Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
June-2005
आबद्धमालाः । अथवा आ-ब्रह्मा तेन बद्धं निबद्धं मालं- कपटं यासु ताः तथैव | क्षण:- नाडिकाषष्ठो भागः, तस्य यः परिचयः तस्मात्, बहुपरिचये किं पुन: ? । त्वां किम्भूतं ? सुभगं सर्वजनेष्टम् । पुनः किंविशिष्टं ? खानि - सुखानि, तथा इभा:-गजाः, खानि च इभाश्च खेभाः । ते सन्त्यस्य स खेभवान् तं खेभवन्तं नूनं - निश्चितम् ॥९॥
तां चावश्यं दिवसगणनातत्परामेकपत्नीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यः पाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥१०॥
व्याख्या तां चाऽवश्यमित्यादि । दिवं स्वर्गः तद्वत् सा - लक्ष्मी: मणिस्वर्णादिरूपा यस्य सः तस्य सं० हे दिवस ! । एकपत्नी - सुचरित्रा स्त्री सैव मा-जननी यस्य; "मा मातरि तथा लक्ष्म्या " मिति वाक्यात् सः, तस्य सम्बो० हे एकपलीम !! भ्रातृजानां भ्रातृपुत्राणां कुटुम्बपोषकत्वात् आयो-लाभो यस्मात् सः, तस्य सम्बो० हे भ्रातृजाय ! । प्रगतं अयश:-अकीर्तिर्यस्मात् सः, तस्य सम्बोo प्रायश: ! । प्रणयि- प्रेमयुक्तं हृत्-हृदयं यस्य सः, तस्य सम्बोधनं क्रियते हे प्रणयित् ! तां आं- लक्ष्मीः त्वं अवश्यं द्रक्ष्यसि आं किम्भूतां ?, परां प्रकृष्टां त्वं किंविशिष्टः ?, विगतो ह: - हस्तो येषां ते विहाः, ईदृशा ये ता:- तस्करास्तेषां गतिः - पलायनं यस्मात् सः विहतगतिः । पुनः किम्भूतः ?, आशा-दिशस्तासां बन्धो यस्मात् सः, अथवा आशा - याचकानां धनप्राप्तिरूपा वाञ्छा तस्या बन्धो यस्मिन् सः आशाबन्ध: । पुनस्त्वं किम्भूतः ?, गणना - गणवत्-प्रमथवत् ना-नर अत एव लोकोक्त्या त्वं ईश्वरस्य निजभक्त इति सिद्धः । तां कामित्याह'यत्तदोर्नित्यसम्बन्धात्' या लक्ष्मीः । व्यापद् - विपत्तिः तस्या नाम- अभिधां रुणद्धि । क्व सति ? विप्रयोगे विविशिष्टः प्रयोग: प्रयुक्तिः दानधर्म्मादिकृत्यं, विविशिष्टं विविधं वा प्राति- पूरयतीति विप्रो - धर्म्मः । तस्य योगे सति या विपत्तिनाम आवृणोति व्यापन्नाम । किम्भूतं ? अङ्गनानां स्त्रीणां कुसुमसदृशं गर्हणीयत्वात्पुष्पतुल्यमित्यर्थः । ननु " वाक्यान्तरप्रवेशेन विच्छिन्नं खण्डितं मतं " - इति वाग्भटालङ्कारवचनादनुचितमिहेदम् । नैवम् । अलङ्कारचूडामणौ " क्वचिद गुणोऽपीति" भणनात् वाक्यान्तरप्रवेशेऽपि नाऽत्र दोषः । एवं अग्रेऽपि चिन्त्यं
Jain Education International
ܩܩ
51
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50