Book Title: Maithili Kalyanam Natakam Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri Publisher: Manikchand Digambar Jain Granthamala Samiti View full book textPage 5
________________ प्रस्तावना। हस्तिमल्लकवेः परिचयः। सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकीर्तिः । जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ (अय्यपार्यः) एतद्ग्रंथकर्तुहस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंद्भट्टाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभटो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत् , पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य द्वितीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः " सरस्वतीविस्मयनीयोपायनस्य भघरगोविंदस्वामिसूनुना अंजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विरचितं हस्तिमल्लेन । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भटार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभट्टः तदानीं साधुर्भट्टारको वा प्रथितः स्यात् । अन्यच विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन गुणभद्रायाचार्यपरंपराया उल्लेखं कृत्वा लिखितं । तच्छिश्यानुक्रमे यातेऽसंख्येये विश्रुतो भुवि । गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ तस्यां यत् गोविंदभहो गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रती यते यद् गोविंदभट्टो गृही नासीत् साधुर्भट्टारको वा स्यात् ।। अस्ति गोविंदभट्टो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षी नानी काचिद्देवी समाराधिता जाता। तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, उदयभूषण, ५ हस्तिमल्ल, ६ वर्द्धमानश्च । एते षडपिPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 110