SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 54 अनुसन्धान ३२ खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्ताऽसि यत्र क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपयुज्य ॥१३॥ व्याख्या- मार्गमित्यादि । मां-लक्ष्मी इता-प्राप्ता: ये दनुजाः-दानवाः । ल-इन्द्रः तद्वत् दो-दानं यस्य सः । अथवा "दो दातृदानयो"रिति सुधाकलशात् । तद्वत् दो-दाता सः, तस्य सं० हे मेतदनुजलद ! । सं०शोभनं दं-कलत्रं यस्य तस्य सम्बोधनं हे सन्द ! | "श्रोत्रपे कर्णमार्गे प: पाने पवने पथि" इति सुधाकलशः । त्वं यं गुरुं श्रोष्यति 'यत्तदोनित्यसम्बन्धात्'। तु-पुनः तस्य- श्रीगुरोः तावत् आदौ मार्ग-धर्माचरणरूपं श्रृणु । गुरुं किं० ?, ईशं - इ:-कामस्तस्य विनाशे ईशं-रुद्रप्रायं, । मार्ग किम्भूतं ?, अतन्ती[ति]क्विपि अत:-आत्मानः, तेषां प्रयाणानुरूपं-गमनयोग्यं । पुनः किं०? शिखरिषु पदं-वृक्षेषु श्रेष्ठं कल्पवृक्षं ई(इ)ष्टार्थपूरणात् । किं कुर्वतः गुरोः ?, कथयत:-प्ररूपयत: धर्माधर्मस्वरूपमिति शेषः । परि-सामस्त्यो(स्त्ये)न लघून्-अद्युम्नादिना ह्रस्वान् प(पा)ति-रक्षति तस्य सं० हे परिलघुप ! | तु पुनरर्थे । यत्र-गुरौ यो-यमोऽपि खिन्नः खिन्नः तथा क्षीणः क्षीणश्च भवति । गुरौ किम्भूते ?, श्रोतसां-इन्द्रियाणां उपयुजि-गृहीतरिनिग्रहकर्तरि इत्यर्थः । अ इति सम्बोधने । नितरां असौ-खङ्गे आ-लक्ष्मीर्यस्य सः, तस्य सं० हे न्यस्य !- नरेन्द्र ! त्वं गन्ताऽसि-, 'गत्यर्थानां ज्ञानार्थत्वात्' ज्ञाता वर्तसे । स्वयमेव विज्ञोऽसि तर्हि मयाऽस्य गुरोः किं स्वरूपं निरूप्यते इति भावः ॥१३॥ अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभिदृष्टोत्साहश्चकितचकितं मुग्धसिद्धां श( ? )ताभिः (?)(द्धाङ्गनाभिः? )। अस्मात्स्थानात् सरसनिचुलादुत्पतोदे दङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥१४॥ ___ व्याख्या - अद्रेरित्यादि । अङ्ग इत्यमन्त्रणे । हे मुग्ध ! - हे रम्य ! हे सिद्ध ! - प्रतिष्ठाप्राप्स: (स!), हे स्थूलहस्त !- हे बृहत्कर ! दानादिशुभकृत्यकरणादित्यर्थः । खं-सुखं यथा स्यात् तथा । पथि-मार्गे । उत्प्राबल्ये तप(पत)गछा(च्छ)त्वं । किं कुर्वन् ? परिहरन्-निवारयन् । कान् ?, अवलेपान्-- मदान्, बहुत्वनिर्देशात् अष्टाऽपि ज्ञेयाः । केषां? दिशः-प्राच्यादिकाः चतस्रः, नागा:-हस्तिन: ते दिग्नागाः तेषाम् । नागशब्दग्रहणेन "ध्वजान्तो धर्मः गजान्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.229509
Book TitleMeghdoot Khandana
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages50
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size899 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy