Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 308
________________ * 3 12 -I. $5 : Verse 20] कुवलयमालाकथा १ 1 ३) तथाहि । जम्बूद्वीपे द्वीपे धर्मवारणसधर्मणि षट्खण्डभरतक्षेत्रस्य दक्षिणार्धे मध्यमदेशा-1 वनीमौलिमण्डनमणिविनीता नाम नगरी । या महापुरुषनाभिजन्मनो जिनेश्वरस्य समेतवासवकृतराज्याभिषेकानन्तरं संप्राप्तनलिनीदलनिक्षिप्तवारिव्यातकरमिथुनकपर्यस्तचरणयुगलाभिषेकदर्शनस-3 हर्षहरिप्रजल्पितसाधुविनीतपुरुषाङ्किता विनीतेति प्रसिद्धा तदाभवत् । यत्र च शक्रः स्वयं प्रमुदितचेता भक्तिभरनिभृतो वासनावासितान्तःकरणो ऽनन्तमहिमामेयगाङ्गेयच्छायकायश्रीनामेयस्य समुच्छितम6 पनीतहृदयावसादं प्रासादं कारयांचकार। या चानन्तप्रवरसुरभुवननिवहाग्रध्वजाञ्चलैः करैरिव मत्सदृशी 6 पुरी नापरास्ति [इति] निवेदयतीव । यत्र शुभ्रशरदभ्रविभ्रमधारिणि स्फुटस्फाटिकमयान्यभ्रंलिहाग्राणि हाणि मुरपथपथसंचरिष्णोरुष्णांशोरपि विरचयन्ति स्यन्दनस्खलनम् । यत्र द्विमुखो मृदङ्गः, तीक्ष्णो 9 मण्डलानः, भ्रमणशीलो मधुकरः, सकलङ्कश्चन्द्रः, प्रवासी राजहंसः, चित्रलो मयूरः, अविनयी बालः, 9 चपलः प्लवगः, परोपतापी ज्वलन एव न पुनर्जनः । यत्र च स्पर्श एव प्रस्तरः, पीयूषमेव जलम्, छायाद्रुम एव द्रुमः। वर्यते सा कथं देवैः किल शक्रनिदेशतः । या श्रीमन्नाभिपुत्रस्य निवासार्थ विनिर्ममे ॥ १४ 12 यां वीक्ष्य पथिका नैककौतुकानां निकेतनम् । प्रवासालापवैधुर्य स्वप्रियाणां विसस्मकः॥ १५ तद्वस्तु नास्ति यत्तत्र प्राप्यते प्राणिभिः सुखम् । यत्कथास्वपि वर्तेत तत्सर्वमपि वीक्ष्यते ॥ १६ 15 यत्र वक्राङ्गता हंसे मत्स्ये च स्वकुलक्षयः। अरिष्टं सूतिकागेहे जने नैव कदाचन ॥ १७ 15 राजन्ते यत्र कासारा नराश्च कमलाश्रिताः। सद्वृत्तशालिनः स्वच्छाः सच्छाया द्विजभूषिताः॥१८ यन्मृगाक्षीमुखाम्भोजलावण्येन विनिर्जिता । तपस्यतीव त्रपया सरोजालिः सरोजले ॥ १९ अनन्तवैभवोपेतनिकेतोन्नतकैतनैः । छन्नायां यत्र मार्तण्डमण्डलं न दृशां पथि ॥ २० 18 ६४) तत्र दृढवर्मा नाम राजा। यः सरलो दाक्षिण्यनिधिर्दानशौण्डो दयालुः शरणागतवत्सलः प्रियंवदः[च]। यस्तु दोर्गत्यशीतसंतापितानां दहनः, न पुनर्दहनः; सुजनवदनकमलाकराणां तपना, 21न पुनस्तपनः; घनसमयः स्वजनकदम्बानाम् , शरदागमः प्रणयिजनकुमुदवनस्य, हेमन्तः प्रतिपक्षलक्ष-21 कामिनीकमलिनीनाम्,शिशिरकाल:सौधयुवतीजनकुन्दलतानाम्, सुरभिर्मित्रकाननानाम् , ग्रीष्मः शत्रु जलाशयानाम् , कृतयुगावतारो निजक्षितिमण्डले, कलिकालो वैरिनरेन्द्रराज्येषु, संतुष्टः स्वकलत्रेषु, न 24 पुनः कीर्तिषु; लुब्धो गुणग्रामेषु, न पुनरर्थेषु; गृद्धः सुभाषितेषु, न पुनरकार्येषु; सुशिक्षितः कलासु, न 24 पुनरलीककपटचाटुवचनेषु । तस्य करालकरवालधाराविदारितवैरिवारणकुम्भस्थलीगलितमुक्ताफलवि भूषिताखिलक्षितितलस्य सर्वत्रास्खलितप्रसृतनिस्सीमप्रतापतपनशोषिताशेषविपक्षलक्षकीर्तिसरसीवि27 सरस्य शरच्चन्द्रचन्द्रिकावदातगुणसंघातस्य निरवधिसौभाग्यलक्ष्मीकटाक्षलहरीलक्षितसाभिलाषवपुर्वै-27 भवस्य नम्रानेकनरेश्वरशिरःश्रेणिमणिमुकुटतटोद्भवप्रभाजालपिञ्जरितपादारविन्दस्य प्रतापाक्रान्तदिक्चऋवालप्रान्तविश्रान्तशासनस्य मधुमथनस्येव कमला, कुमुदबन्धोरिव कौमुदी, निरुपमरूपतिरस्कृतसुर30सुन्दरीसार्था अनन्यसामान्यपुण्यलावण्योपचिता अविकलकलाकलापकलिता सदा सद्धर्मध्यानदत्ता-30 वधाना सर्वान्तःपुरप्रधाना समग्रगुणग्रामाभिरामा प्रियङ्गुश्यामा स्वयंवरपरिणीता कान्ता कान्ता बभूव । अथ तस्य तया साकं नाकेश्वरस्येव शच्या विषयसुखमनुभवतः कोऽपि कालो व्यतिचक्राम । 33५) अन्यदा चाभ्यन्तरसभासीनस्य तस्य भूपस्य कतिपयमन्त्रिजनपरिवृतस्य स्नेहवशप्रियाप्रति-33 ष्ठितवामपार्श्वस्य बाहुलतावलम्बितवेत्रलता प्रतीहारी समाययौ । तया विनतया भूपतेः पदपद्मयुग्मम युग्मभक्त्या विज्ञप्तम् । 'देव, एष शबरसंज्ञसेनापतिपुत्रः सुषेणाख्यस्तदा देवस्यैवाशया मालवनरेन्द्र36 विजयार्थ ययौ स सांप्रतं द्वारि स्वामिनश्चरणाम्बुजदर्शनमभिलषन्नस्ति'। राज्ञोक्तं 'प्रविशतु' इति । 'यदा-36 ज्ञापयति देवस्तत्प्रमाणम्' [इति] वदन्त्या तया प्रवेशितः सेनानीः। स च नृपं विलोक्य किंचिद्भूभागमुपसर्ग्य ननाम । राज्ञापि 'आसनमासनम्' इति जल्पता दक्षिणकरतलेनोत्तमाझं परिस्पृश्य संमानितः। 39 ततो विरचितदेवीप्रणामः स सकलसामवायकनायकगणानतिदूरे यथोचितविष्टरे निषसाद । अथ 39 पृथ्वीभृता तमासनासीनं सुषेणं निरीक्ष्य हृदयाभ्यन्तरप्रवर्तितप्रयोदामृतपूरितनिस्यन्दबिन्दुसंदोहमिव ___12) " निर्देशतः 13) " पथिकानेक. 16) P स्वच्छाया 19) PO दृढधर्मा. 20) P दहनो न, P तपनोन. 23) P कलिकाले. 24) लब्धो for लुब्धो. 28) P तटोद्भपाभा. 30) P अविकलाकलंककलाप. 31) o inter. स्वयंवरपरिणीता & प्रियङ्गुश्यामा. 33) 0g वृतस्य सप्रियस्य बाहु. 34) ० प्रतिहारी. 35) P शबरसंज्ञः- 36) द्वारिगौ स्वामिन'. 39) P प्रणामसकल. 40) Pom. पूरित, Cg 'न्तरे प्रमोदामृतपूरितेन हर्षाभूणि विमुञ्चता सुषेण. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394