SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ सारांश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेः गणरत्नमहोदधिकर्तुश्च नामसाम्यं विहाय नान्यः कोपि संबंधः । अस्मिश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि। हस्तिमलो महान् प्रख्यात कविः प्रतीयते । तस्य विरुदावल्याः प्रशंसासूचकपदेभ्य एतत् सूचितं भवति। विक्रांतकौरवे स स्वं सरस्वतीस्वयंवरवल्लभ, महाकवितलजेति निरूपितवान् । ग्रंथस्यास्यांते स स्वीयं नाम 'सूक्तिरत्नाकरेति प्रथयामास । तस्याग्रजेन सत्यवाक्येन स 'कवितासाम्राज्यलक्ष्मीपतिः' इति कथयित्वा संबोधितः ।। अनेन प्रतीयते हस्तिमल्ल इति कवेरिदं वास्तविकनामधेयं नास्ति किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं । अस्मिन् विषये अय्यपर्यनामकविदुषा विरचिते जिनेंद्रकल्या. णाभ्युदयनाम्नि ग्रंथे श्लोको दत्तःसम्यक्त्वं सुपरीक्षितुं मदगजे मुक्त सरण्यापुरे चास्मिन् पाण्ड्यमहीश्वरेण कपटाद्धंतुं स्वमभ्यागते । शैलूषं जिनमुद्रधारिणमपास्यासौ मदध्वंसिना श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः॥१६॥ अनेन प्रतीयते यत् हस्तिमल्लेन हेतुमागतस्य मदमत्तहस्तिनो मदो दूरीकृतः कश्चिजिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदीकृतः । अतस्तस्य नाम मदेभमल्लो हस्तिमलो वा प्रथितं । विक्रांतकौरवनाटकस्य प्रथमांकेपि श्लोको वर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तकपांड्यनरेश्वरद्वारा सत्कारप्राप्तरुल्लेखोस्ति श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलांबुनिधिपांड्यमहेश्वरेण श्लोकः शतैस्सदसि सत्कृतवान् बभूव ॥४०॥ उपर्युक्तश्लोकद्वयेनांजनापवनंजयस्य निम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् हस्तिमल्लः पांड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां चस्वबन्धुभिः सह निवासं चकार श्रीमत्पाण्ड्यमहीश्वरे निजभुजादंडावलंबीकृते कर्णाटावनिमंडलं पदनतानेकावनीशेऽवति। . तत्पीत्यानुसरन्स्वबंधुनिवहैर्विद्वद्भिराप्तैस्समं जैनागारसमेतसंतरनमे (?) श्रीहस्तिमल्लोऽवसत् ॥ १ अय्यपार्येण १३७६ विक्रमसंवत्सरे जिनेंद्रकल्याणाभ्युदयस्य रचना कृता ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy