Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 386
________________ *81 -IV.833 : Verse 85] कुवलयमालाकथा ४ 1दृश्यन्ते ह्रियमाणाः पदार्थाः, न चौरोऽपि लोचनगोचरः। केवलमेतदेव सर्वत्रापि प्रातः परिश्रूयते यत्पुरं 1 मुषितम् । अहं देवादेशेन पुरपरित्राणं करोमि. परं केनाप्युपायेन न मलिम्लुचोपलब्धिः। ततः स्वामी ३ कस्याप्यन्यस्यादेशं ददातु।' तस्मिन्नेवमुक्तवति नरेश्वरेण सकलमप्यास्थानमण्डलमालुलोके । ६३२) ततो वैरिगुप्तेन विरचिताञ्जलिना विज्ञप्तम् । 'यदि देव, सप्तरात्रमध्ये तं स्तेनं देवान्तिक नानयामि ततोऽहं ज्वालाकुलं ज्वलनमाविशामि' इति । ततो राजादेशमासाद्य वैरिगुप्तस्य सुगुप्तविधिना 6 प्रकोष्ठनिक्षिप्तखेटकस्य करतलकलितकरालकरवालस्य चत्वररथ्यामुखगोपुरारामसरोवरवापीदेवकुल- 6 पानीयशालामठेषु विचरतः षड् दिवसा व्यतिचक्रमुः, न पुनस्तेन स चौरपुमानुपलब्धः । ततः सप्तमे दिवसे वैरिगुप्तेन चिन्तितम् । 'सर्वत्र मयान्वेषितं पुरं परं न चौरः प्राप्तः, तदत्र को ऽयमुपायो विधेयः, 9 मम च प्रत्यूषे प्रतिज्ञा परिपूर्णा तावदागता ममापूर्णसंधस्य पश्चता, तदद्य क्षणदायां श्मशाने महामांसं . विक्रीय कमपि वेताल साधयित्वा चौरवृत्तान्तं पृच्छामि' इति विचिन्त्य वैरिगुप्तः श्मशानभुवं संप्राप्तः। तत्र च तेन महासाहसिना क्षुरिकया जङ्घयोर्महामांसमुत्कृत्य हस्ते विधाय वारत्रयं भणितम् । 'भो भो 12 राक्षसाः, पिशाचा वा श्रूयताम् , यदि भवतां महामांसेन कार्य तदेतद्गृहीत्वा चौरवृत्तान्तं निवेदयत ।' 12 वेतालेनोक्तम् । 'महामांसमहं प्रहीष्ये।' कुमारेण भणितम् । 'प्रमाणमेतत् , परं चौरप्रचारः परिकथनीयः।' कुमारेणार्पिते महामांसे तेनोकम् । 'भद्र, मांसमिदं स्तोक विस्त्रं च, यद्यग्निना पक्कं भवान् ददाति तदा 16 गृहामि ।' कुमारेण भणितम् । 'चितासमीपमागच्छ यथा खेच्छयाग्निपक्कं स्वमांसं भवते ददामि। 15 वेतालाप्रोवाच । भवत्वेवम्।' ततस्तौ चितासमीपमाजग्मतुः। कुमारेणापरं स्वमहामांसं पक्कं तस्मै प्रदत्तम्। तेन च खेच्छया भुक्तं च । अत्रान्तरे गौतमेन पृष्टम् । 'भगवद, किमु पिशाचा राक्षसाश्च कावलिक18 माहारं कुर्वन्ति किंवा न।' भगवताशप्तम् । 'गौतम, न कुर्वन्ति ।' गौतमेनोक्तम् । 'यद्यमी नाश्नन्ति 18 ततः कथमनेन महामांसमशितम्।' भगवतादिष्टम् । 'प्रकृत्या व्यन्तरा अमी बाला इव क्रीडां कुर्वन्ति । 'महामांसं भुक्तम्' इति लोकस्य मायां दर्शयन्ति ।' वेतालेन भणितम् । 'एतन्महामांसं निरस्थि मां न 21 रोचते, यद्यस्थिवत्कटकटारावकरं परं ददासि तद्देहि ।' तदाकर्ण्य कुमारो दक्षिणजङ्घामुत्कृत्य चितानले 21 पक्त्वा वेतालस्यार्पयामास ।' पुनस्तेनोक्तम् । 'भो भद्र, अमुनाधुना पूर्ण, संप्रत्यतीव तृषितोऽस्मि, ततस्तव शोणितं पातुमिच्छामि ।' 'पिब' इति वदता कुमारेण यावदेका स्नसा विदारिता तावत् हाहारवमुखरे24 ऽट्टहासे गगनाङ्गणं प्रसृते, 24 'साहसेनामुना तुष्टो ऽस्म्यनन्यसदृशेन ते । यत्किंचिद्याचसे वीर तदेव वितराम्यहम्' ॥ ८१ ६३३) ततः कुमारः प्रोवाच तुष्टस्त्वं यदि संप्रति । मत्पुरं मुषितं येन तमेव कथयस्व मे ॥ ८२ । 27 वेतालोऽप्यब्रवीद्देव तस्य चौरस्य को ऽपि न । प्रतिमल्लः स दृष्टो ऽपि न हि केनापि गृह्यते ॥ ८३ 21 तन्निशम्य कुमारेणाक्षतं वीक्ष्य क्षतं दृशा। प्रोचे वेताल चौरस्य स्थानमेव निवेदय ॥ ८४ जगाद स च वेतालो यद्येवं शृणु तत्त्वतः। श्मशानान्तःस्थन्यग्रोधे ऽमुष्य स्तेनस्य संश्रयः॥ ८५ 30 तत्र वटे छिद्रमेव द्वारम् । तच्छ्रुत्वा कुमारस्त्वरितं विकटं प्रेतवनवटं समारुह्य शाखासु प्रति-30 शाखासु मूले पत्रनिकरान्तरे च कृपाणपाणिर्विलोकितुं प्रवृत्तः। ततः कोटरस्थच्छिद्रसमीपे राजपुत्रो यावदधोवकं करोति तावत्ततो धूपगन्धः कस्सीरजघनसारमृगमदपरिमलमांसिलो निस्सरति । वेणु33 वीणारवं कामिनीजनजनितगीतसंवलितं श्रुत्वा. राजस्नुना चिन्तितम् । 'दृष्टममुष्य परिमोषिणो 33 मन्दिरम् । अधुना यो बलवांस्तस्यैव राज्यम्' इति विचिन्त्य तत्रैव विवरे किंचिद्भूभागमुपसर्प्य मणिमय भवनं चारुकाञ्चनतोरणं वरयुवतिजनप्रचारं विलोक्य व्यचिन्तयत् । 'स तावदुष्टाचारः कुत्र भावी' इति 36 चिन्तयता तेन कापि लोललोचना निस्तन्द्रचन्द्रवदना ततो निसरन्ती दृष्टा पृष्टा च । 'कस्यायमावासः, 36 कासि त्वम् , कुत्र वा स परास्कन्दी, स्त्रीजनश्च किं गायति । तयोक्तम् । 'भद्र, कथमेतावती भुवमागतः, स्वमतीव साहसिकः, कुतः स्थानादागतः। तेनोक्तम् । 'ऋषभपुरात् ।' तयोक्तम् । 'यदि त्वं ऋषभपुर39 वास्तव्यः [तत् ] किं जानासि चन्द्रगुप्तनरेश्वरं, वैरिगुप्तं पुत्रं च। तेनोचे । 'भद्रे, त्वं कथं जानासि 39 तयोर्द्वयोरप्यभिधे। तयोक्तम् । 'गतास्ते दिवसाः। तेन भणितम् । 'कथय स्फुटं तयोः किं भवसि, कथमभिजानासि तौ, केन पथात्र प्राप्तासि ।' 4) Bरात्रि for रात्र. 5) Bom. इति. 7) B चौरः पुमा'. 11) B तेन साहसिना. 24) प्रवृते for प्रसते. 28) B बीक्षा क्षत. 31) पाणिबिलं विलोकितु. 34) B मणिमयं भुवनं. 35) वरयुवतिजातप्रचारं. 39) Bom. [तत्]. 11 For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394