Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
73
पादन्यासक्वणितरसनास्तत्र लीलावधूतैरत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् बाष्या प्राप्य )वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥३९॥
व्याख्या - पादन्यासेत्यादि । तेभ्यः-तस्करेभ्यस्तात्-सङ्ग्रामाद्वा त्रायतेरक्षति तस्य सं० हे तत्र ! । रत्नानि-मणयः, छाया-शोभा, खानि-सुखानि, तैः चितो-व्याप्त:, तस्य सं० हे रत्नच्छायाखचित ! नो-ज्ञानं, खं-सुखं, तयोः पदंस्थानं, तस्य सं० हे नखपद !! त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् वेश्या:पण्यस्त्रियो मोक्ष्यन्ति । किं कृत्वा ? त्वत्त: वर्षावत् अग्राः-प्रधानाः बिन्दवोवीर्यबिन्दवः, तान् प्राप्य वर्षाग्रबिन्दून् प्राप्य । किम्भूतान् ?, सुष्ठ खानि-इन्द्रियाणि येभ्य: तान् सुखान् । वेश्याः किम्भूताः ?, क्लान्तः 'रलयोरैक्यात्' क्रान्त आक्रान्तो वा हस्तो यासां ताः क्लान्तहस्ताः । कैः ? अमरैः । किम्भूतैः ? 'बवयोरैक्यात्', बलिभि-बलवद्भिः रूपवद्भिर्वा । चकारः पुनरर्थे । पुनः किम्भूतैः ?, लीलावध्वःक्रीडास्त्रियः तासां ता-लक्ष्मीर्येषां तैः लीलावधूतैः । अथवा लीलया-क्रीडया अवधूतैः-अवधूतवेषधारिभिः । वेश्याः पुनः किं० ?, पादन्यासक्वणितरसनाः ॥३९॥
पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्थ्यं तेजोविकसितजपापुष्परक्तं दधान । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥४०॥
व्याख्या- पश्चादुच्चैरित्यादि । उच्चै-महत् भुजे-बाहौ ता-जयलक्ष्मीर्यस्य तस्य सं० हे उच्चैर्भुजत !! रार्द्रः - हे कामक्लिन्न !। अथवा आ-लक्ष्मीस्तया आ Hः(ः) तस्य सं० हे आर्द्र ! (आर्द्रः !)
"नागो मतङ्गजे सर्प पुन्नागे नागकेसरे ।
क्रूराचारे नागदन्ते मस्तके सरसीरुहे ॥" इत्यनेकार्थवाक्यात् नागवत्-सरसीरुहवत् कोमलत्वात् अजिनं-तनुत्वग् यस्य तस्य सं० हे नागाजिन !! त्वं पशुपते-महेशस्य तेजो-बलिं(बलं) द्युति हर-लक्षणया १. ०न्यासै: मु. मेघ. ॥ २. तेजः प्रतिनव० मु. मेघ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50