Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 361
________________ .56 रत्नप्रभसूरिविरचिता [III. $ 44 : Verse 3491 द्वात्रिंशद्दशनो राजा भोगी स्यादेकहीनतः । त्रिंशता मध्यमो ज्ञेयस्ततोऽधस्तान सुन्दरः॥ ३४९ ___स्तोकदन्ता अतिदन्ता ये नरा गर्भदन्तजाः । मूषकैः समदन्ताश्च ते च पापाः प्रकीर्तिताः ॥ ३५० अङ्गाष्ठयवैरायाः सुतवन्तो ऽष्ठमूलजैश्च यथैः। ऊर्दाकारा रेखा पाणितले भवति धनहेतुः॥ ३५१ । वामावों भवेद्यस्य वामायां दिशि मस्तके । निर्लक्षणः क्षुधाक्षामो भिक्षामटति रुक्षिकाम् ॥ ३५२ दक्षिणो दक्षिणे भागे यस्यावर्तस्तु मस्तके । तस्य नित्यं प्रजायेत कमला करवर्तिनी ॥ ३५३ 8 यदि स्याइक्षिणे वामो दक्षिणो वामपार्श्वके । पश्चात्काले भवेत्तस्य भोगो नास्त्यत्र संशयः॥ ३५४ संक्षेपतस्तु श्लोकेनैकेनाकर्णितव्यम् । गतेर्धन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः । स्वराद्धन्यतरं सत्त्वं सर्व सत्त्वे प्रतिष्ठितम् ॥ ३५५ ७ ६४५) इति श्रुत्वा तया भणितम् । रम्यमेतत् , परं किं त्वयामुष्य शबरस्य सुलक्षणं ज्ञातम् ।' 9 तेनोक्तम् । 'एणिके, यानि मयोक्तानि तानि सीण्यप्यस्य पुरुषस्य तनौ शुभानि लक्षणानि दृश्यन्ते । तज्जाने को ऽप्येष महासत्त्वः केनापि हेतुनायं कृतशबरवेषः प्रच्छादितस्वाभाविकरूपो विन्ध्यगिरि12 वनान्तः स्थितः । एतदाकर्ण्य शवरेण चिन्तितम् । 'अहो, पुरुषलक्षणपरिज्ञानदक्षिणः पुमानयम् ।13 तावन्न युक्तमत्र स्थातुं किन्त्वपसरणमेव श्रेष्ठम् , यावदस्मानेष न जानाति' [इति]। ततोऽभ्युत्थाय शबरः शबरी च स्वस्थानं जग्मतुः। एणिकया भणितम् । 'कुमार, तव महती दक्षता यदेष प्राप्तशबर15 वेषो ऽप्युपलक्षितः। तेनोक्तम् । 'प्रथममेव परिज्ञातः । पुनर्विशेषतो ज्ञातुमिच्छामि स्फुटं प्रकटय। 15 भणितमेणिकया। 'कुमार, विद्याधरावेतौ।' तेनोक्तम् 'तर्हि कथमेतद्वेषधारिणौ।' तयोक्तम् । एतयोर्विद्याधरयोर्भवानपि परिज्ञाता। भगवतःप्रथमतीर्थनाथस्य सेवाहेवाकिनोमिविनम्योर्धरणेन्द्रेण बह्वयो विद्या 18 दत्ताः। कियत्यो विद्याः कयापि रीत्या साध्यन्ते । सर्वासामपि पृथक् पृथक् साधनोपायः। काश्चित्पानीयमध्ये ऽमूः काश्चित् पर्वतमस्तके । काश्चित् श्मशानमेदिन्यां विद्या साध्या जितेन्द्रियैः ॥ ३५६ ततः कुमार, एतावनेन वन्येन वेषेण शाबरी विद्यां साधयन्तौ तिष्ठतः। तथैष विद्याधरः सपत्नीको 21 . वनान्तः स्वेच्छया परिभ्रमनस्ति ।' कुमारेणोक्तम् । 'कथं त्वं पुनर्जानासि, यथैष विद्याधरः।' तया भणितम् । 'न जानामि' [किंतु] मयैकदा कीरमुखतः श्रुतमेतत् । एकस्मिन् दिने स्वीकृतदुरितौषधपौष24धाहं भगवतो नाभिभवस्य पूजार्थ फलपत्रकुसुमानां ग्रहणाय वनान्तरं न गता, कीरः पुनर्गतः । स च24 मध्याह्नसमये व्यतिक्रान्ते समायातः सन् मया पृष्टः 'अद्य कथमेतावतीं वेलामतिक्रम्य भवान् समायातः । तेन निगदितम् । 'अद्य त्वं वञ्चितासि, यल्लोचनानामाश्चर्यभूतं न किमपि दृष्टिपथमवतीर्ण ते, 27 यतो द्रष्टव्यफलानि हि लोचनानि ।' ततो मयोक्तम् । 'राजकीर, त्वं कथय किं तदाश्चर्यम् ।' 27 ४६) ततस्तेन ममाने निगदितम् । 'यथाद्याहं वनान्तर्गतः। तत्र च सहसा शहतूर्यभेरीमृदङ्गभयो महानिनदः श्रुतः। ततो मया सहर्षोद्धान्तचेतसा कर्णः प्रदत्तः । कतरस्यां दिशि ध्वनिविशेषः। 30 ततस्तदनुसारेण यावद्गच्छामि तावद्भगवतो नाभिसूनोः प्रतिमायाः पुरो दिव्यं नरनारीजनं प्रणाम-30 मादधानं, तथाहार्य वाचिकमाङ्गिक सात्त्विकं चेति चतुर्विधमभिनयं वितन्वन्तं विलोक्य मया चिन्तितम् । 'पते न तावद्देवा अवश्यम्, यतो मयैकदा भगवतः केवलिनः केवलमहिमायै समेतानां देवानां 33 चरणा भूमितले न लगन्ति, लोचनान्यनिमिषाणि चैतदृष्टमासीत् । एतेषां पुनश्चरणा महीपृष्ठे लग्ना 33 लक्ष्यन्ते, सनिमिषाणि नयनानि च । तेन जाने नैते त्रिदशाः, अतिसश्रीकतया न मानुषा अपि, किंतु गगनाङ्गणचारिणो विद्याधरा इगे। 'तावत्पृच्छामि किमेतैः प्रारब्धम्' इति चिन्तयंश्चतपादपाधः क्षणं 36 निषण्णः । अत्रान्तरे यथास्थानमासीना विद्याधरनरा विद्याधर्यश्च । ततस्तेषामन्तःस्थितेनैकेन विद्याधर- 36 तरुणेनानेकरत्ननिर्मितो विमलदिव्यजलपूर्णकलशो जगृहे, तादृश एव द्वितीयो विद्याधरीणां मध्ये ऽत्यन्तरूपशोभया विद्याधबँकया च । ताभ्यां प्रमुदितचित्ताभ्यां भगवतः श्रीयुगादिभर्तुः स्नात्रं विधाय 39 समनोभिः पञ्चवर्णार्जलस्थलभवैरर्चा रचयांचके । ततस्तौ स्तुत्वा भगवन्तं धरणेन्द्रस्य नागभूपतेरा-39 राधनाविधी कायोत्सर्गमेकं द्वितीयं तदनमहिष्यास्तृतीयं शाबरविद्यया विरचय्य शरीराद्विभूषणान्युत्तार्य 4) B रूक्षिकां. 6) P स्यादक्षिणो वामपार्श्वके, B originally स्याइक्षिणे वाभो दक्षिणो वामपावके, but it is improved thus (with some marginal. addition: स्याइक्षिणे वा मस्तके वा वामपावके ।. 8) B inter. सर्व & सत्त्वे. 19) P अंब tcr अमूः, Poom. काश्चित् पर्वतमस्तके- 21) PB om. वन्येन. 23) P Bom.[किंतु], PB पौषधा भगवतो. 24) B adds गता before फलपत्र', B om. न गता, B om. स च. 26) Pom. ते. 32) केवलिमहिमायैः 35) Pom. इमे. 36) 1'नरवरा for 'नरा. 40) B शाबरविद्याया. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394