Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 8
________________ (४) द्रविडदेशसन्निहितस्य मदुरा (दक्षिणमथुरा) याः समीपस्थप्रदेशानां पाण्ड्यदेश इति नाम आसीत् । कविस्थितिसमये तत्रत्यः पांड्यमहेश्वरो नृपो बभूव । अयं सुंदरपाड्य (प्रथम) स्योत्तराधिकारी स्यात् । तस्य राज्यकालः १३०७ वि० संवत्सरात्प्रारंभो भवति । एनं कवी राजाधिराज-नानाकलांबुनिधीति लिखितवान् अयं कवेर्महदादरश्चकार । ___ कर्णाटककविचरितस्य का हस्तिमल्ल कविसमयः ई० सन् १२९० अर्थात् १३४७ विक्रमाब्दो निश्चितः । अयमेव च सम्यक् प्रतीयते, यत अय्यपार्येन स्वीयजिनेन्द्रकल्याणाभ्युदयग्रंथः १३७६ विक्रमाब्दे समाप्तिं नीतः, तस्मिश्च हस्तिमल्लस्योल्लेखः कृतः। स चोल्लेख एतादृशो येन हस्तिमल्लस्तत्समकालीनः तस्य कविना समं साक्षात्परिचयो वा प्रतीयेत । हस्तिमलो गृहस्थ आसीत् न गृहत्यागी, एतत्कथनस्योल्लेखो नेमिचंद्रकृतप्रतिष्ठातिलकस्यास्मिन् श्लोके कृतः परवादिहस्तिनां सिंहो हस्तिमल्लस्तदुद्भवः । गृहाश्रमी बभूवाहच्छासनादिप्रभावकः ॥१३॥ हस्तिमलो महान् प्रसिद्धकविः प्रतीयते। तस्य प्रतिभा परं तनाटकेभ्य अनुमीयते। अधुनापर्यंतं तस्य केवलं नाटकग्रंथा एव उपलब्धाः, तेष्वेको विक्रांतकौरवःप्रकाशितः। द्वितीयोऽयं मैथिलीकल्याणरूपकग्रंथः प्रकाश्यते । तृतीयः सुभद्राहरणः चतुर्थोऽ. जनापवनंजयश्चापि उपलब्धा आसन् , ययोः प्रकाशने प्रयत्नो विधास्यते । हस्तिमल्लस्यैक आदिपुराणः पुरुचरितं वा नाम ग्रंथः श्रीदौर्वलिशास्त्रिणां सरस्वतीभवने वर्तते यस्मिन्नेकसहस्रानुमिताः श्लोकाः संति, परं स अस्मदृष्टिपथे नायातः । देवचंद्रकविः स्वीय 'राजावलीकथायां' हस्तिमल्लमुभयभाषाकविचक्रवर्तीति लिखितवान् । अनेन प्रतीयते यत्स संस्कृतं विहाय कनड़ीभाषायाश्च कविरासीत् एतद्भाषायां चापि तेन रचना विहिता. स्यात् । अस्य ग्रंथस्थ संशोधनेऽस्माकं मित्रवर्येण श्रीयुत कुमारय्या इतिनाम्ना विदुषा सहायता कृतातस्तेभ्योंतःकरणेन शतशो धन्यवादं ददामीति । कृतं पल्लवितेनेति शम् । * होदावाड़ी बम्बई नं. ४. निवेदकःश्रावण कृष्ण त्रयोदशी.. संवत् १९७३ वि० ) मनोहरलाल-शास्त्री, * श्रीयुत नाथूरामप्रेमी-जैनहितैषिसम्पादकेन हिन्दीभाषायां लिखितस्य लेखस्यानुवादोऽयम् ।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 110