Book Title: Meghdoot Khandana Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 4
________________ June-2005 41 पं. श्रीमानसागर विरचिता मेघदूत-खण्डना ॥o || प्रसादो रविवद्यस्यास्तम:संहारकारणे । सद्यः प्रसद्य सा देयात् विद्यां मे श्रीसरस्वती ॥१॥ विश्राणयतु सा श्रीणां श्रेणि श्रीजिनमण्डली । नखत्विषः पुरो यस्यां भानुः खद्योतपोतति ||२|| श्रीमन्तः सूरयः सन्ति श्रीहीरविजयाभिधाः । क्रिया सुष्टु प्रिया येषां क्रियासुस्ते सुखश्रियम् ।।३।। पद्मा पुरःस्थिता येषां प्रत्यक्षा च सरस्वती । सुसिद्धः सूरिमन्त्रोऽपि धर्मो येषामकैतवः ॥४॥ तान् समाहूतवान् भूमान् गुरूनिव सुरेश्वरः । रहस्यं सर्वशास्त्राणां जिज्ञासुर्यवनेश्वरः ॥५॥ तेषां गुणावली येन वर्णिता निजपर्षदि । मेघदूतनवीनाथै स्तं कवेऽकबरं नृपम् ।।६।। तस्याद्यं पद्यम्कश्चित्कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येन भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसति रामगिर्याश्रमेषु ॥१॥ कश्चित्कान्तेत्यादि- चित्कान्त ! हे बुद्धिरम्य ! हे अविरह ! हे विरहवर्जित ! केन सह ? गुरुणा मातापित्रादिना । यदाह माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥१|| अथाऽत्रैव श्रीअकबरनामाकर्षणपूर्वं सम्बोधनमाह- कः ककारः अन्ते यस्य स कान्त: । कान्तश्चासौ अः अकारश्च कान्ताः । अथ बवयोरैक्यात् कान्ताश्च बः Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 50