Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 374
________________ -IV. § 8 : Verse 19 ] कुवलयमालाकथा ४ ☐ 69 1 थानतो निष्क्रान्तः । ततो हाहारवमुखरो वयस्यवर्गः परिजनश्च सिंहनरेश सकाशमुपागमत् । तेन देवेन 1 ततः प्रदेशतोपहृत्यात्र निर्जने वने मुक्तो ऽस्मि । सांप्रतं पुनः कमप्याचार्य मृगयासि यदन्तिके तपस्त'नोमि । इदं निशम्य कुमारेणोक्तम् 'अहो, महाविस्मयकारी वृत्तान्तः । ततो महेन्द्रेण सम्यक्त्वं गृहीतम् । कुमारो ऽपि महेन्द्रकुवलयमालाभ्यां सममावासमागत्य कृतकृत्यः शर्वर्यामस्वाप्सीत् । ततः पुनरपि निर्मले गगनाङ्गणे तिरोहितेषु तारानिकरेषु समुदिते दिनेशे कुमारः प्रदत्तप्रयाणकः क्रमेण 6 विन्ध्यगिरिकान्तारासन्नं समावासितः । तत्र स कुमारः कृतदिवसरात्रिककृत्यः कुवलयमालया समं 6 पल्यङ्के प्रसुप्तः । ६७) ततो निशीथे यावजागर्ति तावद्विन्ध्यगिरिशिखरकन्दरान्तरे ज्वलनं ज्वलन्तं विलोक्य 'विकल्पमालाकुलः समजनि । 'अहो किमेतत् किं तावदेष वनदवः, किमुतान्यत् । अत्र च पार्श्वेषु 9 परिभ्रमन्तः केऽपि पुरुषा दृश्यन्ते । किं वा राक्षसाः, पिशाचा वा । ततो ऽग्रतो भूत्वा सम्यग् निभालयामि किमेतज्वलति के पते पुरुषाः ।' इति विचिन्त्य सुचिरं निभृतपदं समुत्थितः कुमारः कुवलय12 मालां तलिने सुप्तां विमुच्य स्वीकृतखङ्गरतव सुनन्दकः कटीतट निबद्धथुरिकः प्राहरिकान् वञ्चयित्वा गन्तुं 12 प्रवृत्तः । ततस्तेन ज्वलनान्तिके धातुवादवाती वितन्वतः पुरुषान् विलोक्य चिन्तितम् । 'यदमी धातुषादिनः किमेतेषामात्मानं प्रकटीकरोमि किं वा न कदाचिदेते वराकाः कातरहृदो ऽमी दिव्य इति मां 15 संभाव्य भयभीता नक्ष्यन्ति विपत्स्यन्ते वा, तदिह स्थित एव तेषां वाचः श्रोष्यामि' इति । तदा तत्र 15 तैरपीत्युक्तम् । 'यदद्य कल्कः सर्वो ऽपि विघटितस्तावदिदानीं करणीयं किम् इति । किमत्रापरः कार्यः' इति वदन्तश्चलिताः । कुमारेण भणिताः 'भो भो नरेन्द्राः, किं व्रजत ।' तैरित्युक्तम् । 'भवतो भयेन ।' 18 कुमारेण भणितम् । 'कथं भवतां भयम्, अहमपि भवन्मध्यवर्ती नरेन्द्रः, ततः सर्वमपि निवेद्यताम् ।'18 ततस्तैर्जल्पितम् । 'अहोरात्रं यावदस्माभिः सुवर्णभ्रान्त्याध्यातं परं सर्वमेव भस्मीभूतम् ।' ततः साहसमवलम्ब्य कुमारेण देवगुरुचरणस्मरण प्रवीणान्तःकरणेन तेषां पुरस्तेनैवोषधयोगेन सुवर्ण निरमायि । 21 सर्वैरपि तैः प्रमुदितैर्विशप्तम् । 'देव, अद्यप्रभृति भवानेवास्माकं गुरुः । वयं तु तव शिष्या एवातो विद्या- 21 दानप्रसादो विधेयः ।' कुमारेण तत्प्रणीतभक्तिपरीतचेतसा योनिप्राभृतग्रन्थप्रयोगाः कत्यपि कथिता - स्तेषाम् । कुमारेण प्रोक्तम् । 'व्रजाम्यहं स्वस्ति भवद्भ्यः । यदा कदाचिद्यूयमयोध्यायां कुवलयचन्द्र भूपर्ति 24 शृणुत तदा सत्वरमेव समागन्तव्यम्' इति वदन् कुमारः कटकसंनिवेशे कुवलयमालाया विबुद्धायाः 24 कुमारादर्शनेन महद्दुःखं दधत्याः पुरः संप्राप्त एव । ततस्तया प्रमुदितया प्रोक्तम् । 'देव, कुत्र गता भवन्तः । ततः कुमारेण धातुवादिवृत्तान्तं सर्वमपि निवेदितम् । ततो निःश्वासनिःस्वनपटुपटहरवम27 पाठक पठितादीनि विभातविभावरी चिह्नानि मत्वा कुमारेण भणितम् । 'अये प्रिये, प्रभातप्राया रजनि - अ रजनि । क्षपापतिरपि क्षपित किरणगणः । चरणायुधसंहतिरपि मन्दं मन्दं रौति च । सांप्रतं देवगुरुबान्धवकार्याणि क्रियन्ते' इति वदन् कुमारो निर्मलजलक्षालितवदनकमलः श्रीमति गृहचैत्ये प्रविश्य 30 देवाधिदेवमेवं स्तोतुमारेभे । 'सुप्रभातं जिनेन्द्राणां धर्मबोधविधायिनाम् । सुप्रभातं च सिद्धानां कर्मैघघनघातिनाम् ॥ १७ ॥ सुप्रभातं गुरूणां तु धर्मव्याख्याविधायिनाम् । सुप्रभातं पुनस्तेषां जिनस्तवप्रदर्शिनाम् ॥ १८ ॥ 38 सुप्रभातं तु सर्वेषां साधूनां साधुसंमतम् । सुप्रभातं पुनस्तेषां येषां हृदि जिनोत्तमः ॥ १९ ॥ 33 (१८) एवंविधां स्तुतिं विधाय कुमारः करिवरारूढः सुखासनाधिरूढया कुवलयमालया सम विविधतुरगखुरखुराविदारितमहीतलसमुच्छलद तुच्छरे णुनि कर परिपूर्यमाणसकल दिग्मण्डलमुखनिरुद्ध38 दिनकर प्रसरजात दुर्दिन शङ्कासहर्ष शिखण्डिताण्डवितकलाप भ्राजमानेन वनान्तरेण संचचार । ततो 98 ऽनवरतदत्तप्रयाणकः कुमारो ऽयोध्यापुरीपरिसरमलं चकार । तमायान्तं श्रुत्वा तदात्वाधिकप्रमोदवशसमुल्लसद्रोमाञ्चकवचितः क्षितिपतिः सपरिजनः सान्तःपुरः कुमारसम्मुखमाजगाम । ततः स्वदर्शन99 मात्रेणैव दृढवर्म महीपतिः कमलबन्धुरिव कमलाकरं कैरवबन्धुरिव कैरवसंचयं घनाघन इव घनसुहृत्सं- 99 मधुर पिकनिकरं तं कुमारं भृशं प्रमुदितमानसमातत । ततो द्वावपि स्नेहभरपरवशमानसौ बाष्पाविललोचनौ बभूवतुः । ततः कुमारेण महाविनयशालिना पितृमातृचरणद्वन्द्वमद्वन्द्रभक्त्या 30 10 ) B क एते for केऽपि. 12 ) B adds प्राहरिक: before प्राहरिकान् 92 ) Pom the verse सुप्रभात गुरूणां etoy B. om. जिनस्तव eto., to पुनरतेषां in the next line obviously a haplographical skipping over by the copyist. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394