Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
-IV. § 17 : Verse 67 ]
कुवलयमालाकथा ४
* 73
1 पुलिनकल्पात्तल्पादुत्थाय कुवलयमाला पतिं प्रति प्रोवाच । 'एतावतीं वेलां यावद्गोस्वामिना किं चिन्ति- 1 तम् ।' राशा जल्पितम् । 'पृथ्वीसारं कुमारं राज्ये निवेश्य प्रव्रज्याग्रहणेनात्मानं साधयिष्ये' इति । तया 3 प्रोक्तम् । 'यदा विजयापुर्या आवां निःसृतौ तदा प्रियेण प्रवचनदेवता विशप्ता, यदि भगवति जीवन्तं तातं 3 परिपश्यामि राज्याभिषेकं च प्राप्नोमि ततः पश्चात्तनुजं राज्ये निवेश्य व्रतं गृह्णामि, ततो देवि शकुनोत्तमं विधेहि' इत्युदिते केनचिन्नरेणातपत्रमुपढौकितम् । ततः स्वामिना जल्पितम् । 'दयिते, प्रकृष्टमेतच्छकुनं 6 सर्वापि संपत्तिः संततिश्चास्माकं भाविनी' इति तत्सत्यं जातम् । सांप्रतं प्रव्रज्यापालनस्यानुध्यानं ततो 6 युक्तमेव । ततस्तयाभ्यधायि । 'धर्मस्य त्वरिता गतिः', अतो देव, कथं विलम्बः, त्वरित मेवात्महितं वितन्यते ' । राक्षोक्तम् । 'देवि, यद्येवं ततः कुत्रचिडुरवो विलोक्या येन यथा चिन्तितं प्रमाणपदवीमध्यारोहति ।' 9 ९ १६ ) ततः प्राभातिकं कृत्यं विधाय भूनायकस्तत्रैव दिने पृथ्वीसारं कुमारं राज्ये ऽभिषिच्य द्वितीय- 9 दिवसे शिरोगृहासनस्थौ नभोमध्यमध्यासीने नभोमणौ साधुयुगलं भिक्षार्थे भ्रमन्तं रथ्यामुखे वीक्ष्य प्रासादादुत्तीर्य सुखासनाधिरूढः कियजनावृतो गत्वा प्रणिपत्य प्रोवाच । युवयोर्निरामयः कायः ।’ 12 साधुभ्यामुक्तम् । 'कुशलमावयोर्गुरूणां चरणस्मरणप्रवीणान्तःकरणयोः' । राज्ञोक्तम् । 'गुरूणां किमभि- 12 धानम् ।' ताभ्यामुक्तम् । 'इक्ष्वाकुवंश्यः प्राप्तगुरुविनयस कलशास्त्रार्थः कन्दर्पदर्पसर्पस परिर्दर्पफलिकाख्यो गुरुः ।' राशोक्तम् । 'भगवान्, किमु स अस्मत्संबन्धी रत्नमुकुटस्य राजर्षेः पुत्रो दर्पफलिकः, किं 15 वापरः' इति । साधुभ्यामुक्तम् । स एव' । राज्ञा भणितम् । 'कस्मिन् स्थाने तिष्ठन्ति' । ताभ्यामुक्तम् 115 'राजन्, संसारमरुतरवस्ते गुरवः प्रधाने मनोरमोद्याने समवसृताः सन्ति' इत्युदित्वा मुनियुगलं विचर्य स्वस्थानमाजगाम । नृपतिरपि प्रासादमासाद्य कुवलयमाला महेन्द्रस्य च पुरो वृत्तान्तं सर्वमपि 18 निवेदयामास । अथ स चैवास्मद्धाता दर्पफलिकः संपन्नाचार्यपदः समवसृतः । ततः कुवलय चन्द्रः कुवलयमालया महेन्द्रेण च समं मनोरमोद्याने समागत्य भगवन्तं दर्पफलिकं प्रणिपत्य पप्रच्छ । 'तदा भगवन्, भवन्तश्चिन्तामणिपल्लीतो निःसृत्य कस्य गुरोरन्तिके प्रत्रजिताः । ततो भगवानु21 वाच | 'महाराज, तदा ततो निर्गत्य मया श्रीभृगुकच्छं गतेन मुनिरेको दहशे' । तेन 21 मुनिना प्रोक्तम् । 'भो दर्पफलिक राजपुत्र, मामभिजानासि ।' मयोक्तम् । 'भवन्तं सम्यग् नोपलक्षये ।' तेनोक्तम् । 'केन तव तच्चिन्तामणिपल्लीराज्यं दत्तम् ।' मयोक्तम् । 'भगवन् किं भवान् सः ।' तेनोक्तम् 24 'एवमेव' । मयोक्तम् । 'यथा तदा त्वया राज्यं दत्तं तथा संप्रति संयमराज्यदानेन प्रसादं तनु | 24 तेनोक्तम् । 'यद्येवं ततः कथं विलम्बः ।' तदा तेन मुनिना व्रतं दत्तम् । तेन सह विहारं कुर्वाणो ऽयोध्यायामागतवान् । तत्र च तव पिता दृढवर्मा तदन्तिके निष्क्रान्तः । स च मम गुरुस्तव जनकश्चोत्पन्न27 केवलशानौ सम्मेतशैलोपरि द्वावपि सिद्धिपदमीयतुः । अहं पुनर्भवत्प्रतिबोधाय समागमम् ।' तत एवं 7 पिशुनसंगतिमिव लीलावती लोचनप्रान्तमिव महाबलान्दोलितकदलीदलमिव शरत्समयघनाघनपटलमिव सुरेश्वरशरासनमिव चपलस्वभावं पदार्थजातं परिज्ञाय तत्पदान्ते कुवलयचन्द्रः कुवलयमालया 30 महेन्द्रेण च समं वतं जग्राह । कुवलयमालाप्यागमानुसारेण तपस्तत्वा सौधर्मे नाके सागरोपमद्वय - 30 स्थित्यायुस्त्रिदशः समभवत् । कुवलयचन्द्रो ऽपि समाधिना विषद्य तत्रैव विमाने तत्प्रमाणायुः समुदपद्यत । सिंहोऽप्यनशनकर्मणा तत्रैव देवो जातो ऽस्ति । स च भगवानवधिज्ञानी सागरदत्तमुनिॐ मृत्वा तस्मिन्नेव स्थाने सुरः समजायत ।
18
§ १७) अथ पृथ्वीसारः कियत्कालान्तरं राज्य सुखमनुभूय विरचितमनोरथादित्यनामतनुजराज्याभिषेकः संसारमहाराक्षसभयभ्रान्तस्वान्तः परिज्ञाय भोगान् भोगिभोगोपमान् गुरूणां चरणमूले प्रव्रज्य 36 कृतधामण्यः प्रदत्तमिथ्यादुष्कृतः पञ्चत्वमवाप्य तत्रैव विमाने सुधाशनो ऽजनिष्ट । एवं ते पञ्चापि तत्रैव 36 वर विमाने कृतसुकृताः समुत्पन्नाः । परस्परं ते विज्ञातपूर्व निर्मितसङ्केता जल्पितुं प्रवृत्ताः । 'दुस्तरं संसारrana पूर्व तथाधुनापि सकलसुरासुरनरसिद्धि सुखदायिनि भगवत्प्रणीते सम्यक्त्वे यत्न 39 एव कार्यः । इतोऽपि च्युतैरात्मभिः पूर्ववत्प्रतिबोधपरैः परस्परमेव भाव्यम् ।' तथेति प्रतिपन्ने तैस्तेषां 39 कालो व्यतिक्रामति ।
33
अथ जम्बूद्वीपे दक्षिणभरते ऽस्यामेवावसर्पिण्यां युगादिजिनादितीर्थनाथेषु मोक्षं गतेषु सत्सु 42 ततः समुत्पन्ने चरमजिने श्रीमहावीरे पूर्व कुवलयचन्द्रदेवः स्वमायुः परिपाल्य स्वर्गतयुत्वा काकन्दी - 42 2 ) B पृथ्वीसारकुमारं 4 ) B पश्यामि for परिपश्यामि P प्राप्नोति for प्राप्नोमि . 5 ) P यदि ते for दयिते. 18 ) P B जगाद for निवेदयामास 36 ) P मिथ्यादुः कृतः संसारमहाराक्षसभयत्रांतस्वांतः परिज्ञाय भोगोपमान । गुरूणां चरणमूले पंचत्वमवाप्य तत्रैव वरविमाने कृताः समुत्पन्नाः। 37 ) B दुरुत्तरं दुस्तरं.
1) PB om. पतिं प्रति
10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394