Book Title: Meghdoot Khandana Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 8
________________ June-2005 45 केतकाधानहेतोः । केतकानां-केतकीवृक्षाणां उपलक्षणत्वात् वासन्ती-मालतीमागधीप्रभृतीनां आधानस्य-उत्पत्तेः हेतु:-कारणं या सा, तस्याः । तस्य कस्येत्याह - यत्तदोर्नित्यसम्बन्धात् यस्य श्रीनरेन्द्रस्य चेतो दूरसंस्थेऽपि जने लोकऽन्यथावृत्तिअन्यथाभावं नो भवति । "अमा-नो--ना प्रतिषेधे" इति वाक्यात्, न स्यादित्यर्थः । चेतः किंवि०?, सुखमस्यातीति सुखि तत् पुनः कण्ठाश्लेषप्रणयिनि-पुत्र-मित्रकलत्रादौ अन्यथावृत्ति किं स्यात् अपि तु न स्यादित्यर्थः । कण्ठाश्ले० किं विशिष्टे ?, मेघालोके-मेघवत् आह्लादकत्वात् सौम्यत्वात् वा । आलोको-दर्शनं यस्य स तस्मिन् ॥३॥ प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थं जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम् । स प्रत्यग्गैः कुटजकुसुमैः कल्पितार्थाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥४॥ व्याख्या-प्रत्यासन्नेत्यादि । हे प्रत्यासन्न ! राजरङ्कादिविज्ञप्तिश्रवणे हे सन्निहित ! हे दयिताजीवित ! वल्लभाजीवित ! हे जीमूत ! 'भीमो भीमसेन' इत्यादिन्यायात् हे जीमूतवाहननृप ! लोकानां बाह्यप्राणभूतधनदानात् । यदुक्तम् "कर्णस्त्वचं शिबिर्मासं जीवं जीमूतवाहनः ॥" इत्यादि । अयीति कोमलामन्त्रणे । “कुट: कुम्भ: करीरश्चे'"ति नाममालावचनात्कुटाज्जायते इति कुटजः, तस्याऽऽमन्त्रणं हे कुटज ! - कुम्भजन्मन् ! शत्रुसमुद्रशोषणात् । हे इन ! हे सूर्य ! व? "ई नभसि ई भुवि-श्रिया" मिति महीपवाक्यात् । ई-भमि-सैव नभ:-आकाशस्तत्र । कल्पितौ अर्थायौ- पूजा-लाभौ येन सः, तस्याऽऽमन्त्रणं हे कल्पितार्थाय ! तस्मै-पुंसे । तस्मै कस्मै ?, इत्याह- 'यत्तदोर्नित्यसम्बन्धात्' यः पुमान् प्रीत-इष्टो भवति इति तस्मै । “यत्र नान्यत् क्रियापदं तत्राऽस्ति भवतीत्यादिक्रियाऽनुक्ताऽपि प्रयोक्तव्ये"ति न्यायः । कैः कृत्वा ? कुसुमैः-पुष्पैः । किंविशिष्टैः ?, अग्रेः-प्रधानैः । स्वेषु-आत्मीयेषु-ज्ञातौ वा अगः पर्वतः तुङ्गत्वात् अथवा सुष्ठ आ लक्ष्मीः तां गच्छति प्राप्नोतीति तस्याऽऽमन्त्रणं हे स्वाग ! । स भवात्(न् ?) तं श्रीगुरुं प्रति व्याजहार बभाषे । तं किंविशिष्टं ? आलम्बनार्थंआलम्बनाः पततां अवष्टम्भदायका ईदृशाः अर्थाः सूत्राणां यत्र यस्य वा स तं तथैव । अथवा आलम्बनस्याऽर्थः प्रयोजनं यस्मात् स तम् । तथा पुनः किं Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50