Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
-IV. 48 : Verse 110] कुवलयमालाकथा ४
*85 1 ६४२) सोऽपि बहुलविटपसंकुले कस्मिन्नपि प्रदेशे ऽनल्पश्यामलदलनिचितं न्यग्रोधमारुहोति 1
ध्यातवान् । 'अहो, विधिना प्रदत्तं यदातव्यम् । ततो ऽधुना गृहं गतो रत्नमेकं विक्रीय सकलकुटुम्बबान्धवानां यत्कृत्यं तत्करिष्यामि ।' ततः प्रवृत्ते ऽवतमसे सूचीमेये तत्र विधिधवर्णा बहवः पक्षिणः 3 समुच्छिततनवः स्वयंभुदेवाध्यासितमेव वटमाश्रितवन्तः। अथ तत्र समागत्यैकः पक्षी पक्षिसंघातमध्यस्थं जराजीर्णाकं पक्षिणमेकं प्रणम्य व्यजिज्ञपदिति । 'तात, त्वयाहं जातस्त्वयाहं संवर्धितस्त6रुणीभूतो नयने ममाद्य सफलीभूते, कर्णावपि कृतार्थों जाती, एतत्पक्षियुगलमपि सार्थ जातम् । अद्या-6 त्मानं गरुत्मतोऽपि गुरुतरं मन्ये ।' पतदाकर्ण्य जीर्णपक्षिणा भणितम् । 'संप्रति भवानतीवामन्दानन्दसंदोहमेदुरमना इव लक्ष्यते, [अतो] वत्स, भवता भ्रमता किमपि यदृष्टं श्रुतमनुभूतं वा तत्सर्वमपि निवेदय । तेनोक्तम् । 'तात शृणु, अद्याहं भवत्समीपतः समुत्पत्य गगनतलं 'किंचिदाहारमन्वेषयन् । यावद्गगनतले भ्रमामि तावदहं हस्तिनापुरे प्राकारत्रितयमध्यगतं मनुष्यलोकं विलोक्य 'अहो, किं पुनरे
तत्पश्यामि' इति ध्यात्वा द्वितीयप्राकारान्तरे पक्षिगणमध्ये गत्वाहमुपविष्टः सन् शोणाशोकपादपस्याधः 12 सिंहासनासीनं भगवन्तं कमपि दिव्यज्ञानिनं ज्ञात्वा ध्यचिन्तयमिति । 'अहो, दृष्ट यद्रष्टव्यं मया त्रिभुव-12
नाश्चर्यकारि ततस्तात, तेन भगवता सकलसंसारस्वरूपं प्ररूपितम्। तथा हि, 'प्रदर्शितःप्राणिगणविचारः। विस्तारितः कर्मप्रकृतिविशेषः। विशेषितो बन्धनिर्जराभावः।भावितः संसाराश्रवविकल्पः। विकल्पित 16 उत्पत्तिस्थितिविपत्तिविशेषविस्तरः। प्ररूपितो यथास्थितो मोक्षमार्गः' इति । ततो मया भगवान् पृष्टः । 15 'हेनाथ, अस्मादृशः पक्षिणःप्राप्तवैराग्या अपि तिर्यग्योनित्वात्परायत्ताः किं कुर्वन्तु ।' ततो भगवता
ममाभिप्राय परिशाय समाख्यातम् । 'हे देवानुप्रिय, भवान् संशी पश्चेन्द्रियः पर्याप्तस्तिर्यग्योनिरपि 18 सम्यक्त्वं लभते ।' गणधारिणोदितम् । 'के प्राणिनो नरकगामिनः।' भगवता निवेदितम् ।'ये पञ्चेन्द्रिय-18 वधकारिणो मांसाहारिणश्च ते सर्वेऽपि देहिनः श्वभ्रयायिनः। ये च सम्यक्त्वं भजन्ते ते नरकतिर्यग्गतिद्वारपिधायिनः।' मयोक्तम् । 'देव, पक्षिणः पञ्चेन्द्रियवधकारिणो मांसाहारिणश्च कथं सम्यक्त्वधारिणः, अस्माकं जीवितं पापपरमेव । एवं व्यवस्थिते मया किं कर्तव्यम् । ततो भगवानिजगाद ।
21 'किल यः स्नेहं छित्त्वा नियन्य सौवं तथा च करणगणम् ।
विधिना मुञ्चति देहं स प्राणी सुगतिमुपयाति ॥११० 24 पक्षिणो ऽपि शुद्धमनसः सम्यक्त्वं दधति' इति निवेद्य समुत्थाय भगवानन्यत्र विजहार। अहमपि 24 तं भगवदुपदेशं निशम्य जातवैराग्यो ऽकृताहारस्तात, तव समीपमुपागतः । अघुना प्रसाद विधाय
मां प्रेषय । ममापराधं सर्वमपि क्षमखेति यथा स्वार्थपरो भवामि ।' ततः स पक्षी स्नेहनिगडान् छित्त्वा 27 स्पर्शनेन्द्रियादितुरगवृन्दमिदं नियन्य च मातरं ज्येष्ठं कनिष्ठं च भ्रातरं तथा महतीं लध्वीं स्वसारं 27 भार्या शिशून् मित्राणि चापृच्छय गगनतलमुत्पपात ।
४३) इतश्च विभातायां विभावर्या सर्वो ऽपि पक्षिगणो चटपादपतः प्रययौ । तं विहङ्गगणं 30 समुत्पतितं निरीक्ष्य स्वयंभुदेवो ऽपि विस्मयस्मेरमनाश्चिन्तितुं प्रवृत्तः । 'अहो, महदाश्चर्य यदत्र वने 30 पक्षिणो ऽपि मनुष्यभाषाभाषिणः सद्धर्मपरायणाश्चेति । अवश्यमेते दिव्यपक्षिणः। स च पक्षी कुटुम्बं
परित्यज्यात्मनो हितं धर्ममेवाङ्गीचकार । यदि पक्षिणोऽपि धर्ममार्गमनुसरन्ति तदहं परस्य रत्नानि 33 गृहीत्वा कुटुम्बपोषणं कथं करोमि । ततः सांप्रतमेतदेव मे करणीयं यस्य समीपे ऽमुना धर्मः श्रुतस्तमेव 33
गत्वा पृच्छामि । 'यद्भगवन् के पक्षिणः, किं वा तैमन्त्रितम्' इत्यापृच्छय यत्कृत्यं तत्पश्चादाचरिष्यामि । यदमुना पक्षिणा कृतम्' इति ध्यात्वा वटपादपादवतीर्य हस्तिनापुरमिदं समागतः । भो गौतम, मम 36 समवसरणे सैष प्रविष्टः, पृष्टश्चाहमेतेन, स पक्षी वने कः, कथितो मया यथैष दिव्यपक्षी । इदं निशम्य 36
समुत्पन्नवैराग्यो निर्गतः । ततो निर्विण्णकामभोगः संजातविवेको विगलितचारित्रावरणीयकर्मा तयो रत्नानि प्रत्यर्पा ममैव सकाशमधुना समागच्छन्नस्ति' इति । यावदिदं स भगवान् महावीरो निवेदयति 39 गौतमादीनां पुरस्तावत्प्रातः स्वयंभुदेवः प्रदक्षिणीकृत्य भगवन्तं प्रोवाच च । 'देव, प्रबुद्धो ऽहं वने पक्षि-39 वचनमाकर्ण्य ततो मम दीक्षां देहि। ततो भगवता यथाविधि स्वयंभुदेवो दीक्षितः। चण्डसोमजीवः स्वयंभुदेवः पूर्वभवसङ्केतितदेवेन पक्षिप्रयोगेण प्रतिबोधितः। ततो भगवान् सर्वज्ञः श्रीमहावीरदेवो मगध42 देशमण्डले श्रियोगृहं राजगृहं जगाम । तत्र रचिते सर्वदेवैः समवसरणे श्रीश्रेणिका क्षोणिनायकः सपरि- 42
1) B पादप for विटप. 3) B has a marginal gloss on सूचीमेधे thus: लक्षणशब्दोय महानिवडे. 8) P Bom. [अतो). 19) Badds च after ये. 24) adds भगवतोक्तं before पक्षिणोऽपि. 30) P मदने B यदने for यदत्र वने. 41) P संकेतिदेवेन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 388 389 390 391 392 393 394