________________
72
अनुसन्धान ३२
... ति क्विपि नपुंसके इस्वत्वे आनि ॥३६-३७॥युग्मम् ॥ अप्यन( न्य )स्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३८॥व्याख्या (?) *पादन्यासक्वणितरसनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् ॥३९।।
व्याख्या-अप्यान्यास्मिन्नित्यादि । जलधरो-मेघस्तद्वत्, "महा उत्सव तेजसी" इति वाक्यात्, महस्तेज उत्सवो वा यस्य तस्य सं० हे जलधरमह ! नाये-न्याये, “नो बुद्धौ ज्ञानबन्धयो"रिति वाक्यात्, नो-बुद्धिर्यस्य तस्य सं० हे नयन ! । सं-शोभनं ध्यायति-चिन्तयति जनानां ड प्रत्यये सन्ध्यः तस्य सं० हे सन्ध्य !! आ-समन्तात् बलिनरेन्द्रवत् पटहो-दानसम्बन्धी यस्य तस्य सं० हे आबलिपटह ! । भवान् विषयं-देशमासाद्य-प्राप्य अस्मिन् काले अभि- भीरहन्ति (भीरहितं) यथा स्यात्तथा एति-चलति । देशं किम्भूतं ? स्थातव्यं-निवासयोग्यम् । कस्य ? ते-तव । पुनः किम्भूतं ?, अकालं-धवलं निःपापत्वात् । अथवा, अकं-दुःखं अलति-वारयतीति अकालः तं अकालम् । अथवा, न विद्यते काल:दुःकालः-मरणं वा यत्र सः, तं अकालम् । देशमित्यत्रैकत्वं जातेरेकत्वनिर्देशात्(द्)ज्ञेयम् । भवान् किम्भूतः ?, भानुः-तस्करादिनाशकत्वात् भास्करत्वात् सूर्यतुल्यः इत्यर्थः । अपि पुनरर्थे । भवान् गर्जितानां-मत्तकुञ्जराणां, "गर्जितो मत्तकुञ्जरे" इत्यनेकार्थवाक्यात् फलं-लाभं लप्स्यसे। फलं किम्भूतं ? अविकलंमनोज्ञं । भवान् किं कुर्वन् ? शूलिनः श्लाघनीयां-महेशस्य श्लाघ्यां ईदृशीं तां-- लक्ष्मी कुर्वन्-सृजन् । गर्जि[ता]नां किम्भूतानां ?, आ समन्तात् मन्द्रो-मधुरगम्भीरो ध्वनिर्येषां तेषां आमन्द्राणाम् । “निस्तु नेतरी"ति अनि-पतिरहितं यथा स्यात्तथादेशमासाद्य । शेषं तथैव व्याख्येयम् । फलं किम्भूतं ? या-लक्ष्मी: अस्मिन्नस्तीति यावत् कर्मतामापन्नम् ।।३८।। १. पाठोऽयमधिको लिखितोऽस्तीति प्रतिभाति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org