Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 382
________________ * 77 मांप्रतं तु विधिप्रज्ञाप्रकषकाराय दुहिता दत्ता।... स्तपर्यस्त-12 -IV. 25 : Verse 77] कुवलयमालाकथा ४ 1कुमारीरूपं प्रतिकृत्याः कस्याश्चित्त्वया लिखितम्, किमुत स्वमत्या ।' तेन विज्ञप्तम् । 'देव, उज्जयिन्यां 1 महापुर्यामवन्तीनृपतेः सुताया:प्रतिच्छन्दः।' ततः कुमारः सादरं तां निद्रामिष नयनमनोहारिणी, शक्तिमिव हृदयदारणनिपुणां, शुद्धपक्षेन्दुकलामिव भृशं विमलां, महाराजराज्यस्थितिमिव सुविभक्त- 3 वर्णोपशोभितां, जिनश्रुतिमिव सुप्रतिष्ठिताङ्गोपाङ्गसुभगां विलोक्य क्षणं स्तम्भित इव, ध्यानगत इव, दृषनिर्मित इव, लेप्यमय इव स्थितः। ततः कृतकृत्य इव कुमारस्तं चित्रपटं देव्यै प्रदर्य जजल्पेति । 6'देवि, सुन्दरमुत्पद्यते यद्यषा कन्या लभ्यते।' तया प्रत्युक्तम् । 'देवि, निजरूपं चित्रपटे लेखयित्वायमेव 6 व्यावृत्त्य प्रेष्यतां, यथावन्तीपतिस्तद्दष्टा स्वयमेव दुहितरं ददाति ।' कुमारेणोक्तम् । 'प्रमाणमेतत।' ततस्तेन चित्रकृता चित्रपटः कामगजेन्द्ररूपसमन्वितोऽवन्तीभर्तुः पुरो दर्शितः तेनापि सुतायै दर्शितः। तमालोक्य जातानुरागां तां विज्ञाय राजा जगाद । 'युक्तमेतद्य दियं पुरुषद्वेषिणी ततोऽन्यं कुमारं 9 नाभ्यलषत् । सांप्रतं तु विधिप्रज्ञाप्रकर्षकशपट्टायमाने ऽस्मिन् कुमाररूपे भृशमनुरक्ता । ततो ऽस्या अयमेव वरो युक्तः।' इति ध्यात्वा राज्ञा तस्मै कुमाराय दुहिता दत्ता। 12६२४) ततः पित्रादेशेन कुमारो वल्लभया समं स्कन्धावारेण च चलितः। ततो ऽस्तपर्यस्त-12 किरणदण्डे चण्डरोचिषि निशाप्रथमयामार्धे प्रियया समं सुष्वाप । एवं द्वितीये यामे कस्याप्यपूर्व कोमलकरतलस्पर्शन विबुद्धः सन् कुमारो व्यचिन्तयदिति । 'यदीदृशः स्पर्शो नानुभूतपूर्व इति । 15 सर्वथायं मनुष्यस्पर्शी न भवति' इति चिन्तयता कुमारेण पुरस्त्रिभुवनाश्चर्यकारि रूपहारि कन्याद्वयं 15 निरीक्ष्य भणितम् । 'यद्भवत्यो मानुष्यो, किंवा देव्यो, ममात्र महत्कौतुकम् ।' ताभ्यामुक्तम् । 'आवां विद्याधी भवतः पार्श्वे केनापि हेतुना समायाते स्वः, परमावयोर्भवता परोपकारिणा प्रार्थना वृथा न . 18 कार्या।' कुमारेणोक्तम् । 'निवेद्यतामहं दुस्साध्यमपि भवत्कार्य साधयिष्ये ।' ताभ्यामुक्तम् । 'देव, 18 शृणु । अस्ति कुबेरदिग्भागे वैताढ्यः पर्वतः। तत्रोत्तरदक्षिणश्रेण्यौ विद्यते । उत्तरश्रेण्यां सुन्दरमानन्दमन्दिरं नाम नगरम् । यत्कीदृशं, बहुसौवर्णमन्दिरं बहुपुरुषसेवितं बहुजलाशयपरिगतं बहुकुमुदोप21वनम् । तत्र पृथ्वीसुन्दरः क्षमानेता। तस्य देवी मेखलाभिधा। तत्कुक्षिसंभवा बिन्दुमती कन्या। सारी च सुन्दरावयवाभङ्गभाग्यसौभाग्यभूमिका चारुचातुर्यकरण्डिका पुरुषद्वेषिणी। सा च वयोविभवकलाकलापपरिकलितेभ्यो ऽपि विद्याधरकुमारेभ्यः कदापि न स्पृहयति । ततः सा यौवनस्था गुरुजनेन 24 जल्पितेति । 'वत्से, स्वयंवरं वरं गृहाण।' तदाकये तयावां भणिते । 'यदि, सख्यौ युवा भणथस्तदैकदा 24 दक्षिणश्रेण्यां भवतीभ्यां सह परिभ्रमामि' इति । आवाभ्यामप्युक्तम् । 'एवं भवतु' इत्युदित्वा गगनतलमुत्पत्य गिरिवरकाननान्तरे वयमवतीर्णाः । तत्र क्रीडन्तीभिरस्माभिः किंनरमिथुनमेकं कामगजेन्द्र37 कुमारस्य गुणग्रामगानं कुर्वाणं समाकर्णितम् । प्रियसख्योक्तम् । 'सखि, पवनवेगे, अग्रतो भूत्वेदं पृच्छ,27 क एष कुत्रत्यो वा कामगजेन्द्रकुमारः, यस्याधुना गीतमुद्गीतम् । ततस्तया किंनर्या निवेदितम् । 'विद्याधरबाले, कामगजेन्द्रः स कदापि न दृष्टः श्रुतश्च न । तर्हि यदि तेन कार्य तदमुं किंनरं पृच्छ ।' 30 तेन भववृत्तान्तः सर्वोऽपि कथितः। तदिदं श्रुत्वा तया बिन्दुमत्याः पुरो गदितम् । तदाकर्णनेन 30 तदिनादारभ्य बिन्दुमती तुहिनक्लिष्टा कमलिनीव प्रियवियुक्ता राजहंसिकेव मन्त्राहता भुजङ्गीव नि:श्रीका निर्वचना निःप्रसरा तनोत्यालेख्यम्, न शृणोति गीतं न वादयति वीणां, केवलं मत्तेव ग्रहगृहीतेव 33 मृतेव जाता। सखीभिर्भाषितापि सा किमपि नोत्तरं ददाति । मया ज्ञातं यदेतस्याः कामगजेन्द्र एव 33 ध्याधिनिदानम् । अतोऽमुष्यास्तत्संगम एव महौषधम् । यतोऽग्निदग्धानामग्निरेवौषधं विषक्लान्तानां विषमेव । इति विचिन्तयन्त्या मया भणिता मानवेगा। 'वयस्ये अमुष्याः कामगजेन्द्र एव चिकित्सकः।' 36 तत आवाभ्यां भणितम् । 'प्रियसखि, विश्वस्ता भव' तथा करिष्यावः, यथा तं कुमारमानीय तव 38 व्याधिमपनेष्यावः।' तयोक्तम् ।' 'तदानयनाय युवां वजथः।' २५) तयेत्यावां प्रतिपद्य तस्मिन्नपि गिरिकुहरशिलातले कमलकोमलदलविरचिते सस्तरे तां 39 बिन्दुमती विषादं कुर्वन्तीं निवेश्य प्रचलिते, परं न जानीवः कुत्र सा पुरी यत्र त्वं भवसि, कुत्र भवान् 39 प्राप्य इति । एतदर्थपरिशानाय भगवती प्राप्ती समाराधिता। ततस्तया प्ररूपितम् । 'यथैष कुमार उज्जयिन्यां गच्छन् वनान्तरे रचितशिबिरसंनिवेशः सांप्रतं तिष्ठति ।' एतन्मत्वावां भवदन्तिके समा42 याते। अतः परं सांप्रतं देव, तवायत्तं प्रियसख्या जीवितमिति मा विलम्बस्व त्वरितमेवोत्तिष्ठ यदि 42 3) मुविभक्तिवर्णोप. 12).B has a marginal note on अस्तपर्यस्त etc. : अस्तस्थाने पर्यस्तः पतितः किरणदंडो यस्य स तथा 1. 13) Pom. चण्ड, P प्रियासमं. 27) P सखे पवन. 32) Badds न after निःप्रसरा. 34) PB औषधं for महौषध. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394