Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
.
6
-IV. F39 : Verse 103] कुवलयमालाकथा ४
* 83 1तन्नोचितम् । यदि सत्येन चौरो ऽसि तेन निग्रहयोग्यस्त्वं तत्सजीभव युद्धाय ।' तं राजतनयं प्रेक्ष्य 'अहो, 1
कथमेष वैरिगुप्तः संप्राप्तः, तद्विनष्टं कार्यम् , तावत्किमनेन बालेन' इति चिन्तयता विद्यासिद्धेन प्रोचे। 3 'कृतान्तवदनप्राये क्षिप्तः केन बिले भवान् । कथं वा रूपसौभाग्यशाली निधनमिच्छसि ॥८९३ ततः 'कृपाणः कृपाणः' इति वदन् स देवायतने राजतनयसंबन्धिनं खङ्गं खेटकं च गृहीत्वा दध्यौ। 'अहो, मदीयं न खगरतं न च खेटकमपि' इति बिन्तयन् कुमारमूलमागत्य बभाण ।
'मदीयान्तःपुरे केन प्रेषितो मातृशासितः। ज्ञातं वा कुपितः प्रेतपतिरेव तवोपरि ॥९० इदानीं ते न निस्सारो विद्यते बिलतो ऽमुतः । सूपकारकरायातः शशवत्त्वं विनंक्ष्यसि ॥९१ प्रोचे कुमारः 'किं रेरे, स्वैरचारी मम प्रियाम् । हृत्वाद्य माद्यसि प्राप्त एवासि त्वं यमान्तिकम् ॥९२
६३७) इति वदता कुमारेण तदभिमुखं खड्गप्रहारः प्रदत्तः । तेनापि कलाकौशलशालिना 9 वञ्चयित्वा तं प्रहारं कुमार प्रति प्रहारो मुक्तः। कुमारेणापि स वञ्चितः । ततस्तयोर्वनमहिषयोरिव महानाहवः प्रवृत्तः, परमेतयोर्मध्ये न कस्यापि जयो ऽभूत् , तथाप्ययं विद्यासिद्धः 'कैतवी' इति विचिन्त्य 12 चम्पकमालया प्रोचे । 'कुमार, खड्गरत्नमिदं स्मर'। रम्यमुक्तमनया' इति विचिन्त्य कुमारो निजगाद ।12
_ 'यदि सिद्ध्यसि सिद्धानां चक्रिणां वासिरत्न मोः। तत्त्वं मम कराग्रस्थं लुनीह्यस्य शिरोऽधुना' ॥९३ अथ विद्यासिद्धेन चिन्तितम् । 'अये, अनयैव वनितया खङ्गरत्नमिदमस्यार्पितम् , आः पापे, कुत्र व्रजसि' 16 इति वदन् तामेव दिशं विद्यासिद्धःप्रत्यधावत ।
16 यावन्नामोति वनितामिमामेष नराधमः । तायत्त्वरितमेवास्य शिरश्चिच्छेद राजसूः ॥ ९४ उकं चम्पकमालया। 18 'कुमारैतस्य वक्रान्तः समस्ति गुटिका किल । विदार्यास्य मुखं तत्त्वं तां गृहाण महाशय ॥९५ 18
स श्रुत्वेति मुखात्तस्य दारिताहुटिकां ततः। लात्वा प्रक्षाल्य चात्मीयमुखे चिक्षेप तत्क्षणम् ॥ ९६ कुमारः सुगुणाधार: पारावारस्तरोर्णसः। तयाधिकं समुद्दीप्य दर्पभूः समभूत्तदा ॥९७
६३८) ततस्तस्य कुमारस्य तेनैव ललितविलासिनीजनेन सह विषयसुखमनुभवतो विस्मृतसकल-21 गुरुवचनस्य निजशक्तिविजितसिद्धलब्धार्थानेकप्रणयिनीजनसनाथपातालभुवनस्य तत्रैव वसत एकदिनमिव द्वादश वत्सराणि व्यतीयुः। द्वादशसंवत्सरप्रान्ते ऽस्य प्रसुप्तस्य तस्य निशायाः पश्चिमे यामे 24ऽदृश्यमानो मङ्गलपाठकः पपाठ।
'प्रभातसमये निद्रामोहं त्यज नरेश्वर । अवलम्बस्व सद्धर्म कर्मनिर्मूलनक्षमम् ॥९८
संसारसागरं घोरमवगम्य दुरुत्तरम् । त्यक्त्वा स्त्रीसंगतिं धर्मपोतमेतमलं कुरु ॥ ९९ 27 एतदाकर्ण्य राजसू नुना चिन्तितम् । 'अहो, कुत्रैष बन्दिध्वनिः।' ताभिर्भणितम् । 'देव, न जानीमः,27
स च न दृश्यते, केवलं शब्द एव श्रूयते।' एवं बन्दिना सप्त दिनानि यावजय जयेति शब्दपूर्व संसारवैराग्यजननानि वचांस्युच्चरता तस्य चेतो विस्मयस्मेरमतन्यत । ततो राजपुत्रेणोक्तम् । 'अयं तावद30वश्यमेति तदेनमेव पृच्छामि' इति वदतस्तस्य कुमारस्य स दिव्यबन्दी प्रत्यक्षीभूय 'कुमार, जय जय' 30 इत्युवाच । कुमारेणोचे ।
'भो दिव्य कथय क्षिप्रमायातः केन हेतुना । प्रत्यहं किमु वैराग्यवचो जल्पसि मत्पुरः ॥ १०० 33 दिव्येनोचे 'तव स्वान्ते, किंचित्कौतुकमस्ति चेत् । पृच्छ तद्वत्स निर्गत्यामुतः पातालवेश्मनः ॥१०१ 33
स प्रोचे 'किंतु पातालमिदं कालः कियान् गतः । वसतो मे ऽत्र केनेतो निर्गच्छामि पथा ननु' ॥१०२
सो ऽप्यूचे 'श्वभ्रमेवेदं, द्वादशात्र समाः स्थितः। त्वं ततो विवरद्वारानया निर्गच्छ सत्वरम् ॥१०३ 368३९) एवमाकर्ण्य कुमारः समुत्थितः । तिरोहितो बन्दी । ताभिः स्त्रीभिर्नत्वा ततो विक्षप्त: 36 कुमारः। 'अतः परं देवः किं कर्तुकामः।' कुमारेणोक्तम् । 'अहं भगवन्तं दिव्यज्ञानिनं कथमपि गत्वा
प्रक्ष्यामि यदेष किंचिजल्पति तत्सत्यं तक्रियते न वा' इति । ततस्ताभिर्भणितम् । 'यं मार्ग त्वमङ्गी 39 करिष्यसि वयमपि तमेवानुसरिष्यामः ।' एवं प्रतिपद्य सद्यः कुमारः समुत्थाय तेनैव विवरद्वारेण 39 निर्गत्येह स्थितानस्मान् मत्वागत्य संदेहं पप्रच्छ, निर्गतश्च सो ऽयं चन्द्रगुप्तपुत्रो वैरिगुप्तः, प्राग्भवसंबन्धिसङ्केतितदेवकृतबन्दिप्रयोगेण प्रतिबुद्धः। ततो गौतमगणधारिणा विक्षप्तम् । 'भगवन्, सांप्रत
2) तावत् अथवा किमनेन. 4) Bom. ततः. 8) 0 कुमारः प्रोचे for प्रोचे कुमारः. 10) प्रतिहारो for प्रति प्रहारो. 12) B'मनया विचितेति कुमारो. 21) Pom. कुमारस्य, B adds च before सह. 22) Bom. तत्रैव वसत, Bएक दिनमिव. 25)P कर्म निम्मैलक्षमम् , 'निमैलन' 30) तदेतमेव पृच्छामि. 37) । किमपि for कथमपि. 38) Bय वं मार्गमगी.
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 386 387 388 389 390 391 392 393 394