Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ June-2005 49 धनपतिकोधविश्लेषितस्य । किम्भूतं रणं ?, ई-बुद्धि श्यति-तनूकरोतीति इशः तम् । ई-लक्ष्मी वा श्यतीति ईशः तं ईशम् । किम्भूतस्त्वं ?, 'बवयोरैक्यात्' वाहा-अश्वाः सन्त्यस्य स वाही । तथा अयेन-शुभदैवेन, अ:-कृष्णः स अया: तस्य सम्बो० हे अया ! - शुभभाग्येन हे कृष्णतुल्य ! । हे नरेन्द्र ! इभ्यानां ईश्वराणां ते तव वसतिः-राजधानी गन्तव्या-गमनार्हा । कोऽर्थः ? यो नृपः क्रोधतस्करं निवारयति तस्याऽऽस्थानं गन्तव्यमिति भावः । कथम्भूता वसतिः ? अलका-ऋद्धिबाहुल्यादलकापुरीसदृशीत्यर्थः ॥७॥ अथ कश्चिन्निमित्तज्ञो नरेन्द्रं ब्रूतेत्वामारूढं पवनपदवीमुद्रहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥ व्याख्या - त्वामारूढमित्यादि । हे प!- हे रक्षक ! “पस्तु पातरी"ति वाक्यात् । वः पुनरर्थे । हे न ! - हे पूज्य ! “नकारो जिनपूज(ज्य)योरिति विश्वलोचने । अथवा पानि-प्रौढानि वनानि-गृहाणि गृहस्थत्वात् यस्य सः, तस्य सं० हे पवन ! । "वनं प्रश्रवणे गेहे प्रवासेऽम्भसि कानने" इत्यनेकार्थः । उत्प्राबल्येन गृहीत-आत्तः अलकायाः अन्तः-सीमा येन सः, तस्य सं० हे उद्गृहीतालकान्त ! । हे अविरह ! - हे विरहरहित ! त्वां प्रति आ:-लक्ष्म्यः प्रेक्षिष्यन्ते-गजतुरगादिकाः विलोकयिष्यन्ति; कुतः? अयात्-शुभदैवात् आशुशीघ्रम् । त्वां किम्भूतं?, पदवीं-राजपदवीं आरूढं प्राप्तं, आः किम्भूताः ?, केन-ब्रह्मणा वनिताः-याचिताः ताः कवनिताः । "वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ।। वनितोत्पादितात्यर्थं रागनार्यपि नार्यपि ॥" इत्यनेकार्थः । पुनः किम्भूतं त्वां ?, अहं-न हन्तीत्यहः । तं अहं-दयालुं ज्ञात्वेति भावः । आः किं कुर्वन्त्यः इति ?, असन्त्य:-'असी गत्यादानयोः', गत्यर्थानां ज्ञानार्थत्वात् इति जानन्त्यः । इत्यव्ययोऽध्याहार्यः । किमित्याह-त्वयि संनद्धे सति कोऽपि-ब्रह्माऽपि जायांभार्यां उपेक्षेत । किम्भूताम् ?, विधुः- चन्द्रस्तद्वद्राजते इति डप्रत्यये विधुरा तां विधुरां । तथा इत्थं यः-यमोऽपि 'शसयोरैक्यात्' नश्यात्-नश्यतु इत्यर्थः । कथं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50