Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
*74 रत्नप्रभसूरिविरचिता
[IV. 8 17 : Verse 681 पुर्या प्रणतजनकुमुदामन्दप्रमोदकौमुदीशस्य शत्रुजनकुञ्जरकण्ठीरवस्य सत्पथजातिकस्य काञ्चनरथस्य 1
पृथ्वीपतेरिन्दीवरलोचनाभिधानप्रणयिनीकुक्षिभवो मणिरथकुमारस्तनयः समभवत् । स च क्रमेण 3 प्राप्तयौवनो गुरुजनैः प्रतिषिद्धो ऽपि वयस्यैर्निवारितो ऽपि सद्धिर्निन्द्यमानो ऽपि कर्मोदयेन नक्कंदिवा 3 पापद्धिं कुर्वन्न विरमति । अन्यदाच तस्यारण्ये प्रविष्टस्य श्रीवर्धमानजिनः केवलज्ञानशाली जगत्रयपतिः पवित्रितत्रिभुवनतलः काकन्द्यां समवसृतः । ततश्चतुर्विधदेवनिकायः समवसरणं चके । तत्र च श्रीमहा6वीरः स्वयं गौतमादीनां गणभृतां सौधर्माधिपतेरपरस्य च सुरासुरनिकरस्य सपरिजनस्य काञ्चनरथस्य 6 नरेशितुः पुरः सम्यक्त्वमूलं धर्म द्विविधं निवेदितुमारेभे।
शङ्कादिदोषरहितं स्थैर्यादिगुणभूषितम् । पञ्चभिलक्षणैर्लक्ष्य सम्यक्त्वं शिवशर्मणे॥६८ आर्जवं मार्दवं क्षान्तिः सत्यं शौचं तपो यमः । ब्रह्माकिञ्चनता मुक्तियतिधर्मः प्रकीर्तितः॥ ६९ अहिंसादीनि पञ्चाणुवतानि च गुणत्रयम् । शिक्षापदानि चत्वारि गृहिधर्मः कुकर्महृत् ॥ ७०
६१८) इतश्चावसरं मत्वा तत्त्वानुगामिना प्रभूतजन्तुवधजातपातकाशङ्किना कृताञ्जलिना काञ्चनरथेन 12 राक्षा पृटम् । 'नाथ, मणिरथकुमारोभव्यः किमभव्यश्च' इति । भगवतादिष्टम् । 'अयं भव्यश्चरमशरीरश्च' 12
इति। नृपेण विज्ञप्तम् । 'भगवन् , यद्ययमन्तिमतनुस्ततः कथमनेकधा निषिध्यमानो ऽप्याखेटकव्यसनतो न निवर्तते, कदा पुनस्तस्य जिनधर्मे बोधिः।' तीर्थकृतोक्तम् । 'भद्र, त्वत्सूनुः प्रबुद्धःप्राप्तसंवेगरङ्ग इहैव 15 प्रस्थितः' इति । नृपेणोक्तम् । 'नाथ, केन वृत्तान्तेन तस्य वैराग्यमजायत।' जगन्नाथेन समादिष्टम् । 15 'इतो ऽस्ति योजनप्रमाणे भूमिभागे कौशाम्बं नाम वनम् । तत्र च बहवः कुरङ्गशूकरशशकसंघाताः
परिवसन्तीति मत्वा कुमारः पापर्द्धिनिमित्तमागतः । तत्र च तेन भ्रमता एकस्मिन् प्रदेशे सारयूथमा18 लोक्य कोदण्डमारोप्य यावच्छरः सजीकृतस्तावत्सर्यमपि मृगकुलं काकनाशं ननाश । परं तदैकाकिनी18 मृगी कुमारं चिरममिवीक्ष्य दीर्घ निःश्वस्य निष्पन्दलोचना संजातहृदयविश्रम्भा निःशङ्का स्थिता । तां
च तथावस्थितां दृष्या कुमारेण चिन्तितम् । 'अहो, महत्कौतुकम्, एतस्मिन् हरिणयुथे प्रनष्टे ऽपि 21 परमियं मृगी मदभिमुखं पश्यन्ती तथैव तिष्ठति' इति चिन्तयतस्तस्याभ्यासं सा समुपेयुषी। ततः21 सानेकश्वापदजीवान्तकरमर्धचन्द्रमालोक्यापि स्नेहनिर्भरहृदयेव स्थिता । ततः कुमारेण शरासनं
शरश्चाभाञ्जि। 'यो ऽपराधरहितान् जन्तूनिहन्ति स महापापी' इत्येवं चिन्तयता प्रादुर्भूतजन्तुजात24 कारुण्यमैत्रीपूरितचेतसा तेन सा हरिणी सहर्षे करतलेन पस्पृशे ।
34 यथा यथा तदनं स सरङ्गं स्पृशति स्फुटम् । तथा तथासौ जायेत बाष्पाविलविलोचना ॥ ७१ ततस्तस्या विलोकनेन कुमारस्य दग्भ्यां विकसितं सर्वाङ्गं रोमाञ्चकञ्चकः प्रससार । चेतसि परमः प्रमोदः आप्रवृत्तः । ज्ञातं यथा काप्येषा मम पूर्वसंबन्धिनीति ।
ज्ञानं मन्ये दृशोरेव नापरस्य च कस्यचित् । प्रमोदेते प्रिये दृष्टे दृष्टे संकुचतो ऽप्रिये ॥ ७२ 'जन्मान्तरे का ममैषासीत्' इति ध्यायतस्तस्य हृदि स्थितम् । अथैव तातः काकन्दी चम्पापुर्या 30 आयातः। अत्र च किल भगवान् श्रीमहावीरः समवसृतः । 'तस्य वन्दनानिमित्तं तत्राहमपि गमिष्यामि,30 येनैतद्वत्तान्तं पृच्छामि, कैषा मृगवधूः, अस्माकं जन्मान्तरे कीदृशि संबन्धे आसीत्' इति ध्यायंश्चलितः। 'स मृगी च सांप्रतं समवसरणवाह्यप्राकारगोपुरान्तरे द्वावपि वर्तेते' इति वदतस्तीर्थकृतः पुरो 33 मणिरथकुमारः समागतश्च प्रदक्षिणात्रयं दत्वा भगवन्तं नत्वा प्रपच्छेति च । भगवान् , निवेदय कैषा 33 कुरङ्गी ममोपरि परमप्रेमधारिणी।' ततो भगवान् ज्ञातकुलतिलकः सकलजन्तुसंघातबोधाय पूर्वभचं
तं तयोराख्यातुमारेभे। 36९१९) अत्रैव भरते साकेतपुरम् । तत्र नाना कान्त्या च मदनो नृपः। तत्सूनुरनङ्गः कुमारः। तत्राढयो 36
वैश्रमण इव वैश्रमणः श्रेष्ठी । तदङ्गजः प्रियंकराख्यः, स च सीम्यः सुजनः कुशलस्त्यागी दयालु: श्रद्धालुः। अन्यदा वैश्रमणेन प्रातिवेश्मिकप्रिय मित्रपुच्या सुन्दर्या सह तनयस्य पाणिग्रहणमकार्यत । 39 द्वयोरपि प्रीतिमहती जाता। परस्परं स्तोके ऽपि विरहे तन्मिथुनं सोत्सुकचित्तं भवति । अन्यदा च 39
भवितव्यतयापटुतरशरीरे प्रियंकरे सा सुन्दरी बहुतरशोकशङ्कव्यथिता न भुनकिन नाति न जल्पति न गृहकृत्यं करोति, केवलं संभावितदयितपञ्चताधिकाभ्यन्तरतापलोचनप्रवर्तमानबाष्पजललवा विषीदन्ती 42 स्थिता । ततस्तथाविधकर्मसंयोगेन क्षीणे प्राणिते प्रियंकरः परलोकमियाय । ततस्तं मृतं विलोक्य 42
27
11) तत्त्वातत्त्वानुगामिना. 14) F सबुद्धः for प्रबुद्धः 21) Pतिष्ठत इति. 22) स्नेहमरनिर्भर (भर added on the margin). 23) PB शरश्वाभाजि. 31) om. अस्माकं 37) B inter. वैश्रमणः & श्रेष्ठी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394