________________
12
रत्नप्रभसूरिविरचिता [III. 42 : Verse 3391 प्रणिपत्य प्रोचतुः 'भगवन् , निवेदय सा का।' इत्याकर्ण्य भृगुभूपेन जनैश्च विक्षप्तम् । 'भो विद्याधरौ, सा 1 पुनः का ।' ततस्ताभ्यामुक्तम् । 'कदाचिद्वैताढ्यपर्वतात् सम्मेतशैलशिखरोपरि तीर्थकृतः प्रणिपत्य धीशत्रुञ्जयपर्वतमहातीर्थे प्रति गच्छद्भ्यामावाभ्यां विन्ध्यगिरिविनिर्गतनर्मदादक्षिणे तटे मृगयूथमार्गानु-3 गामिनीमेकां कामिनीमालोक्य चिन्तितम् । 'अहो, महदाश्चर्य मृगयूथेन सह कामिनी भ्रमति। तत्र कौतुकेनावामवतीर्णी, आवाभ्यामाभाषिता च सा । 'हे बालिके, भीमे ऽरण्ये निर्मानुषे कथमेकाकिनी 6भवती, कुतो वा समागता।' सा किंचिन्न जल्पति, प्रत्युताधिकतरमपससार । तत आवयोः पश्यतोरेव 8 तन्मृगयथं सा चारुलोचना च दर्शनादर्शनत्वमियाय । आवाभ्यां तदाश्चर्यमालोक्य को ऽप्यतिशयशाली मुनिः प्रष्टव्यः' इति ध्यायया भवानेवात्र दृष्टः। ततः पृष्टम् । 'मुनीश्वर, का पुनः सा। ततः स स्वयं 9 केवलज्ञानशाली जल्पितुमारेमे।।
'अस्त्यवन्तीपुरी रम्या सदा नाकविराजिता । पुरी गरीयसी लक्ष्म्या सदाना कविराजिता ॥ ३३९ बभूव भूपतिस्तत्र प्रजापालनलालसः। श्रीमान् वत्साभिधः कान्त्या प्रजापालनलोपमः ॥ ३४० यस्य प्रतापवशतोऽरिनरेश्वराणां दन्तीन्द्रगण्डविगलन्मदवारिशोषः। कामं तदीयवनितानयनाम्वुपूरपोषः समं समभवञ्च तदत्र चित्रम् ॥ ३४१ अभूत्तनूभवस्तस्यानूनसंवित्तिवैभवः । पुरंदरसमस्थामा नाम्ना श्रीवर्धनाभिधः॥ ३४२ तथा श्रीमतीति तत्सुता च । तां विजयपुरस्वामिनो विजयनराधिपस्य तनुजः सिंहः पर्यणैषीत् । 15 सच यौवनप्राप्तः 'सर्वदैवानयाध्वनीनो ऽसद्ययी' इति परिक्षाय राज्ञा निर्विषयीचके । ततः सिंहः
स्वां प्रियां गृहीत्वैकस्मिन् पर्यन्तग्रामे ऽतिष्ठत् ।। 18६४३) इतश्च कालान्तरेण स श्रीवर्धनराजपुत्रो धर्मरुचिमुनेरन्तिके ऽन्तेवासी भूत्वा कियतापि 18 कालेनाधिगतश्रुतः स्वीकृतैकाकिविहारिप्रतिमस्तत्र विहारमकरोद्यत्र स भावुको भगिनी च । अन्यदा स भगवान् मासक्षपणपारणायां क्षामतनुरतनुतपोनिधिस्तस्या एव स्वसुर्वेश्मनि भिक्षार्थ प्रविवेश । तया 21 दूरत एव भ्रातरमुपलक्ष्य चिन्तितम् । 'यदयं केनापि पापण्डिना विप्रतार्य प्रवाजितः। ततस्तया स्नेहभर-21 निर्भरहृदयया चिरभ्रातृदर्शनोत्कण्ठया मुनिरालिलिङ्गे । ततस्तत्पतिना तदात्वं बाह्यागतेन तच्चेष्टित
मालोक्य कोपपरवशमनसा मुनिनिहतः। तया तत्पल्या 'भ्राता मम हतो ऽनेन पापिना' इति ध्यात्वा 24 पतिरपि काष्ठखण्डेन विनाशितः। तेन म्रियमाणेन तेनैव काष्ठखण्डेन प्रियापि भिन्नशीर्षा व्यधायि। 24
स च सिंहः स्वभावत एव क्रोधनो महामुनिघातसंजाताघसंघातेन रत्नप्रभायां रौरवे नरकावासे सागरोपमस्थिति:रयिकः समुत्पेदे । सापि तस्य मुनेः स्वसा भ्रातृस्नेहमूर्च्छिता तत्क्षणोत्पन्नक्रोधा 27 निहतपतिजातप्रभूतपापा तत्रैव नरकप्रस्तरे समजनिष्ट । स पुनर्यतिनिर्दयं कृपाणप्रहारव्यथितो ऽपि27 समाधिना विपद्य सद्यः सागरोपमस्थितिः सौधर्म त्रिदशः समभवत् । ततश्चयुत्वात्र भृगुकच्छे नृपति
र्जातः सोऽहं दृष्पश्च भवन्यामुत्पन्नकेवलः। स च सिंहो नरकादुद्धत्य नन्दिपुरे पुरे ब्राह्मणत्वमुपलभ्य 30 वैराग्यादेकदण्डीभूयाश्रमानुरूपं तपः प्रपाल्यायुषः क्षये ज्योतिप्केषु देवत्वं प्राप । तेन च को ऽपि30
केवली पृष्टः स्वपूर्वभवम् । तेन च तस्य ज्योतिष्कदेवस्य प्राग्भव उक्तः । तं श्रुत्वा समुत्पन्नातुच्छमत्सरप्रस्तमतिरिति व्यचिन्तयदिति । 'अहं तया निजप्रियतमया मारितः । सा च दुराचारा कुत्र' इति 33चिन्तयता तेन सा ततो नरकादुद्धत्य पद्मपुरे पद्मस्य भूपतेः कन्यका जातमात्रा दृष्टा । तदालोकनतस्त-33 दात्वपरिस्फुरदमर्षकम्पमानाधरेण तेन तत्रागत्य विन्ध्यगिरिवनान्तराले सा बालिका जातमात्रा
समुज्झिता। सा च कर्मवशतः कोमलकिसलयव्याप्तप्रदेशे पतिता पवनेनाश्वासिता च । तदानीं च 38 भवितव्यतया तत्रैव गर्भभरवेदनार्ता वनमृगी समागता प्रसूता च। प्रसववेदनाविरामे तया मृग्या 38 निरूपितं चिन्तितं च । 'किं ममाधुना युगलकमभवत् । तत आर्जवतया स्वापत्यमिति तस्या मुखे स्तन्यं
नवन्ती तामवर्धयत् ।' ततश्च सा बाला मृगयूथेन रममाणा निर्मानुषे ऽरण्ये क्रमेण यौवनमाससाद । .39 तत्र च तस्यास्तिष्ठन्त्या वननिकुञ्जानि गृहाणि, पक्षिणो बान्धवाः, वानरशिशवो मित्राणि, अशनं 39
वनफलानि, सलिलं निर्झरजलं, शयनं विशालशिलातलानि, विनयः सारङ्गकुलस्य पृष्ठिशीष कण्ड्रयनमिति । ततः सा मृगयूथसंगता मानुषं निरीक्ष्य मृगीव प्रोत्फुल्ललोचना पलायते । यद्भवस्यां पृष्टं यथा
3) r bas blank space between विन्ध्यगिरि and नर्मदा. b) PB om. आवाभ्यामाभाषिता च सा. 10) P नाकविराजिनी B has a marginal gloss thus: सह दानेन वर्त्तते सदाना । तथा कविभिः पंडितैः राजिता । पुनः किंविशिष्टा । सदा सर्वदा स्वर्गवत् शोभिता । ऽथवा सदानअकविराजिता दुःखविराजिता किंतु सदासुखिता इत्यर्थः. 17) PB गृहीत्वा कस्मिन्. 24) adds सा before प्रियापि, Pom. भिन्न. 25) B नरकवासे. 36) गर्भभार',40) B विनय सारङ्ग
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org