Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 33
________________ अनुसन्धान ३२ स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥३२॥ व्याख्या-प्राप्यावन्तीत्यादि । ई-लक्ष्मीः नुदति-प्रेरयतीति ईनुत्, ईदृशं अयन-मार्गो यस्य तस्य सं० हे ईनुदयन !! हे कोविद !- विचक्षण ! । अवत्कृष्णवत् नुः-शत्रुहननादिरूपा स्तुतिः येषां ते अनवः, ईदृशा: 'शसयोरैक्यात्' शरा-बाणा: यस्यासः, तस्यासं० हे अनुसर !। त्वया ईदृशी कथा-वार्ता प्रापिप्राप्ता । हे अ !-कृष्ण !! कथा किं कुर्वती ?, अवन्ती-रक्षन्ती । कान् ?, ग्रामवृद्धान्, - ग्रामाः-संवसथाः, वृद्धाः-प्राज्ञाः स्थविरा वा, तान् । पुनः ?, पुरी:-नगरी विशालां-उज्जयिनी-अवन्तीपुरीं । किम्भूतां ?, पूर्व-श्रुतभेदः, तेन उद्दिष्टा-कथिता या तां पूर्वोद्दिष्टाम् । पुनः किम्भूतां ?, अलति- भूषयतीति अला, तां अलां । पुनः किम्भूतां ?, श्रीविशालां-ऋद्धयादिभिः विस्तीर्णाम् । पुन: ? गां-स्वर्ग अवन्ती । क्व सति ? स्वर्गिणां-दि(दे)वानां सुचरितफले-सुकृतफले स्वल्पीभूते-स्वल्पे सञ्जाते सति । स्वर्गिणां किम्भूतानां ?, गतानां-विज्ञातानां 'गत्यर्थानां ज्ञानार्थत्वात्' । कै; ? पुण्यैः । किम्भूतैः ?, शेषैः-उज्ज्वलत्वात शेषाहि सदृशैरित्यर्थः । पुनः ? डं-चन्द्रमण्डलं अवन्ती । डं किम्भूतं ?, कान्तिमत् - शोभायुक्तं खं-व्योमं यस्मात् तत् कान्तिमत्खं-डं । पुनः किम्भूतं ?, एकंश्रेष्ठ, "एकोऽन्यः केवलः श्रेष्ठ" इत्यनेकार्थवाक्यात् डं । पुनः किम्भूतं ? हृतंराह्वादिभिः दिव:-आकाशात् अपहृतमपि चन्द्रमण्डलं तव कथा रक्षतीति भावः । इवत्-कामवत् वाति-गच्छति सः, तस्य सं० हे इव ! ॥३२॥ दीर्घाकुर्वन् पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतम्लानिमङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३३॥ व्याख्या-- दीर्धीकुर्वनि(नि)त्यादि । पटूनां-वाग्मिनां मदो-हर्षो यस्मात् सः, तस्य सं० हे पटुमद !। प्रत्यूषवत्-प्रभातवत् इषुभि-र्बाणैः स्फुटिता-प्रकटिता कमला-पद्मा यस्य, तस्य सं० हे प्रत्यूषेषुस्फुटितकमल ! । यात्-यमात् त्रायतेरक्षति तस्य सं० हे यत्र ! । सुरा-देवास्तद्वत् ता-लक्ष्मीर्यस्य तस्य सं० हे सुरत !! १. हतमिव० मु. मेघ. ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50