Book Title: Maithili Kalyanam Natakam Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala Samiti View full book textPage 7
________________ सारांश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेः गणरत्नमहोदधिकर्तुश्च नामसाम्यं विहाय नान्यः कोपि संबंधः । अस्मिश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि। हस्तिमलो महान् प्रख्यात कविः प्रतीयते । तस्य विरुदावल्याः प्रशंसासूचकपदेभ्य एतत् सूचितं भवति। विक्रांतकौरवे स स्वं सरस्वतीस्वयंवरवल्लभ, महाकवितलजेति निरूपितवान् । ग्रंथस्यास्यांते स स्वीयं नाम 'सूक्तिरत्नाकरेति प्रथयामास । तस्याग्रजेन सत्यवाक्येन स 'कवितासाम्राज्यलक्ष्मीपतिः' इति कथयित्वा संबोधितः ।। अनेन प्रतीयते हस्तिमल्ल इति कवेरिदं वास्तविकनामधेयं नास्ति किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं । अस्मिन् विषये अय्यपर्यनामकविदुषा विरचिते जिनेंद्रकल्या. णाभ्युदयनाम्नि ग्रंथे श्लोको दत्तःसम्यक्त्वं सुपरीक्षितुं मदगजे मुक्त सरण्यापुरे चास्मिन् पाण्ड्यमहीश्वरेण कपटाद्धंतुं स्वमभ्यागते । शैलूषं जिनमुद्रधारिणमपास्यासौ मदध्वंसिना श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः॥१६॥ अनेन प्रतीयते यत् हस्तिमल्लेन हेतुमागतस्य मदमत्तहस्तिनो मदो दूरीकृतः कश्चिजिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदीकृतः । अतस्तस्य नाम मदेभमल्लो हस्तिमलो वा प्रथितं । विक्रांतकौरवनाटकस्य प्रथमांकेपि श्लोको वर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तकपांड्यनरेश्वरद्वारा सत्कारप्राप्तरुल्लेखोस्ति श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलांबुनिधिपांड्यमहेश्वरेण श्लोकः शतैस्सदसि सत्कृतवान् बभूव ॥४०॥ उपर्युक्तश्लोकद्वयेनांजनापवनंजयस्य निम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् हस्तिमल्लः पांड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां चस्वबन्धुभिः सह निवासं चकार श्रीमत्पाण्ड्यमहीश्वरे निजभुजादंडावलंबीकृते कर्णाटावनिमंडलं पदनतानेकावनीशेऽवति। . तत्पीत्यानुसरन्स्वबंधुनिवहैर्विद्वद्भिराप्तैस्समं जैनागारसमेतसंतरनमे (?) श्रीहस्तिमल्लोऽवसत् ॥ १ अय्यपार्येण १३७६ विक्रमसंवत्सरे जिनेंद्रकल्याणाभ्युदयस्य रचना कृता ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 110