________________
(२)
कवयो विद्वांसश्च बभूवुः । हस्तिमल्लेन एतन्मैथिलीकल्याणनाटकस्य प्रस्तावनायां निजाग्रजः सत्यवाक्यः 'श्रीमतीकल्याण' प्रभृतिग्रंथानां कर्ता प्ररूपितः परं सत्यवाक्यस्येदानींतनपर्यंतं कोपि ग्रंथो नोपलब्धः । एतेषु कुमारकविनिर्मित आत्मप्रबोधाख्यो लघुग्रंथो ईडराख्यपुरस्य सरस्वतीभवने अस्ति । स हस्तिमल्लभ्रातृश्रीकुमारस्यैव वान्यस्य कस्यापीति न प्रतीयते । _ 'राजावली' कथातः ज्ञायते यत् हस्तिमल्लस्य पार्श्वपंडितादयः पुत्रा आसन् लोकपालार्याख्य एकः शिष्यश्च । अवश्यमेव तेपि विद्वांसः कवयश्च भविष्यति किंतु तेषां विषये नाद्यापि पर्यन्तं किञ्चिद् ज्ञातम् । __ हस्तिमल्लकवेरनुजस्य वर्धमानकवेर्विषये जनानामयं विश्वासोस्ति यत्स गणरत्नमहोदधिनामकव्याकरणविषयग्रंथस्य कर्ता, परमयं भ्रमः। ततो गणरत्नकर्ता विक्रमसंवत् ११९७ अनुमिते अर्थात् हस्तिमल्लसमयात् सार्धशतवर्षपूर्वमासीत् । किंच स गोविंदसूरेः शिष्य आसीत् अयं च गोविंदभट्टस्य सूनुः । अन्यच्च स साधुरयं च गृहस्थः । अपरं च स श्वेतांवाराम्नायी प्रतीयते अयं तु दिगंबरसंप्रदायानुगोस्ति । __ गणरत्नमहोदधिकर्ता श्वेतांबर आसीत् । अस्मिन् विषयेऽनेकानि प्रमाणानि संति । पूर्व तु तेन स्वकीयग्रंथे यत् शतश उदाहरणानि दत्तानि तानि सर्वाणि अजै. नानां श्वेतांबरग्रंथकर्तृणामेव, दिगंबराणामेकमपि न दत्तं । द्वितीयं पूर्वोक्तोदाहरणेषु द्वौ श्लोकावेतादृशौ ययोः श्वेतांबराणां प्रशंसा दिगंबराणां च निंदा कृतासीत् । यथा वीराचार्यणाम्
युक्तं सितांबराणां तुम्बग्रहणं कुटुंबपरिहरणं ।
कथमन्यथा तरीतुं शक्यः संसारतोयनिधिः॥ यथा श्रीसागरचंद्रस्य
(गणरत्नमहोदधिः, पृष्ठ २२) अकल्पितप्राणसमासमागमा मलीमसांगा धृतभैक्षवृत्तयः। निर्ग्रथतां त्वत्परिपंथिनो गता जगत्पते किं त्वजिनावलंबिनः॥
__ (गणर. पृष्ठ १६४ ) गणरत्नमहोदधिकर्तनिर्मितं किमपि सिद्धराजवर्णनाख्यं काव्यं वर्तते तस्मिन् चौलुक्यनरेशसिद्धराजस्य वर्णनमस्ति । एतत्काव्यस्यानेके श्लोका गणरत्नमहोदधा वुदाहरणस्वरूपेणोद्धता । अणहिल्लपुर (पाटण ) नरेशस्य सिद्धराजस्य श्वेतांबरजैनसंप्रदाये महती कृपासीत् । अनेन प्रतीयते यत् गणरत्नमहोदधेः कर्ता गुर्जरदेश. सन्निकटस्थः श्वेतांबरश्च स्यात् । सिद्धराजाणहिल्लपुरप्रशंसायां कश्चिदपि दिगंबरानायी ग्रंथो लिखिप्यतीति न किंचित्संभावना प्रतीयते ।