Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 46
________________ June-2005 83 अत्र कौ-पृथिव्यां, कुं-पृथिवीं त्व(त्वं) उ-निश्चयेन अपा:-रक्षितवान् । किं कृत्वा ? उत्तीर्य-अवतीर्य । कां ? तां-पृथिवीं । त्वं किं कुर्वन् ?, आत्मैव बिम्बं आत्मानमित्यर्थः अपात्रं पात्रं सर्वगुणभाजनं करोतीति शतरि पात्रीकुर्खन् । कस्मिन् ? "पुरं शरीरे नगरे गृहपाटलिपुत्रयोः" इत्यनेकार्थवचनात् पुरै-गुहैः तथा वधूभिः ऊनो-रहितो यः सः पुरवधून:-अनगारेश्वर इत्यर्थः, तस्मिन् पुरवधूने, सप्तम्याः ] सामीप्या र्थत्वात् अनगारेश्वरसमीपे इत्यर्थः पुरवधूने किवि०?, ऊहं-धीगुणविशेष लान्तीति डप्रत्यये ऊहला:-विचारज्ञाः, तेषां ऊहलानां-विचारज्ञानां मध्ये दक्षेनिपुणे । उ इत्यामन्त्रणेऽव्ययः ॥५१॥ ब्रह्मावर्त्त जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यषिच(च)न् मुखानि ॥५२॥ व्याख्या- शिताः- तीक्ष्णाः शरा:-बाणाः यस्य सः शितशरः, तस्य सम्बो० हे शितशर ! । केषां मध्ये ? राजन्यानां-क्षक्षि(त्रि)याणां-राजपुत्राणां वा मध्ये इत्यर्थः । त्वं, "दाराः क्षेत्रं वधूभर्येति" वचनात्, क्षेत्रं-भार्यां तद्भजेथाः तत् सेवेथाः । 'यत्तदोर्नित्यसम्बन्धात्' यत्क्षेत्रं आ-लक्ष्मीः तस्या धारापाताः, अत्र लक्ष्मीशब्देन वसु ग्राह्यं, ततः तैः आधारापातैः-वसुधारापातैः इत्यर्थः, गां-पृथ्वी त्वमिव अभ्यषिञ्चत् । पुनः यत्र क्षेत्रे मुखानि-वक्त्राणि कमलानि-कमलतुल्यानि वर्तन्ते । अत्र बहुत्वं सर्वशरीरावयवेषु पूज्यत्वात् मुखस्य । कोऽर्थः ? यत्क्षेत्रं दानैर्वर्षावद्वर्षति यस्य च मुखं कमलतुल्यं यच्च कौरवं-कुर्वादिशुद्धवंशोद्भव तत्क्षेत्रं त्वं भजेथा इति भावः । आधारापातैः किम्भूतैः ? शतैः-शतसंख्यैः । क्षेत्रं किंवि०?, ब्रह्मावर्त्त, ब्रह्म-ब्रह्मचर्यं तस्यैव आवतः-चिन्तनं-आवर्तनं यत्र यस्य वा तद् ब्रह्मावर्त । "आवर्तः पयसां भ्रमे आवर्तने चिन्तने चे"त्यनेकार्थः । पुन: किंवि० ?, क्षत्राणि-क्षत्रियान् प्राति-पूरयति डप्रत्यये क्षत्रप्रं, ईदृशं यत् धनं-द्रव्यं तस्य पिशुनं-सूचकं प्रशस्तलक्षणोपेतत्वात् यत् तत् क्षत्रप्रधनपिशुनम् । पुनः किंवि०? कौरव-कुरुवंशोद्भवम् । त्वं किं कुर्वाणः ? गाहमान:-विगाहमानः कं? जनपदं-देशं 'जातै(ते)रैक्यात्' जनपदानित्यर्थः । कया? छायया-शोभयाराजरीत्या न तु लुण्टनादिप्रकारैः । त्वं किंवि०?, अं-कृष्णं भाविजिनं चेतसि Jain Education International anal For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50