Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 370
________________ -III. F65 : Verse 415] कुवलयमालाकथा ३ *65 विषादपरवशं मानसं मा कुरु । स युवात्र समागत एव विभाव्यते यथा शङ्खचक्राङ्किता चरणप्रतिकृतिः। 1 ततस्तदादेशवचनान्ते सर्वा अपि चेटिकास्तद्वीक्षायै प्रसनुः, परं कुत्रापि तामिर्न दृष्टः। भोगवत्या भणितम् । 'स्वयं गत्वाहं विलोकयिष्ये, त्वया पुनरत्र स्थातव्यम्' इति वदन्ती भोगवती गता। कुवलयमालया 3 चिन्तितम् । एतत्सर्वमपि कपटं मन्ये यत्तेन यूनात्रोद्याने सङ्केतः प्रदत्तः । अन्यस्य कस्यचिदयं चरणप्रतिबिम्बः । स युवा देवानामपि दुर्लभो मया कथं प्राप्यः । यावता कालेन तातो मां परिणायिष्यति 6 तावन्तं को जीविष्यति, सांप्रतं तत्करोमि यथा दुःखानां भाजनं न भवामि' इति विचिन्त्य कुवलयमाला 6 पाशरचनायकं लवलीलतागृहं प्रति चलिता यत्र कुमारः स्वयमेवास्ते । तेन च सा समागच्छन्ती वीक्षिता । ततः क्षणं कुमारो लजित इव भीत इव विलक्ष इव जीवित इव सर्वथैवानाख्येयमवस्थान्तरमवाप । सा च तं समीक्ष्य 'एकाकिनी' इति भीता, 'स एवायम्' इति प्रमुदिता, 'स्वयमागता' 9 इति लजिता. 'मया पूर्वमेष वृतः' इति विश्वस्ता चतुर्दिा प्रेषिततरलतरतारकदृष्टिः ससाध्वसा सस्तम्मा सविस्मया सस्वेदा सरोमाचा समभवत् । तदा तयोः परस्परं निरीक्षणेनापि तत्सुखमजायत यत्कवि12वाचामप्यगोचरम् , दिव्यशानिभिरप्यनुपलक्ष्यम् । ततः कुमारेण साहसमवलम्ब्य धीरत्वमङ्गीकृत्य 12 कामशास्त्रोपदेशं स्मृत्वा समुत्सृज्य लज्जा परित्यज्य साध्वसं 'सुन्दरि, भवत्यै स्वागतम्' इति वदता प्रसारितोभयभुजादण्डेनासस्थलयोः कुवलयमाला जगृहे । ततः सा प्रोवाच । 'कुमार, मां मुश्च मुश्च 16 सर्वथा न कार्यमनेन जनेन ।' कुमारः प्रोवाच । 'सुतनु, प्रसीद मा कुप्यस्व त्वदर्थमेवाहमेतावतीं 15 भुषमायातः, परमेतदपि त्वं न जानासि ।' तयोक्तम् । 'जानामि यद्भवान् पृथिवीमण्डलदर्शनकौतुकी।' कुमारेण प्रोचे । 'एवं मा वादीः, किं तत्स्मरसि न सुतनो, मायादित्यस्य जन्मनि भवत्योक्तं 'यन्मम भवता 18दातव्यं बोधिरत्नम् [इति स्मृत्वा तन्मुनिवचसा प्राप्तो ऽहं लोभदेवजीवस्त्वाम् । मुग्धे, बुद्धस्व ततो 18 मम वाचा मोहमुत्सृज्य' कुमारो यावदिदं जल्पन्नस्ति तावद्भोगवती समागत्य प्रोचे । 'वत्से, वक्षुलाख्यः कन्याम्तःपुररक्षक इति वदन्नस्ति यद् राजा कथयति यदद्य कुवलयमाला दृढमस्वस्थशरीरा कानसनान्तःपरिभ्रमन्ती त्वया त्वरितमेवैषा समानेया। ततः सा सकलककुम्मण्डलदसतरललोचना कथमपि 21 चलितुमारेमे । कुमारःप्रोवाच । 'उक्तेन बहुना किं वा किं कृतैः शपथैर्धनैः । वदामि सत्यमेवैतत्त्वमेव मम जीवितम् ॥' ४१५ 4 ६६४) कुवलयमालापि 'महाप्रसादः' इति वदन्ती लवलीलतागृहतो निःसृता । कथुकी जगाद । 24 'वत्से, भवतीयतीमत्र वेलां कथं स्थिता, केनात्राकारिता, अत्र तव दनान्तश्चिरं स्थातुं नो युक्तं सत्वरं त्वमप्रतो भव' इति । ततः सा तद्वचः कर्कशमाकर्ण्य तेन कवकिना सह पथि गच्छन्ती चिन्तयति स्म । 'अहो, अस्य कुमारस्य प्रतिपन्नवत्सलता, अहो, अस्य सत्यप्रतिशता, अहो, उपकारिता, यदेष शिरीष-27 कुसुमगात्रो ऽपि चरणचार्येव पथि क्षुत्तृषाधवगणय्य प्रीत्या दूरस्थामपि मां प्रष्टुं बोधयितुमिहागतः। भूयो ऽपि कदा संगस्यते' इति ध्यायन्ती कन्या कन्यान्तःपुरमाययो। कुमारस्तु तस्याः प्रेमकोपपिशुनं 30 वचनं स्मरनेकस्मिन् पादपे कुसुमावचयं विरचयन्तं महेन्द्र निरीक्ष्य जगाद । 'वयस्य, समेहि यथावासं 30 बजावः । यद् द्रष्टव्यं तदृष्टमेव ।' ततो द्वावपि निकेतनमाजग्मतुः। तत्र च महाराजप्रेषितेन चारवनिताजनेन नानं कारिती । ततः कृतभोजनौ यावदासनस्थौ तिष्ठतस्तावदेकया कामिन्या समागत्य कुमारस्य करे 33 ताम्बूलमदायि । कुमारेणोक्तम् । 'केनेदं प्रेषितम्' । तयोदितम । 'केनापि जनेन' इति । एवं सा 39 कदाचिद्भोज्यं कदाचित्ताम्बूलं कदाचित्पत्रच्छेद्यं कदाचिदालेख्यं परमपि स्नेहरसविशेषपोषकं कुमारस्य योग्यं प्रतिदिनं प्रेषयति । एवं च तयोर्निजराज्य इव सुखेन तिष्ठतो कियन्तः पुण्यभासुरावासरा व्यतीयुः। 36६६५) अथ हेमन्ते भूमिभृता निमित्तमिदमाकार्य पुत्र्याः पाणिग्रहणलग्नं पृष्टम् । तेन सर्वाण्यपि 36 ज्योतिशास्त्राण्यवलोक्य प्रोचे । 'फाल्गुनसितपञ्चम्यां बुधे स्वातिनक्षत्रे यामिन्याः प्रथमे यामे व्यतीते प्रधानं गतदोषमुपयामलग्नमस्तीत्यवधार्यतां देवेन।' राज्ञापि 'तथा' इत्यङ्गीकृत्य कुमारस्याग्रे शापितम् । 39 'कुमार वत्स, भवद्विज्ञानसत्त्वसाहसप्राग्भवस्नेहवश्यायाः कुवलयमालाया वियोगश्चिराय भवतो 39 ऽस्माभिः कृतः । अतः सांप्रतममुष्यां पञ्चम्यां कुमारोऽमुष्या वेदिकामध्यमध्यासीनायाः पाणिग्रहण करोतु ।' कुमारेणोक्तम् । 'यदादिशति देवस्तत्तथा' इति । ततः कुवलयमाला पाणिग्रहणाकर्णनस्मेर42 वदनाम्बुजा प्रमोदभरभासुरा सर्वाङ्गरोमोद्गमसंगमा चिरसंचितपर्यमाणमनोरथपथा न देहे न गेहे न42 2) B'दादेशवचनेन सर्वा. 6). परिणाययिष्यति. 10) B om. तर before तारक. 18) PB om. [इति], B मानमट for लोभदेव. 19) B वंजुलाख्यकन्यांतःपुररक्ष इति. 20) B om. यद् राजा कथयति. 27) Bom. अस्य before सत्यप्रतिज्ञता. 31) Bनिकेत for निकेतन. 33) Bom. सा after एवं. 39) ० वशीकृतायाः for वश्यायाः. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394