Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 367
________________ *62 रत्नप्रभसूरिविरचिता [III. $57: Verse 3971तं तादृशं कुपितं साक्षात्कृतान्तमिवायान्तं राजा कुवलयमालया सम विलोकितुं शिरोगृहमारुरोह। 1 कुमारस्य च पुरो गजं सविध एव वीक्ष्य नृपतिना समादेशितम् । 'भो भद्र, सत्वरमपसर यतस्त्वं बालः ।' इति नृपवचो निशम्य रोषारुणलोचनः कुमारः सहसा भूयसा तेजसा ज्वलन् जयकुञ्जर 3 वशीकृत्य दशनयोः पदद्वयं दत्त्वा कुम्भस्थलमलंचकार । तत्रस्थेन तेन पठितम् ।। 'कोसंबिधम्मनंदणमूले दिक्खा तवं च काऊण । कयसंकेया जाया पंच वि पउमे विमाणम्मि तदाकर्ण्य पूरितेयममुना 'समस्या' इति वदन्त्या कुवलयमालया मकरन्दगन्धलुब्ध्यागतालिमालारव- 6 मुखरितासितकुसुमवरमाला कुमारस्य योग्या प्रेषिता । तेन च कण्ठकन्दले समारोपिता। रोमाञ्चकवचितेन नृपेणोक्तम् । 'वत्से कुवलयमाले, साधु साधु वृतम्।' तावत्तत्र पूरितायां समस्यायां राजलोकेन 9 जयजयारावश्चक्रे । अहो, मनुजोऽपि कोऽप्येष दिव्यप्रभावः । ततश्च, तदुपरि परितः सुरैरदृश्यैः सुरपथतो मुमुचे प्रसूनवृष्टिः। असमगुणगणप्रमोदपूर्णैर्भवति हि भाग्यभृतां किमूनमत्र ॥ ३९७ 12९५८) अथ पूर्वोदितो दृढवर्मराजप्रतिपन्नसूनुर्मालवराजपुत्रो महेन्द्रकुमारः सहसागत्य जयकुअर-13 करिणो ऽन्तिके प्रोवाचेति । 'श्रीदृढवर्मनरेन्द्रनन्दन शशिवंशमुक्ताफल कलाकुलगृह दानशौण्ड प्रणतजनवत्सल कुमार कुवलयचन्द्र, जय जय' इति । ततः कुमारः समुपलक्ष्य महेन्द्रकुमार ज्येष्ठ 16सहोदरमिव मन्यमानः प्रीतिप्रमुदितमना जयकुञ्जरगजवरस्कन्धमारोप्य पितुर्देव्याश्च कुशलं पप्रच्छ ।15 भवानपि कुशलशाली । अथ नृपस्तत्रागतःप्रोचे 'अहो, कियन्ति चित्राणि । एकं तावदसौ सुरूपसुभगः कुम्भी द्वितीयं वशीचके दिव्यसुमप्रकामपतनं व्योम्नस्तृतीयं तथा। 18 तुर्य यत्पदपूरणं स्वदुहितुःप्रीतिः पुनः पञ्चमं षष्ठं श्रीदृढवर्मजो निखिलमप्येतञ्चमत्कारि मे ॥ ३९८ 18 यस्प्राप्यं तत्प्राप्तमेव वत्सया कुवलयमालया अस्य पुरुषसिंहस्य प्राप्त्या। पुत्रि, त्वया कृत्रिममेव पुरुषदेषित्वं प्रकटीचके। 'इयं परिणेष्यति' इति जैनवचनमपि तथ्यमासीत् । वत्स, त्वं कुञ्जरं समर्पय गजराजारोहकाणाम् । त्वं च सौधमध्यमागच्छ।' इत्याकर्ण्य कुमारो महेन्द्रकुमारेण कुमारेण समं मध्ये 21 गत्वा सिंहासनस्थं नृपं नत्वा यथोचितासने निषसाद । ततः पितुरादेशेन कुवलयमाला कुमारं सोहया दशा पश्यन्ती शुद्धान्तमध्ये गतवती।राशादिष्टम्। 'वत्स, कथ्यतां कथं भवानेकाकी कार्पटिकवेषधारी 24दरदेशान्तरमायातः।' कुमारेण प्रोचे । 'देव एव जानाति । परमद्यैव कर्मवशतः परिभ्रमन्नत्र समा-24 यातः।' राज्ञोक्तम् । 'महेन्द्रकुमार, सैष दृढवर्मतनुजो यस्यात्रागमनं त्वयास्माकं पार्श्वे पृष्टम् ।' ततः सविनयं महेन्द्रेण विज्ञप्तम् । 'देव, सत्यमेवैतत् ।' कुवलयचन्द्रेण बभाषे। 'भवतः कुतः समागमः। 27 "महेन्द्रेणोक्तम् । 'देव, श्रूयताम् । तदा भवान् वाहकेलिप्रवृत्तः समुद्रकल्लोलवाजिनापज।। 27 पश्यतो राजलोकस्य समुत्पत्य नभस्तलम् । तुरङ्गमः क्षणेनैवादृश्यमार्गमुपागतः॥ ३९९ ६५९) ततो नृपतिना सेक्कलोकेन साकं त्वत्पृष्ठतो ऽतिदूरं गतेनापि कापि भवतः प्रवृत्तिन 30 श्रुता । तत्रस्थपुरप्रदेशे तुरङ्गः पवनावर्तः पतितो मृतश्च । राजापि त्वद्वियोगेन पवनावर्तमृत्युतः । अत्यन्तं दुःखितः क्षिप्रं मूर्छितः पतितः क्षितौ ॥ ४०० अस्माभिः कदलीपत्रवातैराश्वासितो नृपः। विपाकं कर्मणो जानन्नपि व्यलपदज्ञवत् ॥ ४०१ 33 'कुमार विक्रमाधार स्फाराकार गुणाकर । अनाथं मां परित्यज्य गतस्त्वं केन कर्मणा ।' ४०२ 33 एवं बहुधा विलपन् मन्त्रिजनेन नृपतिर्बोधित इति । यथा 'पूर्व सगरचक्रवर्तिनः षष्टिसहस्रमिताः पुत्रा ज्वलनप्रभजातकोपविसर्पद्विषज्वलनज्वालावलीभिः क्षणमात्रेणापि भस्मसात्कृताः परं तेनापि 38'चेतसि शोकस्य नावकाशो ऽदायि । तन्नाथ, कुमारः केनापि देवेनापहृतो ऽस्ति, तस्यावश्यं प्रवृत्ति-36 रेष्यति । ततो देव, कातरत्वमुत्सृज्य सर्वथा धीरमार्गमवलम्बस्व' इति । ततो व्यावृत्य तत्प्रतिबोधितः क्षितिपतिःप्रासादमासदत् । 39 प्रवासो यहिनादेव कुमार भवतोऽभवत् । तदैव योगपद्येन सौख्यस्यापि वपुष्मताम् ॥ ४८३ 39 त्वद्वियोगे महादुखाजनन्यापि निरन्तरम् । गलनेत्रजलैर्भूमिर्निर्ममे पहिलाखिला ॥४०४ त्वहुस्सहवियोगाग्निज्वलज्ज्वालाभयादिव । प्रपलायितुमिच्छन्ति प्राणा देवानुजीविनाम् ॥ ४०५ 30 प ॥४०१ 1) "मिवायातं. 2) com. च. 7) Pom. कण्ठ. 20) परिणेष्यते, B inter. कु.जर & समर्पय, B गजराजमारोहकारण सौध'. 21) PB om. कुमारेण, B'मध्यं. 28) 0 नभःस्थल. 30) । ततः स्वपुरप्रदेशे 40) त्वद्वियोगे महादुखादरोदीनगरीजन:- some lines are skipped over through haplographieal mistake, the copyist's eye being led astray by a similar word, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394