Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
*66
रत्नप्रभसूरिविरचिता _ [III. $ 65 : Verse 4161त्रिभुवने ऽपि माति स्म । तत्र राजकुले विवाहभोजनार्थे धान्यान्यानीयन्ते । क्रियन्ते विविधानि 1 पक्कान्नानि । विरच्यन्ते सर्वत्र मण्डपमञ्चप्रपञ्चाः । रच्यन्ते वेदिकाः । प्रेष्यन्ते लेखवाहाः सर्वेषां स्वजनराजन्यानाम् । निमन्यते सर्वत्र बन्धुवर्गः । भूष्यन्ते भवनानि । घट्यन्ते नानाविधान्याभरणानि । 3 शोध्यन्ते नगरीरथ्याः।
६६६) एवं विवाहारम्भकृत्यप्रवृत्तस्य जनस्य निधिलाभक्षण इव सौभाग्यनिर्मित इवोपयमदिवसः 6 समागमत् । तस्मिन् दिने ऽविद्धमौक्तिकचारुचतुष्कस्थापितप्रामुखासने निवेश्य कुमारं कुलवृद्धा मङ्गल- 8 सानमकारयत् । ततः स गोशीर्षचन्दनविलिप्ताङ्गःप्रावतकारकश्वेतसदृशवसनः सिद्धार्थगोरोचनातिलका कण्ठावलम्बितसुरभिकुसुमदामा महेन्द्रेण राजलोकेन चानुगम्यमानो जयकुञ्जरकुञ्जराधिरूढः प्रौढजनाशन्वितो दक्षिणकरकमलाबद्धकौतुकमदनफलः स्तुतिवातस्तूयमानगुणग्रामः प्रचुरमृदङ्गशङ्खपणववेणु- 9 वीणास्वरमुखरितदिकचक्रवालो धृतसितातपत्रः पुरः प्रवर्तमानप्रेक्षणक्षणः क्षणेनोद्वाहमण्डपमलंचकार ।
ततश्च स प्रावृतसितचीवराया माङ्गल्याभरणभूषितायाः कुवलयमालाया लग्नवेलायां द्विजवरेणोपढौकितं 12करं करेण जग्राह । ततो ऽविधवा गीतं गातुं प्रवृत्ताः । वादितानि तूर्याणि । निःस्वानस्वनाः प्रसनुः।12 पूरिताः शङ्खाः । आहता झलर्थः। वेदोच्चारपरायणा द्विजन्मानो मङ्गलपाठकाः पठन्ति । जयजयारवपरो लोकश्च । ततःप्रवर्तितं मङ्गलचतुष्टयम् । ततो निर्वृत्ते पाणिग्रहणमहोत्सवे पूजिते गुरुजने कृते समस्त16करणीये स्वस्थाने समेत्य विविधरत्नविद्रमनिर्मिततलिने गङ्गापुलिन इव राजहंसयुगलं कृतमङ्गलोपचारं 16 तन्मिथनमुपविष्टं दृष्टा परिवारः सखीजनश्च मन्दं मन्दं निस्ससार। तत्रस्थस्य तस्य निद्रासुखमनुभवतः
क्षणदा क्षणमिव क्षयमियाय । ततः प्राभातिकतर्यरवप्रतिबोधितः कुमारः कृतदेवाधिदेवनमस्कृतिनित्य18 कृत्यमकरोत् । तत्रान्यदा कुमारो हिमगिरिशिखरसमानं स्वसौधमारुह्य दक्षिणपक्षप्राकारप्रत्यासन्नं रत्ना-18
कर निरीक्ष्य क्षणं व्यावयन् मात्राक्षरबिन्दुच्युतकप्रश्नोत्तरक्रियागुप्तककाव्यकथाविनोदैश्च कुवलयमालया समं प्रीतिपरस्तस्थौ। अत्रान्तरे कुवलयमालया विज्ञप्तम्। 'देव, त्वया मवृत्तान्तः कथं परिज्ञातः।' 21 ततः कुमारेण सविस्तरमयोध्यातो यापहाराचं मुनिनिवेदितचण्डसोममानभटमायादित्यलोभदेवमोह-21 दत्तपञ्चजनपूर्वभवगाथापूरणपरिणयनपर्यन्तं सर्वमपि प्रोचे। प्रिये, ऐहिकसुखमूलं विवाहकर्म वृत्तम् । संप्रति पारत्रिकसौख्यप्रदं सम्यक्त्वमाद्रियस्य । यतः,
चिन्तामणिः श्रितःप्राणिस्वान्तचिन्तितमात्रदः सम्यक्त्वं सर्वजन्तूनां चिन्तातीतार्थदं पुनः॥४१६4 तावदेव तमस्तोमः समस्तो ऽपि विजृम्भते । यावत्सम्यक्त्वतिग्मांशुरुदेति न हृदम्बरे ॥४१७
सदृष्टिदृष्टिहीनोऽपि यः सम्यक्त्वविलोचनः । श्रुतिविश्रान्तनेत्रोऽपि सो ऽन्धो यस्तद्विवर्जितः॥४१८ यदि ते स्मृतिमेति सांप्रतं दयिते पूर्वभवः स्वचेतसि । तदवश्यमिदं जिनेशितुर्वचनं निवृतिशर्मदं श्रय ॥४१९ श्रुत्वेति तस्य वचनं किल सा जगाद नाथ त्वमेव शरणं सुगुरुस्त्वमेव ।
देव त्वयाखिलपुरातनजन्मजल्पात् सम्यक्त्वभाजनमहं घिहिता यदद्य ॥४२० इत्याचार्यश्रीपरमानन्दसूरिशिष्यश्रीरत्नप्रभसूरिविरचिते श्रीकुवलयमालाकथासंक्षेपे श्रीप्रद्युम्नसूरिशोधिते कुवलयचन्द्रकुमारवनपरिभ्रमणविजयापुरीगमनजयकुञ्जरहस्तिवशीकरणसमस्यापूरण
कुवलयमालापरिणयनसम्यक्त्वोपदेशप्रभृतिवर्णनस्तृतीयः प्रस्तावः ॥ ३॥
[अथ चतुर्थः प्रस्तावः ] 36_ १) अथ श्रीदृढवर्मणो नृपतेर्लेखवाहः प्रतीहारनिवेदितः प्रविश्य कुमार प्रणिपत्य लेखं पुरो38 विमुच्य विज्ञपयामासेति । 'देव, श्रीतातपादा भवन्तमाकारयन्ति ।' ततः कुमारः पूर्वं लेखं प्रणम्योन्मुन्य
च स्वयं वाचयामास । 'स्वस्त्ययोध्यापुरीतो महाराजाधिराजश्रीदृढवर्मदेवो विजयापुर्यां पुत्रं दीर्घायुषं 99 कुवलयचन्द्रकुमार महेन्द्रसमन्वितं साञ्जसंगाढमालिङ्ग्य समादिशति, यथा 'अत्र तावत्तव दुःसहविर- 39
2) P रच्यते वेदिका. 7) P ततः स विलिप्तांग:- 9) स्तुतेिवत'. ll) 'भूषिताया वेदिकामध्यमध्यासीनायाः कुवलय. 14) P निवृत्ते. 15) P B om. स्वस्थाने समेत्य. 16) FB om. निद्रासुखमनुभवतः. 17) Binter. क्षणदा क्षणमिव. 18) B दक्षिणपक्षे. . 38) Bom, पुत्रं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394