Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 20
________________ June-2005 57 किं०?, चिद्-बुद्धिः तया पाति-रक्षतीति चित्पः । पुनः किं० ?, लघु-शीघ्रं गति:- ज्ञानं यस्य सः, अथवा लघूनां-बालानां गतिः-मार्गो वा यः । यतः, "दुर्बलानामनाथानां बालवृद्धतपस्विनाम्।। पिशुनैः परिभूतानां सर्वेषां पार्थिवो गतिः ॥" इति वचनात् सः लधुगति: । पुन: किं०?, भूः-भूमिः तस्याः सकाशात् या-लक्ष्मीर्यस्य सः भूयः । किमिति वितर्के । एव-निश्चितम् । अथवा ए इत्यामन्त्रणे, वेषु-ज्ञानेषु उत्तरं-श्रेष्ठं स्वपरहितत्वात् श्रुतं तेन वोत्तरेण । श्रुतज्ञानेन त्वं क्षेत्रं व्रजेत्यपि व्याख्येयम् । हे जन[प] ! हे जनरक्षक !, हे द !.- हे दायक ! ||१६|| त्वामासारप्रशमितवनोपप्लवं साधु मूर्जा वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । नक्षद्रोऽपि प्रथमसकतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ।।१७।। व्याख्या-त्वामासारेत्यादि । आ-लक्ष्मीः तया सारः]-श्रेष्ठः । आसमन्तात् सारं-बलं यस्य वा सः । तस्य सं० हे आसार ! । सा-लक्ष्मीः तस्याः अनुमानं यस्मात् सः, तस्य [सं०]हे सानुमान !| त्वं, आम्रवत्-सहकारवत् कूट माया यस्मिन् सः आम्रकूट:-शत्रुः अन्तःकूटत्वात् । सहकारे हि मायित्वं स्यात् । यतः "अन्तर्वहसि कषायं, बाह्याकारेण मधुरतां यासि ।। सहकारविटपि मायिन् !, युक्तं लोकैर्बहिः क्षिप्तः ॥" इति वचनात् आने अन्तःकषायित्वं बहिर्मधुरतादिलक्षणं कूटं स्यात् । ततोऽस्योपमा शत्रोरिति आम्रकूट:-शत्रुः त्वां मूर्जा-शिरसा वक्ष्यति-धारयिष्यति । साधु यथा स्यात्तथा । त्वां किम्भूतं ?, अध्वश्रमं मार्गश्रमं परिगच्छन्ति-डप्रत्यये अध्वश्रमपरिगा: ईदृशाः ताः-तस्कराः यस्मात् सः, तं अध्वश्रमपरिगतं । पुनः किम्भूतं ?, प्रशमितवनोपप्लवं-प्रशस्तं शं-सुखं यस्य सः-तं प्रशं त्वां । पुनः किवि०? इतं-प्राप्तं, "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानन" इत्यनेकार्थवचनात्; वनं-प्रवासो येन स इतवनः । ईदशः उपप्लव:-उपद्रवो यस्मात् स इतवनोपप्लवः । अथवा प्रशं-प्रशस्तसुखाय इतं-प्राप्तं वनं ननु (न तु)धन-सहजादिभवनं येन सः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50