Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
परि-समन्तात् गणे-गच्छे नयो-न्यायो येषां ते परिगणनयाः । पुनः किम्भूताः ?, बलेन-शौर्येण आ:-श्रीकृष्णाः, तथा का:-श्रीब्रह्माणः, ते बलाकाः । पुनः किम्भूताः ?, सह उत्कण्ठया वर्तते(न्ते) ये ते सोत्कण्ठाः अथवा प्राणिनः । किं०? सोत्कण्ठान् । सा-लक्ष्मीः, तस्यां उत्कण्ठा वर्तते येषां ते सोत्कण्ठा:अर्थपरा इत्यर्थः । तान् सोत्कण्ठान् । पुनः किं०?, सहचरीभिः समालिङ्गिता ये ते सहचरीसमालिङ्गिता:-कामपरा इत्यर्थः, तान् सहचरीसमालिङ्गितान् । इ इति प्रत्यक्षेऽव्ययः । कोऽर्थः ? अतकान्-अन्यप्राणिनः, सोत्कण्ठान्-अर्थपरान् तथा सहचरीसमालिङ्गितान् कामपरान् पश्यन्तः सन्तः सिद्धाः- श्रीगुरवः त्वां मानयिष्यन्ति इति भावः इत्यप्यर्थान्तरं ज्ञेयम् ।।२३।।
उत्पश्यामि द्रुतमपिसखेमत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥२४॥
उत्पश्यामीत्यादि । खैः-सुखैः सह वर्तते यः सः, तस्य सं० हे सख ! । ईमन्त:-इभ्याः तेषां, निर्लोभत्वात् प्रियः-वल्लभः, तस्य सं० हे ईमत्प्रिय !। द्रुतंशीघ्रं मा-लक्ष्मीर्यस्मात् सः, तस्य सं० हे द्रुतम ! । ते-तव पर्वतेऽपि-गिरौ अपि अर्थ-द्रव्यं उत्प्रधानं पश्यामि-वीक्ष्ये(क्षे) । पर्वते किम्भूते ?, काला:-नीलाः क्षा:-क्षेत्राणि यत्र, "क्षः क्षेत्रे रक्षसी"त्येकाक्षरीवचनात्, सः, तस्मिन् कालाक्षे । ककुभवत्-वृक्षविशेषवत् सुरभयः-गावो यत्र सः अथवा को-ब्रह्मा, तस्य कु:भूमिः, तस्यां भाति, तस्य सं० । ककुभ ! पर्वते किं० ?, सुरभौ-सुगन्धे । अथवा कस्य-ब्रह्मणो या कु:-भूः तस्यां भान्ति ताः ककुभाः, ईदृशाः सुरभयोगावो यत्र सः, तस्मिन् ककुभसुरभौ । पुनः किम्भूते ?, पर्वणः-उत्सवस्य तालक्ष्मीर्यत्र सः तथैव । अथवा पर्वते पर्वते तव द्रव्यं वीक्षे । शेषं तथैव इत्यपि व्याख्येयम्। "वष्टि भागुरि"रित्यादिना अपेरकारलोपः । तव किम्भूतस्य ?, यियासोः गन्तुमिच्छोः । क(कं?) पं०(कथं)- पन्थानं न्यायमार्गमित्यर्थः । सह जलेन महत्त्वरूपेण वर्तते यः, तस्य सम्बो० हे सजल !। भवान् कथं प्रति गन्तुं आशु व्यवस्येत् -अध्यवसायं कुर्यात् । “कः सूर्यमित्र वाद्यमित्र वाद्यग्निब्रह्मात्मयमकेकिषु" "थो भवेद् भयरक्षणे भूधरे च तथा भारे ।" इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50