Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
50
अनुसन्धान ३२
इव ? यथा अन्यो जनः पराधीनवृत्तिः - परवशः सन् त्वयि संनद्धे नश्यति तथा यमोऽपीत्यर्थः । तथा आः किम्भूता: ? "नानुस्वारविसर्गौ च चित्रभङ्गाय सम्मतौ " इति वाक्यात् सत्य:- शोभनाः । अनुस्वाराभावात् इत्यपि व्याख्येयम् ॥८॥ मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगर्वः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥९॥
व्याख्या
तत्र
मन्दं मन्दमित्यादि । "गर्भः कुक्षौ शिसौत्सन्धौ ( शिशौ सन्धौ) भ्रूणे पनसकण्टके मध्येऽग्नाऽपवरके" । इत्यनेकार्थवाक्यात् गर्भ:- सन्धि: तस्याऽऽधानं-निष्पादनं षड्गुणोपेतत्वाद् यस्य सः, तस्य सं० हे गर्भाधान ! 1 पे- पथि वाति - गच्छति तस्य सं० हे पव ! । हे नः !- हे नर ! अ:- कृष्णस्तद्वत् । "यो वातयशसोः पुंसी" ति विश्वलोचनवचनात् यो - यशो यस्य स अय:, तस्य सम्बो० हे अय ! | "थो भवेद् भयरक्षणे" इति वचनात् थो-भयरक्षणं, अः - कृष्णतुल्यः तस्य सं० हे था: ! । अथवा न यः अयः, अयः - अयशः, तस्य थो - भयरक्षकः तस्य सम्बोधनं हे अयथ ! | अ इति सम्बोधने । ते तव सः, गर्वोऽ ऽिहङ्कारः । त्वां मधुरं शिवधुरं नदति, "मश्चन्द्रे विधौ शिवे " इति वाक्यात्, म:- शिवः तद्वत् धूः -- धूर्वी यस्य स तं मधुरम् । कोऽर्थः ? तव गर्वः त्वां शिवं सकलकृत्यकर्तृत्त्वात् वक्तीति भावः । किम्भूतः गर्वः ?, अनुकूलः - आत्महितकारकः । पुनः किम्भूतः ?, वामः - प्रशस्तः स्वप्रतिज्ञानिर्वाहकत्वात् । स क इत्याह- 'यत्तदोर्नित्यसम्बन्धात्' यो गर्वः मन्दं - अलसमपि नरं तु ( नु ) दति अशक्यवस्तुविधाने प्रेरयति । तथा च पुनः मन्दं - मूर्खमपि नुदति, अपीत्यध्याहार्यम् । तव गर्वः पुनः किम्भूतः ? " चश्चन्द्रचकोरयो" रित्येकाक्षरवाक्यात् चवच्चन्द्रवत् अतति-निर्मलत्वात् सततं गच्छति स चातः, ईदृशः कः - आत्मा यस्य स चातकः । चः पुनरर्थे । नये - न्याये नो बुद्धिर्यस्य "नो बुद्धौ ज्ञानबन्धयो” रिति सुधाकलशात्, सः, तस्य सम्बोधनं हे नयन ! । त्वां बलाका:-राजान:- स्त्रियो वा सेविष्यन्ते - आश्रयिष्यन्ति । कुत: ? क्षणपरिचयात् । बलेन कटकेन अकन्तिकुटिलं गच्छन्ति ते बलाका- नृपा इत्यर्थः । बलेन रूपेण वाऽकन्तीति बलाका:स्त्रियः । ततश्च किम्भूता: ? आबद्धा - रचिता माला पुष्पादिदामपङ्क्तिर्वा यैर्याभिश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50