरभितः सुगन्धीकृतः नयो- न्यायो येन तस्य सं० हे सुरभितनय ! । अथवा सुरभिर्गो: (गः) तस्या: तनयः --पुत्रः वृषभस्तस्य सं० हे सुरभितनय ! धौरेयत्वात् । विलम्बं कुर्या: - क्षणमात्रं तत्र स्थेयमिति भावः । हे गुरो ! त्वं रनं (नर) देवं नृपं ष्य ( प्र ? ) ति व्यालम्बेथाः । त्वं कुत: ? 'डलयोरैक्यात्' जडानां मूढानां कणो - अल्पमात्रं यत् भयं, असौ नरेन्द्रस्याग्रे क्षणमात्रं न स्थास्यतीत्यादिरूपा भीतिः तस्मात् जलकणभयात् । त्वं किं० ?, उल्लङ्घिनाध्वा, सुगमम् । पुनः किं० त्वं ? मुक्त: - त्यक्तः मार्गोऽन्वेषणंपन्था वा येन सः मुक्तमार्गः, कस्य ? ए:- कामस्य । पुनः त्वं रन्तिदेवस्य कृस्तस्य (?) कीर्त्ति (र्त्ति) अलं - अत्यर्थं भज-सेवस्व । कषा(या)?, श्रोतोमूत्र्त्या श्रोतांसि - इन्द्रियाणि तै: प्रधानाः मूर्तिः शरीरं तया । कोऽर्थः ? पञ्चेन्द्रियप्रधानशरीरेण कीर्त्ति (ति) प्राप्नुहीत्यर्थः । कीर्तिं किम्भूतां ? पञ्चेन्द्रियप्रधानशरीरेण पृथिव्यां परिणतां विस्तीर्णाम् । त्वं किं कुर्वन् ?, मामां (?) आं- श्रियं आनयिष्यन् । देवं किम्भूतं ? शरवणभुवं महातेजस्वित्वात् स्कन्दतुल्यमित्यर्थः ॥ ४९ ॥
त्वय्यादातुं जलमवनते शार्डिगणो वर्णचौरे
तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥५०॥
व्याख्या || स्थूलं मध्यं यस्य अथवा "मध्यं न्याय्येऽवलग्नेन्तरि" ति वचनात् स्थूलं-पीनं मध्यं - न्याय्यं - न्यायो यस्य सः स्थूलमध्यः, तस्य सम्बो० हे स्थूलमध्य ! भुवः - पृथिव्यां हे इन्द्र ! - हे शक्र !! त्वयि तस्या - लक्ष्म्याः प्रवाहंलोकरूया दानं दातुं अवनते - नीचे भूते सति दृष्टी :- लोचनानि आवर्ज्य - सम्यग् संस्पृश्य, गगनगतयो देवाः, इवोत्प्रेक्षायां जलं - पानीयं दूरं दूरे एव नत्वभ्यर्ण प्रेक्षिष्यन्ते द्रक्ष्यन्ति । कोऽर्थः ? त्वया यदा दक्षिणा याचकेभ्यो दत्ता
-
81
Page #45
--------------------------------------------------------------------------
________________
अनुसन्धान ३२
तदाऽभ्यर्णवत्तिसर: सिन्धुकूपादिजलं सकलं व्ययितं दूरे एव जलं स्थितमिति भावः । भूरिदानं च दत्तमिति तात्पर्यार्थः । तस्याः कस्याः ? 'यत्तदोर्नित्यसम्बन्धात्' या आ-लक्ष्मीः सिन्धोः - समुद्रात् तनुं - देहं अवे: प्राप्त्यर्थत्वात् आव-प्राप । तनु (नुं) किंवि० ?, आत्- कृष्णात् अपि पृथुं महत्तरं - गुरुतरं । पुनः किंवि० ? नीलं - नीलमणिरूपं । पुनः किंवि० ?, एकं श्रेष्ठं । पुनः किंवि० ?, मुक्तागुणं - मुक्ताःत्यक्ता: अगुणाः अपगुणा येन स मुक्तागुणः तं मुक्तागुणम् । या किंवि० ? दूरात् भातीति डप्रत्यये दूरभा । त्वयि किं० ? शाङ्गिणः - कृष्णस्य वर्णो-यश:स्तुतिर्वा तस्य चौर:- अपहारकः सः तस्मिन् वर्णचौरे - कृष्णयश: सर्वस्वापहारके इत्यर्थः ॥५०॥
तामुत्तीर्य व्रजपरिचितभ्रूलता विभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णसारप्रभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥५१॥
व्याख्या ॥ भ्रूलताया विभ्रमो - भ्रूसमुद्भवो विकारविशेषो विद्यते यासां ताः भ्रूलताविभ्रमाः विशेषणसामर्थ्यात् स्त्रियः, तासां भ्रूलताविभ्रमाणां स्त्रीणां व्रजो (व्रजः ) - समूह:, तेन परि-समन्तात् चितो - व्याप्तो यः तस्य सम्बो० हे व्रजपरिचित !! भूलताविभ्रमाणां किं० ?, प्रकर्षेण भातीति प्रभा, प्रकृष्टा वा प्रभा यासां ताः प्रभाः, तासां प्रभाणाम् । आत्-कृष्णात् उत्- ऊद्धर्वं प्राबल्येन वा क्षेपः- उपमादिभिः आधिक्यकरणं यस्य तस्य सं० हे उत्क्षेप ! पा-प्रौढा क्ष्माभूमिर्यस्य तस्य सम्बो० हे पक्ष्म ! परि सामस्त्येन विलसत् - देदीप्यमान्नं (नं) कृष्णवत्-विष्णुवत् सारं बलं धनं वा यस्य तस्य सं० [हे] परिविलसत्कृष्णसार ! | नुं - स्तुतिं गच्छति स नुगः, तस्य सम्बो० हे नुग ! | मधु-मद्यं कुर्वन्तीति मधुकरा:कल्यपालाः, तेषां श्रियं लक्ष्मीं शोभां वा मुष्णाति अपहरति यः स मधुकर श्रीमुषः । त्वया मद्यस्य करणं पानं च निषिद्धं, ते तु तत् कुर्वन्ति । ततस्तेषां शिक्षार्थं सर्वस्वापहारकः । तस्य सम्बो० हे मधुकर श्रीमुष ! | आम:श्रीआमनृपः श्रीबप्पभट्टिसूरिपादानां परमभक्तः, तथा त्वमपि श्रीहीरविजयसूरिपादानां ततु (तत्तु) ल्यः, तत्सम्बो० हे आम ! । दैः- कलत्रैः, "शं श्रेयसि सुखेऽव्यय" इति सुधाकलशवचनात् श:- श्रेयान् उत्कृष्टः, तत्सम्बो० हे दश !!
82
-
-
Page #46
--------------------------------------------------------------------------
________________
June-2005
83
अत्र कौ-पृथिव्यां, कुं-पृथिवीं त्व(त्वं) उ-निश्चयेन अपा:-रक्षितवान् । किं कृत्वा ? उत्तीर्य-अवतीर्य । कां ? तां-पृथिवीं । त्वं किं कुर्वन् ?, आत्मैव बिम्बं आत्मानमित्यर्थः अपात्रं पात्रं सर्वगुणभाजनं करोतीति शतरि पात्रीकुर्खन् । कस्मिन् ? "पुरं शरीरे नगरे गृहपाटलिपुत्रयोः" इत्यनेकार्थवचनात् पुरै-गुहैः तथा वधूभिः ऊनो-रहितो यः सः पुरवधून:-अनगारेश्वर इत्यर्थः, तस्मिन् पुरवधूने, सप्तम्याः ] सामीप्या र्थत्वात् अनगारेश्वरसमीपे इत्यर्थः पुरवधूने किवि०?, ऊहं-धीगुणविशेष लान्तीति डप्रत्यये ऊहला:-विचारज्ञाः, तेषां ऊहलानां-विचारज्ञानां मध्ये दक्षेनिपुणे । उ इत्यामन्त्रणेऽव्ययः ॥५१॥
ब्रह्मावर्त्त जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यषिच(च)न् मुखानि ॥५२॥
व्याख्या- शिताः- तीक्ष्णाः शरा:-बाणाः यस्य सः शितशरः, तस्य सम्बो० हे शितशर ! । केषां मध्ये ? राजन्यानां-क्षक्षि(त्रि)याणां-राजपुत्राणां वा मध्ये इत्यर्थः । त्वं, "दाराः क्षेत्रं वधूभर्येति" वचनात्, क्षेत्रं-भार्यां तद्भजेथाः तत् सेवेथाः । 'यत्तदोर्नित्यसम्बन्धात्' यत्क्षेत्रं आ-लक्ष्मीः तस्या धारापाताः, अत्र लक्ष्मीशब्देन वसु ग्राह्यं, ततः तैः आधारापातैः-वसुधारापातैः इत्यर्थः, गां-पृथ्वी त्वमिव अभ्यषिञ्चत् । पुनः यत्र क्षेत्रे मुखानि-वक्त्राणि कमलानि-कमलतुल्यानि वर्तन्ते । अत्र बहुत्वं सर्वशरीरावयवेषु पूज्यत्वात् मुखस्य । कोऽर्थः ? यत्क्षेत्रं दानैर्वर्षावद्वर्षति यस्य च मुखं कमलतुल्यं यच्च कौरवं-कुर्वादिशुद्धवंशोद्भव तत्क्षेत्रं त्वं भजेथा इति भावः । आधारापातैः किम्भूतैः ? शतैः-शतसंख्यैः । क्षेत्रं किंवि०?, ब्रह्मावर्त्त, ब्रह्म-ब्रह्मचर्यं तस्यैव आवतः-चिन्तनं-आवर्तनं यत्र यस्य वा तद् ब्रह्मावर्त । "आवर्तः पयसां भ्रमे आवर्तने चिन्तने चे"त्यनेकार्थः । पुन: किंवि० ?, क्षत्राणि-क्षत्रियान् प्राति-पूरयति डप्रत्यये क्षत्रप्रं, ईदृशं यत् धनं-द्रव्यं तस्य पिशुनं-सूचकं प्रशस्तलक्षणोपेतत्वात् यत् तत् क्षत्रप्रधनपिशुनम् । पुनः किंवि०? कौरव-कुरुवंशोद्भवम् । त्वं किं कुर्वाणः ? गाहमान:-विगाहमानः कं? जनपदं-देशं 'जातै(ते)रैक्यात्' जनपदानित्यर्थः । कया? छायया-शोभयाराजरीत्या न तु लुण्टनादिप्रकारैः । त्वं किंवि०?, अं-कृष्णं भाविजिनं चेतसि
anal
Page #47
--------------------------------------------------------------------------
________________
84
अनुसन्धान ३२
धत्ते इति डप्रत्यये अधः । पुनः किंवि० ? 'डलयोरैक्यात्' ल - इन्द्रः, तस्य स्त्री ली, तां वाति - गच्छति ड प्रत्यये लीवः - इन्द्रः, तद्वत् धन्व- धनुर्यस्य स लीवधन्वा । अथवा क्विचि (क्वचित्) गाण्डीवस्थाने गांजीव - शब्दोऽप्यस्ति ततः जीवधन्वा - जीववत् - आत्मवत् वल्लभत्वात् धन्व- धनुर्यस्य स जीवधन्वा ॥ ५२ ॥
·
हित्वा हालामभिमतरसां रेवतीलोचनाडूझं बन्धुप्रीत्या समरविमुखो लाङ्गलीयाः सिषेवे । कृत्वा तासामभिगममपां सौम्यसारस्वतीनामन्तः शुद्धस्त्वमिव भविता वर्णमात्रेण कृष्णः ॥५३॥
व्याख्या | अभिमत - इष्टः रसः - शान्ताभिधो यस्य यत्र वा स अभिमतरस: तस्य सम्बो० हे अभिमतरस ! रेवत्यां रेवतीनक्षत्रे उपलक्षणत्वात् पुष्यादौ लोचनंलोचो यस्य स रेवतीलोचनः तत्सम्बो० हे रेवतीलोचन ! हे सौम्य !- हे अक्रूर ! । स नरेन्द्रः त्वं " वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्यय" - मिति [ वचनात् त्वंवत् - त्वमिव स नरेन्द्रः अन्तः शुद्धो भविता भविष्यति । किं कृत्वा ? हालांसुरां हित्वा - सुरापानं त्यक्त्वा । स किंवि० ?, ऋ - भूमिः, णो-ज्ञानं, तथा " मात्रा - परिच्छदे अक्षरावयवे द्रव्ये" इत्यनेकार्थवचनात् मात्रा - परिच्छदः - पुत्रादिपरिवारत् । समाहारद्वन्द्वे ऋणमात्रं, तेन ऋणमात्रेण, कोऽर्थः ? भूम्या ज्ञानेन परिच्छदेन च कृष्णः-कृष्णतुल्यः इत्यर्थः । सः कः ? ' यत्तदोर्नित्यसम्बन्धात्' यो नरेन्द्रः, इवोत्प्रेक्षायां, बन्धुप्रीत्येव समानधर्मत्वात् बन्धुस्नेहेनेव अं- कृष्णं भावितीर्थकरं सिषेवे - सेवितवान् । किं कृत्वा ?, तासां अपां - पानीयानां अभिगमं संस्पर्शआचमनं वा कृत्वा - विधाय - शुचीभूयेत्यर्थः । तासां कासां ?, 'यत्तदोर्नित्यसम्बन्धात्' या आपः लाङ्गलीयाः विद्यन्ते । ल- इन्द्रः, तस्य अङ्गं वपुः, तल्लीयतेआश्लिष्यते यः स लाङ्गली : - मेघः । इन्द्रस्य मेघवाहनत्वात् वपुषि मेघा लीना: विद्यन्ते इति रूढिः । ततस्तत्प्रभवा इमा लाङ्गलीया - मेघप्रभवा आपः इत्यर्थः । अपां किंवि० ? सारस्वतीनां सरस्वत्यां नद्यां भवाः सारस्वत्यः, तासां सारस्वतीनाम् । आं किंवि० ? " अ: कृष्णे विनतासूना" विति महीपवचनात् अस्य - गु (ग) रुडस्य अङ्क चिह्नं यस्य स आङ्कः, तं अङ्कं (आङ्क)गरुडध्वजमित्यर्थः । स किंवि० ? मरविमुख:- मश्चन्द्रस्तद्वत् सौम्यं, तथा रविःसूर्य: तद्वद् भास्वरं, मुखं- आस्यं यस्य [स] मरविमुखः ||५३ ||
Page #48
--------------------------------------------------------------------------
________________
June-2005
85
तस्माद्गच्छेरनुकनखलं शैलराजावती) जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोमिहस्ताम् ॥५४॥ व्याख्या (?)
इति श्रीप्रथमस्वर्ग संपूर्णम् ( सर्ग: संपूर्णः) ।।
or
y
mr
परिशिष्ट
पद्यतुलना-तालिका श्लोकाङ्कः
मुद्रित-प्रतिसत्कश्लोकाः । मेघदूतखण्डना-प्रतिसत्कश्लोकाः (वासुदेव लक्ष्मण शास्त्री पणशीकर
सम्पादित- निर्णयसागरीय ई. १९१८ वर्षे प्रकाशित-सटीक
पुस्तकसत्क पाठोऽत्र लब्धः)। कश्चित्कान्ता तस्मिन्नद्रौ तस्य स्थित्वा प्रत्यासन्ने धूमज्योतिः जातं वंशे सन्तप्तानां त्वामारूढ मन्दं मन्दं
तां चावश्यं ११ कर्तुं यच्च १२ आपृच्छस्व १३ मार्ग तावत् । १४ अद्रेः शृङ्ग
so
5 w
o
v
Page #49
--------------------------------------------------------------------------
________________
86
अनुसन्धान ३२
2
८. 2
१८
(१८-१९ मध्ये) क्षेपकः ।
१८
(२१-२२ मध्ये) क्षेपकः
१५ रत्नच्छाया १६ त्वय्यायत्तं १७ त्वामासार
अध्वक्लान्तं
छन्नोपान्तः २० स्थित्वा तस्मिन् २१ तस्यास्तिक्तै
नीपं दृष्ट्वा २३ अम्भोबिन्द
उत्पश्यामि
पाण्डुच्छायो २६ तेषां दिक्षु २७ नीचैराख्यं
विश्रान्तः सन्
वक्रः पन्थाः ३० वीचिक्षोभ
वेणीभूत ३२ प्राप्यावन्ती
दीर्घाकुर्वन् ३४ हारास्तारां
प्रद्योतस्य
(३१-३२ मध्ये) प्रक्षेपः।
" ,, ,, - पत्रश्यामा ।
जालोद्गीणै० ३२ । भर्तुः कण्ठ० ३३ ।
३८
३४
अप्यन्यस्मिन् ३९ पादन्यास
पश्चादुच्चै ४१ गच्छन्तीनां ४२ तां कस्यांचिद
Page #50
--------------------------------------------------------------------------
________________ June-2005 87 . 47 43 तस्मिन् काले 44 गम्भीरायाः 45 तस्याः किञ्चित् 46 त्वनिष्यन्दो तत्र स्कन्दं 48 ज्योतिर्लेखा __ आराध्यैनं 50 त्वय्यादातुं तामुत्तीर्य 52 ब्रह्मावर्त 53 हित्वा हाला 54 तस्माद्गच्छे 49