SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ * 55 -III.5 44 : Verse 348] कुवलयमालाकथा ३ 1 'का पुनरेषा वने परिभ्रमति' सेयं मम पूर्वभवीयस्वसुर्जीवः । यदेतया कदाचिन्मानुषो ऽपि न वीक्षित 1 इति युवां दृष्ट्रा पलायिता ।' ताभ्यां विद्याधराभ्यां विशप्तम् । “किं सा भव्या, किमभव्या' इति । भगवतादिष्टम् । 'भव्या'। ताभ्यामुक्तम् । 'कथं तस्याः सम्यक्त्वप्राप्तिः'। भगवतोक्तम् । 'अस्मिन्नेव 3 भवे ऽस्याः सम्यक्त्वलाभा' । ताभ्यामुक्तम् । 'कस्तस्या धर्माचार्यों भावी' । भगवता भणितं मामुद्दिश्य । 'एष राजकीरः । ततोऽहं भगवद्भणितेन मदनमञ्जर्याः 'पितामहवाक्यमलङ्घनीयम्' इति चिन्तयन्त्या 6 तस्याः प्रबोधकृते विसर्जितो ऽम्बरतलमुत्पत्यात्र वनान्तः समागतः। मया च परिभ्रमता सेयं बालिका 6 दृष्टा । ततः कियद्भिरपि दिनैर्भक्ष्याभक्ष्ये कार्याकार्य तथा जिनप्रणीते धर्म समग्रे ऽपि मनुष्यव्यवहारे च विचक्षणा कृता । कथितश्चास्यै केवलिप्रणीतः पूर्वभवः। यथा 'भवती पद्मभूपस्य दुहिता वैरिणात्र समानीता न वने जाता, तदरण्यं परित्यज्य मया समं वसन्ती भुवं समागच्छ । तत्र भोगान् भुक्ष्व 9 परलोककृत्यमाचरेः। एतया भणितम्। 'यदिदं वनं ममावनमिति । येन दुर्लक्ष्यो लोकाचारः1 विषमाश्वपलाः पश्चापि विषयतााः । बहवः खलाः। अतोऽत्रैव मन्मनसि समाधिर्न पुनरन्यत्र लोकाचारे।' 12 तदनन्तरं सा तत्रैव वने पतितप्रासुककुसुमकन्दफलमूलपत्राशना दुश्वरं चिरं तपश्चरन्ती स्थितवती ।12 ततो यत्त्वया पृष्टम् 'का त्वं, कुत आगता, किं वनवासे बैराग्यहेतुः' इत्यादिकमियं पृष्टा तत्तव भोः कुमार, मयोदितम् । ततः कुमारेण सविनयमुत्थाय 'राजकीर, त्वां साधर्मिकमभिवादये' इत्युक्तम् । 15 एणिकया जल्पितम् । 'फलितं ममाद्य वनवासेन, दृष्टो यद्भवान् सम्यक्त्वधारकः श्रावकः' इति । 16 अतिक्रान्तो मध्याह्नसमयः, तत्त्वरितमुत्तिष्ठ यथा स्नानार्थे गच्छावः । ततः सा तस्याश्रमस्य प्रत्यासन्नजलाशयोद्धृतगलितजलैः कृताङ्गप्रक्षालना प्रावृतधौतकोमलधवलवल्कला कस्मिंश्चिनिगरिकन्दराभोगे 18 पूर्व जलेन संस्त्रप्य भगवतः प्रथमतीर्थपतेःप्रतिमा जलस्थलजकुसुमैरभ्यर्च्य च प्रणतिं चकारमारेण 18 च स्नात्वा कृतपूजाविधानेन स्तुतिः कर्तुं समारेभे । 'गुणैरमेय नामेय भवच्छेदविधायक । अतो भव भवभ्रान्तिभीतिसंहृतये मम ॥ ३४३ श्रीवृषाङ्क जगन्नाथ देवदेव मनोभवः। मम प्रहर्ता संहर्ता तस्य त्वं तत्त्ववृत्तितः ॥३४४ ६४४) अथो कुमार एणिकया शुकेन च साकं तत्रैवोटजे समागत्य सुस्वादुसुरभिसुपक्कानि फलान्यघसत् । तत्रस्थस्य कुमारस्य विविधशास्त्रकलाकलापदेशभाषाख्यायिकाख्यानकभाषणप्रमोदि24 तैणिकाराजकीरस्य एकदा श्यामलकायच्छायं शिखिपिच्छविनिर्मितकर्णावतंसं नानाविधतरुराजीप्रसूना-24 पूर्णधम्मिल्लं शबरमिथुनमेकं समाजगाम । तछाग्रतो भूत्वा राजपुत्रस्य बालिकाया राजकीरस्य च प्रणाम निर्माय दूरशिलातले ऽध्युवास । एणिकया तस्य निरपायकायकिंवदन्ती पृष्टा । तेन च प्रणतोत्तमाङ्गतयैव स सर्वमपि प्रत्युक्तं न पुनर्वचनेन । शबरेण च मुक्तं धनुर्धरण्याम् । कुमारेण तद्रूपशोभाविरुद्धशबराचार-27 कौतुकाक्षिप्तचेतसा चिन्तितम् । 'अहो, धिग् रूपं न कार्य लक्षणैः, अप्रमाणानि शास्त्राणि, असाराः सर्वे गुणाः, अकारणं वेषाचारी, सर्वमपि प्रतीपम् । अन्यथा कथमेतद्रूपं लक्षणव्यञ्जनविभूषितम् । कुत्र 30 वा इदम् । प्राकृतपुरुषसंवादि शबरवेषत्वम्' इति चिन्तयता कुमारेण भणितम् । 'एणिके, किं पुनरे- 30 तत् ।' तयोक्तम् । 'कुमार, सर्वदैवात्र बने परिभ्रमदिदं पश्यामि, परमार्थवृत्त्या न जाने ।' कुमारेण भणितम् । 'एणिके, इदं न शबरयुगलम्, किंतु कृतशबरवेषमेतन्मिथुनं न सामान्यम् ।' एणिकया 33 भणितम् । 'कथं लक्ष्यते' । कुमारेण जल्पितम् । 'सामुद्रिकलक्षणैः' । तयोक्तम् "किं सामुद्रिकशास्त्रं 33 कुमारस्य परिचितम् । एतत्प्राप्तशबरवेषं युगलं तावत्तिष्ठतु, प्रथम पुरुषलक्षणं निवेदय ।' कुमारेण जल्पितम् । 'किं विस्तरतः कथयामि, किं वा संक्षेपतः ।' तया भणितम् । 'क्वापि विस्तरतः क्वापि 36 संक्षेपतश्च ।' कुमारेणोकम् । 'विस्तरतो लक्षप्रमाणं संक्षेपतः परिक्षीयमाणं यावत्सहस्रं शतं श्लोकानां 36 च। ततस्त्वं पूर्वे किंचिद्विस्तरतः शृणु। यथा। 'पद्मवज्राकुशच्छत्रशङ्खमत्स्यादयस्तले । पाणिपादेषु दृश्यन्ते यस्यासौ श्रीपतिः पुमान् ॥ ३४५ 39 उन्नताः पृथुलास्ताम्राः स्निग्धा दर्पणसंनिभाः। नखा भवन्ति धन्यानां धनहेतुसुखप्रदाः ॥ ३४६ 39 सितैः श्रमणता शेया रूप्यपुष्पितिकैः पुनः। जायते किल दुःशीलो नखैलाके ऽत्र मानवः॥ ३४७ शुद्धाः समाः शिखरिणो दन्ताः स्निग्धा घनाःशुभाः। विपरीताः पुनर्शया नराणां दुःखहेतवः ।। ३४८ 2) Pom. विद्याधराभ्यां. 8) B trans. च after कृता (written on the margin). 9) B भुक्त्वा for भुक्ष्व. 10) B कृत्यमाचर, विषमा [विषयाश्चपलाः पञ्चापि विषय (इन्द्रिय) ताक्ष्योः . 20) P मनः । नमः for मम. 21) मनोभव B मनोमवं. 24) P B om. एकदा, PP श्यामलच्छाकार्य. 25) PB मिथुनकमेकमाजगाम..27) धनुर्द्धरियां, , शवरवेषकौतुका. 30) Bom. किं पुनरेतत् etc.......भणितम् एणिके- 31) कुमारेणोक्तं for कुमारेण भणितम्.39) PB धनहेतुः 40) P रूक्ष B रूष्यं for रूप्य on which B has a marginal gloss thus: कपर्दिकाकारपुष्पकसहितः।, o has amarginal note: रूप्यशब्दस्य सुवर्णवाचकत्वादत्र पीतवर्णत्वं ग्राथम् ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy