Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
-IV. 46 : Verse 121] कुवलयमालाकथा ४
*87 1शशुक्तिगण्ड्रपदजलौकप्रभृतीनां श्रीन्द्रियाणां यूकामत्कुणमत्कोटिलिक्षादीनां चतुरिन्द्रियाणां पतङ्क- 1 मक्षिकाभृङ्गदंशादीनां पञ्चेन्द्रियाणां जलचरस्थलचरखचरमानवादीनामस्माभिर्या हिंसा कृता सूक्ष्मा बादरा वा मोहतो लोभतो वा तां व्युत्सृजामः । हास्येन भयेन क्रोधेन लोभेन वा यत्किमपि वृथा प्रोकं 3 तत्सर्वमपि निन्दामः प्रायश्चित्तं च चरामः। यदल्पं घनमपि क्वापि परस्य द्रव्यमदत्तं गृहीतं रागतो द्वेषतो वा तत्सर्वमपि त्यजामः । तैरथ्यं मानुषं दिव्यं मैथुनं यत्पुरास्माभिः कृतं तत्रिविधं त्रिविधेनापि परित्यजामः । यस्तु धनधान्यपश्वादीनां परिग्रहो लोभतः कृतस्तं परिहरामः । पुत्रकलत्रमित्रवान्धवधनधान्य- 6 गृहादिष्वन्येष्वपि यन्ममत्वं कृतं तत्सर्वमपि निन्दामः । इन्द्रियपक्षे पराभूतैरस्माभिश्चतुर्विधो ऽप्याहारो रात्रौ भुक्तस्तं त्रिधापि निन्दामः । क्रोधमानमायालोभरागद्वेषकलहपैशून्यपरपरिवादाभ्याख्यानादिभिश्चारित्रविषये यदुष्टमाचरितं तत्रिविधेन व्युत्सृजामः। षड्डिधबाह्याभ्यन्तरे तपसि यः कोऽप्यति- " चारस्तं निन्दामः । वन्दनकप्रतिक्रमणकायोत्सर्गनमस्कारपरिवर्तनादिषु वीर्याचारे यद्वीये गोपितं तत्रिधा निन्दामः। यत्कस्यापि किंचन वस्त्वपहृतं प्रहारः प्रदत्तो वा कर्कशं वचो जल्पितं चापराधश्च कृतो 12 भवति सोऽखिलो ऽप्यस्माकं साम्यतु । यच्च मित्रममित्रं वा स्वजनोऽप्यरिजनोऽपि च स सर्वोऽप्य-12 स्माकं क्षाम्यतु तेषु सर्वेष्वपि समा एव। तिर्यक्त्वे तिर्यश्चो नारकत्वे नारकाः स्वर्गित्वे स्वर्गिणो मानुषत्वे मानुषा ये ऽस्माभिर्दुःखे स्थापितास्ते सर्वे ऽपि क्षाम्यन्तु वयमपि तान् क्षामयामः। तेषु सर्वेष्वस्माकं 15 मैत्री भवतु । जीवितं यौवनं लक्ष्मीलावण्यं प्रियसंगमा एतत्सर्वमपि वात्या नर्तितसमुद्रकल्लोलवल्लोलं 15 व्याधिजन्मजरामृत्युग्रस्तानां देहिनां जिनप्रणीतं धर्म विनान को ऽप्यपरशरणम् । एते सर्वेऽपि जीवा: स्वजनाः परजनाश्च जातास्तेषुमनागपिवयं सुधियः कथंप्रतिबन्धं विदध्मः। एकएव जन्तुरुत्पद्यते, एक एव 18 विपत्तिमाप्नोति, एक एव सुखान्यनुभवति, एक एव दुःखान्यपि । अन्यच्छरीरमपरं धनधान्यादिकमन्ये 18 बान्धवो ऽन्यो जीवस्तेषु कथं वृथा मुह्यामः । रसासृग्मांसमेदोऽस्थिमज्जाशुक्रयकृच्छकृतादिभिः पूरिते ऽशुचिनिलये वपुषि मूछौं न कुर्मः। इदं देहं नित्यशः पालितं लालितमप्यवक्रयगृहीतगृहमिवास्थिरम21 चिरेणापि मोक्तव्यमेवेति । धीरा अपि कातरा अपि खल देहिनो मृत्युमामुवन्ति । वयं तथा मरिष्यामो21 यथा न पुनरस्माकं मृत्युकदर्थना । सांप्रतमहन्तः सिद्धाः साधवः केवलिभाषितो धर्मः शरणमस्माकमिति । जिनोपदिष्टः कृपामयो धर्मो माता धर्माचार्यस्तातः सोदरः साधर्मिको बन्धुश्च । अन्यत्सर्वम24 पीन्द्रजालमिव । भरतैरावतमहाविदेहेषु श्रीवृषभनाथादीन् जिनान् सिद्धानाचार्यानुपाध्यायान् साधून 4 नमामः । सावद्ययोगमुपधि तथा बाह्यमाभ्यन्तरं यावजीवं त्रिविधं त्रिविधेन व्युत्सृजामः । यावज्जीवं चतुर्विधाहारमप्युच्छासे चरमे च देहमपि त्यजामः । दुष्कर्मगर्हणा १ जन्तुजातक्षामणा २ तथा भावना 27३ चतुःशरणं ४ नमस्कारः ५ तथानशनं च ६ एवमाराधना षोढा विहिता। ततः
दग्ध्वा ध्यानधनंजयेन निखिलं कर्मेन्धनौघं क्षणादुन्मीलत्कलकेवलोदयपरिक्षातत्रिलोकीतलाः। ते पश्चापि मुनीश्वराः समभवन् व्युत्सृष्टदेहास्ततः।
श्रीमन्मुक्तिनितम्बिनीस्तनतटालङ्कारहारश्रियः॥ १२१ इत्याचार्यश्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते श्रीकुवलयमालाकथासंक्षेपे श्रीप्रधुमसूरिशोधिते कुवलयचन्द्रपितृसंगमराज्यनिवेशपृथ्वीसारकुमार
समुत्पत्तिव्रतग्रहणप्रभृतिकश्चतुर्थः प्रस्तावः॥४॥
॥ इति कुवलयमालाकथा समाप्ता॥
2) Poin. खचर. 7) Bom. इन्द्रियपक्षे eto. to निन्दामः- 8) PO द्वेषकालोपशून्य. 11) Bच । अपकारश्च19) P यकृतसकृतादिभिः- 21) Pमुक्तव्यमिति B मोक्तव्यमिति. 22) PB शरणमिति. 24) P साधूननाम. 29) " उन्मीलत्केवलोदय. 31) 'हारः श्रिय. 33) कुवलयचंद्रराज्यनिवेश. 35) PB omit इति, PB श्रीमस्कुवलय', PB समाप्ताः ॥ छ II. P at the close एवं प्रेथसंख्या ॥ ३९९४ ॥ शुभं भवतु ॥ छ । संवत् १४८९ वर्षे आपाढ शुदि १४ चतुर्दश्यां युधे कुवलयमाला कथा लिखिता ।। छ । चिरं नंदतात् । Bat the close एवं ग्रंथागसंख्या ३८०४ ॥ सं०१४४५ वर्षे मार्गसिर शुदि ६ गुरुदिने पुस्तिका लिखिता ।। छ । यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते । १ भमपृष्टिकटिग्रीवा अधोवृष्टिरधोमुखं [1] कष्टेन लिखितं शाखें यत्नेन परिपालयेत् । २ शुभं भवतु मंगलमस्तु लेखकपाठकयोः॥छ॥ उदकानलचोरेभ्यो मूखकेभ्यो [भ्य ] स्तथैव च । परहस्तगता रक्ष एवं वदति पुस्तिकाः[का॥छ । श्रीः ॥ श्रीः॥ श्रीः ॥ श्रीः ।। छ | at the close ॥ एवं ग्रन्थसया ३८९४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 390 391 392 393 394