SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना। हस्तिमल्लकवेः परिचयः। सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकीर्तिः । जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ (अय्यपार्यः) एतद्ग्रंथकर्तुहस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंद्भट्टाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभटो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत् , पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य द्वितीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः " सरस्वतीविस्मयनीयोपायनस्य भघरगोविंदस्वामिसूनुना अंजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विरचितं हस्तिमल्लेन । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भटार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभट्टः तदानीं साधुर्भट्टारको वा प्रथितः स्यात् । अन्यच विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन गुणभद्रायाचार्यपरंपराया उल्लेखं कृत्वा लिखितं । तच्छिश्यानुक्रमे यातेऽसंख्येये विश्रुतो भुवि । गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ तस्यां यत् गोविंदभहो गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रती यते यद् गोविंदभट्टो गृही नासीत् साधुर्भट्टारको वा स्यात् ।। अस्ति गोविंदभट्टो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षी नानी काचिद्देवी समाराधिता जाता। तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, उदयभूषण, ५ हस्तिमल्ल, ६ वर्द्धमानश्च । एते षडपि
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy