Book Title: Meghdoot Khandana
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ 44 अनुसन्धान ३२ वयःप्राप्ताः गजा:-दन्तिनः, तथा प्रेक्षणानि- नाटकानि, एते सन्त्यस्य स वप्रक्रीडापरिणगतजप्रेक्षणी । अद्रौ-श्रीगुरौ किंविशिष्टे ?, कति । क इवमित्रमिवाचरति, शतरि कन्, तस्मिन् कति । "क: सूर्य-मित्र-वाद्यग्नि-ब्रह्मात्मयम-केकिषु' इति सुधाकलशः । पुनः किंवि० गुरौ ?, आषाढस्यप्रथमदिवसेआषाढो वतिनां दण्डस्तेन स्यायन्ते गच्छन्तीति आषाढस्या:-'शसयोरैक्यात्' व्रतिनः । तेषां पूज्यत्वात् प्रथम आद्यः । अथवा आषाढे-आषाढमासे एव, न तु श्रावणादौ, स्यायन्ते-चलन्ति-विहरन्तीति डप्रत्यये आषाढस्या:-साधवः । श्रावणादौ विहाराभावात् । तेषां मध्ये प्रथमः-आदिमः स आषाढस्यप्रथमः । तथा दिवस्यस्वर्गस्य सा-लक्ष्मीर्यस्मात् स दिवसः । 'दिवं खे त्रिदिवे दिने" इति वाक्यात् । तत: कर्मधारयः । तस्मिन् आषाढस्यप्रथमदिवसे । स क इत्याह-यं-नरेन्द्रं दानाधिक्यात् मेघमा-जलद-लक्ष्मीः ददर्श-दृष्टवती । यं किंवि०?, आश्लिष्टाआलिङ्गिता । सातो-लक्ष्मीतः नुः-स्तुतिर्येन सः, तं आश्लिष्टसानुम् ।।२।। तस्य स्थित्वा कथमपि पुरः केतकाधानहेतोः रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः कण्ठाश्लेषे प्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥ व्याख्या - तस्येत्यादि । तस्य श्रीनरेन्द्रस्य राजरा अपि - राजद्रव्यमपि, "रा: स्वर्ण जलदे धने" इति वाक्यात् । पुरो-नगर्याः कथं सुखभयत्राणं दध्योचिन्तयामास । "कं नीरसुखमूर्द्धसु" इति, "थो भवेत् भयरक्षणे" इति वाक्यात् कं च थश्च कथं । तत् किं कृत्वा ?, चिरं स्थित्वा-गतिनिवृत्तिं विधाय । राजरा: किंवि० ?, अन्तर्मध्ये शरीरस्य बाष्पो-दाहो यस्मात् सः । “सन्तापः सञ्चरो बाष्फः" इति वचनात् । अन्तर्बाष्यः । यद्वा अन्तर्मध्ये बाष्फ:-सन्ताप:-दुःखमिति यावत् यत्र सः अन्तर्बाष्फः । इदं द्रव्यस्य स्वभावकीर्तनम् । यतो द्रव्यं स्वभावादेव दुःखकारि । यत: द्रव्यानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥१।। इति । पुनः किंवि० ?, अनु-पश्चात् चरतीति अनुचरः । तस्य किंवि० ?, जस्य जेतुः अर्थात् शत्रूणाम् । “जस्तु जेतरीति" वचनात् । पुरः किंविशिष्टाया: ?, Jain Education International For Private & Personal Use Only For Pris www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50