Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 359
________________ 12 रत्नप्रभसूरिविरचिता [III. 42 : Verse 3391 प्रणिपत्य प्रोचतुः 'भगवन् , निवेदय सा का।' इत्याकर्ण्य भृगुभूपेन जनैश्च विक्षप्तम् । 'भो विद्याधरौ, सा 1 पुनः का ।' ततस्ताभ्यामुक्तम् । 'कदाचिद्वैताढ्यपर्वतात् सम्मेतशैलशिखरोपरि तीर्थकृतः प्रणिपत्य धीशत्रुञ्जयपर्वतमहातीर्थे प्रति गच्छद्भ्यामावाभ्यां विन्ध्यगिरिविनिर्गतनर्मदादक्षिणे तटे मृगयूथमार्गानु-3 गामिनीमेकां कामिनीमालोक्य चिन्तितम् । 'अहो, महदाश्चर्य मृगयूथेन सह कामिनी भ्रमति। तत्र कौतुकेनावामवतीर्णी, आवाभ्यामाभाषिता च सा । 'हे बालिके, भीमे ऽरण्ये निर्मानुषे कथमेकाकिनी 6भवती, कुतो वा समागता।' सा किंचिन्न जल्पति, प्रत्युताधिकतरमपससार । तत आवयोः पश्यतोरेव 8 तन्मृगयथं सा चारुलोचना च दर्शनादर्शनत्वमियाय । आवाभ्यां तदाश्चर्यमालोक्य को ऽप्यतिशयशाली मुनिः प्रष्टव्यः' इति ध्यायया भवानेवात्र दृष्टः। ततः पृष्टम् । 'मुनीश्वर, का पुनः सा। ततः स स्वयं 9 केवलज्ञानशाली जल्पितुमारेमे।। 'अस्त्यवन्तीपुरी रम्या सदा नाकविराजिता । पुरी गरीयसी लक्ष्म्या सदाना कविराजिता ॥ ३३९ बभूव भूपतिस्तत्र प्रजापालनलालसः। श्रीमान् वत्साभिधः कान्त्या प्रजापालनलोपमः ॥ ३४० यस्य प्रतापवशतोऽरिनरेश्वराणां दन्तीन्द्रगण्डविगलन्मदवारिशोषः। कामं तदीयवनितानयनाम्वुपूरपोषः समं समभवञ्च तदत्र चित्रम् ॥ ३४१ अभूत्तनूभवस्तस्यानूनसंवित्तिवैभवः । पुरंदरसमस्थामा नाम्ना श्रीवर्धनाभिधः॥ ३४२ तथा श्रीमतीति तत्सुता च । तां विजयपुरस्वामिनो विजयनराधिपस्य तनुजः सिंहः पर्यणैषीत् । 15 सच यौवनप्राप्तः 'सर्वदैवानयाध्वनीनो ऽसद्ययी' इति परिक्षाय राज्ञा निर्विषयीचके । ततः सिंहः स्वां प्रियां गृहीत्वैकस्मिन् पर्यन्तग्रामे ऽतिष्ठत् ।। 18६४३) इतश्च कालान्तरेण स श्रीवर्धनराजपुत्रो धर्मरुचिमुनेरन्तिके ऽन्तेवासी भूत्वा कियतापि 18 कालेनाधिगतश्रुतः स्वीकृतैकाकिविहारिप्रतिमस्तत्र विहारमकरोद्यत्र स भावुको भगिनी च । अन्यदा स भगवान् मासक्षपणपारणायां क्षामतनुरतनुतपोनिधिस्तस्या एव स्वसुर्वेश्मनि भिक्षार्थ प्रविवेश । तया 21 दूरत एव भ्रातरमुपलक्ष्य चिन्तितम् । 'यदयं केनापि पापण्डिना विप्रतार्य प्रवाजितः। ततस्तया स्नेहभर-21 निर्भरहृदयया चिरभ्रातृदर्शनोत्कण्ठया मुनिरालिलिङ्गे । ततस्तत्पतिना तदात्वं बाह्यागतेन तच्चेष्टित मालोक्य कोपपरवशमनसा मुनिनिहतः। तया तत्पल्या 'भ्राता मम हतो ऽनेन पापिना' इति ध्यात्वा 24 पतिरपि काष्ठखण्डेन विनाशितः। तेन म्रियमाणेन तेनैव काष्ठखण्डेन प्रियापि भिन्नशीर्षा व्यधायि। 24 स च सिंहः स्वभावत एव क्रोधनो महामुनिघातसंजाताघसंघातेन रत्नप्रभायां रौरवे नरकावासे सागरोपमस्थिति:रयिकः समुत्पेदे । सापि तस्य मुनेः स्वसा भ्रातृस्नेहमूर्च्छिता तत्क्षणोत्पन्नक्रोधा 27 निहतपतिजातप्रभूतपापा तत्रैव नरकप्रस्तरे समजनिष्ट । स पुनर्यतिनिर्दयं कृपाणप्रहारव्यथितो ऽपि27 समाधिना विपद्य सद्यः सागरोपमस्थितिः सौधर्म त्रिदशः समभवत् । ततश्चयुत्वात्र भृगुकच्छे नृपति र्जातः सोऽहं दृष्पश्च भवन्यामुत्पन्नकेवलः। स च सिंहो नरकादुद्धत्य नन्दिपुरे पुरे ब्राह्मणत्वमुपलभ्य 30 वैराग्यादेकदण्डीभूयाश्रमानुरूपं तपः प्रपाल्यायुषः क्षये ज्योतिप्केषु देवत्वं प्राप । तेन च को ऽपि30 केवली पृष्टः स्वपूर्वभवम् । तेन च तस्य ज्योतिष्कदेवस्य प्राग्भव उक्तः । तं श्रुत्वा समुत्पन्नातुच्छमत्सरप्रस्तमतिरिति व्यचिन्तयदिति । 'अहं तया निजप्रियतमया मारितः । सा च दुराचारा कुत्र' इति 33चिन्तयता तेन सा ततो नरकादुद्धत्य पद्मपुरे पद्मस्य भूपतेः कन्यका जातमात्रा दृष्टा । तदालोकनतस्त-33 दात्वपरिस्फुरदमर्षकम्पमानाधरेण तेन तत्रागत्य विन्ध्यगिरिवनान्तराले सा बालिका जातमात्रा समुज्झिता। सा च कर्मवशतः कोमलकिसलयव्याप्तप्रदेशे पतिता पवनेनाश्वासिता च । तदानीं च 38 भवितव्यतया तत्रैव गर्भभरवेदनार्ता वनमृगी समागता प्रसूता च। प्रसववेदनाविरामे तया मृग्या 38 निरूपितं चिन्तितं च । 'किं ममाधुना युगलकमभवत् । तत आर्जवतया स्वापत्यमिति तस्या मुखे स्तन्यं नवन्ती तामवर्धयत् ।' ततश्च सा बाला मृगयूथेन रममाणा निर्मानुषे ऽरण्ये क्रमेण यौवनमाससाद । .39 तत्र च तस्यास्तिष्ठन्त्या वननिकुञ्जानि गृहाणि, पक्षिणो बान्धवाः, वानरशिशवो मित्राणि, अशनं 39 वनफलानि, सलिलं निर्झरजलं, शयनं विशालशिलातलानि, विनयः सारङ्गकुलस्य पृष्ठिशीष कण्ड्रयनमिति । ततः सा मृगयूथसंगता मानुषं निरीक्ष्य मृगीव प्रोत्फुल्ललोचना पलायते । यद्भवस्यां पृष्टं यथा 3) r bas blank space between विन्ध्यगिरि and नर्मदा. b) PB om. आवाभ्यामाभाषिता च सा. 10) P नाकविराजिनी B has a marginal gloss thus: सह दानेन वर्त्तते सदाना । तथा कविभिः पंडितैः राजिता । पुनः किंविशिष्टा । सदा सर्वदा स्वर्गवत् शोभिता । ऽथवा सदानअकविराजिता दुःखविराजिता किंतु सदासुखिता इत्यर्थः. 17) PB गृहीत्वा कस्मिन्. 24) adds सा before प्रियापि, Pom. भिन्न. 25) B नरकवासे. 36) गर्भभार',40) B विनय सारङ्ग For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394