Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 341
________________ [III. 810: Verse 1681 १०) तथा च । जीवाजीव पुण्यपापाश्रवसंवर निर्जराबन्धमोक्षानि नव तत्त्वानि । दानशीलतपो- 1 भावनामयश्चतुर्विधो धर्मः । आश्रवपञ्चकाद्विरतिः पञ्चेन्द्रियाणां निग्रहः क्रोधमानमायालो भलक्षणदुर्जेय3 कषायजयः मनोदण्डवचनदण्डकायदण्डयविरमणं चेति सप्तदशधा संयमः । नरकगति - तिर्यग्गति- 3 मनुष्य गति - देवगतिलक्षणाश्चतस्त्रो गतयः । मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति पञ्च [शानानि ] । अनित्यता १ अशरण २ भव ३ एकत्व ४ अन्यता ५ अशौच ६ आनव ७ संवर ८ 6 निर्जरा ९ धर्मस्वाख्यातता १० लोक ११ बोधि १२ प्रमुखा भावना द्वादश । नमस्कारसहित १ पौरुषी २ पुरिमार्ध ३ एकासनक ४ एकस्थानक ५ आचामाम्ल ६ उपवास ७ चरिम ८ अभिग्रह ९ विकृति १० प्रभृतिदशविधं प्रत्याख्यानम् । अथवा 'अनागतमतिक्रान्तं, कोटीसहितं नियन्त्रितं चैव । साकारमनाकारं 9 परिमाणकृतं निरवशेषम् ॥ संकेतमद्धा' चैतदपि दशविधम् । क्षुधा १ पिपासा २ शीत ३ उष्ण ४१ देश ५ अचेल ६ अरति ७ स्त्री ८ चर्या ९ निषीधिका १० शय्या ११ आक्रोश १२ वध १३ याचना १४ अलाभ १५ रोग १६ तनुस्पर्श १७ मल १८ सत्कारपुरस्कार १९ प्रशा २० अज्ञान २१ सम्यक्त्व 12 २२ [ लक्षणाः ] द्वाविंशति परीबहाः । स्पर्शन- रसन-प्राण-चक्षुः श्रोत्राणीन्द्रियपञ्चकम् । औत्पत्तिकी 12 १ वैनयिकी २ फार्मजा ३ पारिणामिकी ४ चेति चतस्रो बुद्धयः । आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति चतुर्विधं ध्यानम् । पदस्थं पिण्डस्थं रूपस्थं रूपातीतमेतदपि चतुर्धा । ज्ञानं दर्शनं चारित्रं 15 वेति रत्नत्रयम् । कृष्णलेश्या १ नीललेश्या २ कापोत लेश्या ३ तेजोलेश्या ४ पद्मलेश्या ५ शुक्ललेश्या ६ 15 चेति [ लेश्या ] षट्कम् । सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनकं ३ प्रतिक्रमणं ४ कायोत्सर्गः ५ प्रत्याख्यानं ६ [ चेति ] षड्विधमावश्यकम् । पृथ्वी कायो ऽकायस्तेजस्कायो वायुकायो वनस्पतिकायस्त्र सकाय18 वेति प जीवनिकायाः । मनोयोगो वचनयोगः काययोगश्चेति योगत्रयी । ईर्यासमिति - भाषासमिति - 18 पपणासमिति - आदाननिक्षेपसमिति - उत्सर्गसमिति [ लक्षणाः ] पञ्च समितयः । इन्द्रियपञ्चकं मनोबलं वचनबलं कायबलं चेति बलत्रयम् उच्छ्वासो निःश्वास आयुश्चेति दशविधाः प्राणाः । मद्यं विषयाः 21 कषाया निद्रा विकथाश्चेति प्रमादपञ्चकम् । अनशनमूनोदरता वृत्तिसंक्षेपो रसत्यागस्तनुक्लेशः संलीनता 21 चेति षड्विधं वाह्यं तपः । प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयो व्युत्सर्गः शुभध्यानं चेत्याभ्यन्तरं षड्विधं तपः । आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा ४ [ रूपाः ] चतस्रः संज्ञाः । ज्ञानावरणीयं १ 24 दर्शनावरणीयं २ वेदनीयं ३ मोहनीयम् ४ आयुष्कं ५ नाम ६ गोत्रम् ७ अन्तरायं ८ चेत्यष्टधा कर्म । मनो- 24 गुप्तिर्वचन गुप्तिः काय गुप्तिरिति गुप्तित्रयम् । अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति चत्वारो ऽतिशयाः । * 36 27 ११) तथा च श्रीजिनेश्वराणां चतुस्त्रिंशदतिशया यथा । देहोऽद्भुतरूपगन्धो निरामयः स्वेदमल- 27 विवर्जित इति प्रथमः । उच्छ्वासनिःश्वासौ कमलपरिमलोपमा विति द्वितीयः । रुधिरामिषे तु गोक्षीरधाराधवले अनामगन्धिके चेति तृतीयः । आहारनीहारविधी अदृश्यौ चेति चतुर्थः । अदृश्ये इति 90 मांसचक्षुषां न पुनरवध्यादिलोचनेन पुंसा । यदाहुः, 30 'पच्छने आहारे अदिस्से मंसचक्खुणो ।' एष चतुर्थः । एते चत्वारो ऽपि जगतो ऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः, सहोत्थाः सहजन्मानः । अथ कर्मक्षयजा 33 अतिशयाः। योजनाप्रमाणे ऽपि क्षेत्रे समवसरणभुवि नृणां देवानां तिरश्चां च कोटिकोटिसंख्यमवस्थानमिति 33 प्रथमः कर्मक्षयजो ऽतिशयः । वाणी अर्धमागधी नरतिर्यक्कु सुरलोकभाषया संवदति तद्भावाभावेन परिणमतीत्येवं शीला, योजनमेकं गच्छति व्याप्नोत्येवंशीला योजनगामी चेति द्वितीयः । भानां प्रभाणां मण्डलं 36 भामण्डलं मौलिपृष्ठे शिरःपश्चिमभागे तथ्य विडम्बितदिनकरबिम्बलक्ष्मीमनोहरमिति तृतीयः । साग्रे 36 पञ्चविंशतियोजनाधिके गव्यूतिः क्रोशद्वये गव्यूतीनां शतद्वये योजनशत इत्यर्थः, रोगो ज्वरादिर्न स्यादिति चतुर्थः । तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः । तथा ईतिर्धान्योपद्रवकारी प्रचुरो मुषिकादि39 प्राणिगणो न स्यादिति षष्ठः । तथा मारिरौत्पातिकं सर्वगतं मरणं न स्यादिति सप्तमः । तथा अतिवृष्टिनिंर- 39 न्तरं वर्षणं न स्यादित्यष्टमः । तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः । दुर्भिक्षं भिक्षायाम रत्नप्रभसूरिविरचिता 4 ) P मनःपर्याय B मन:पर्यय 5) PB put serial nos. for अनित्यता eto. 6 ) Po put serial nos. in. some of these lists, and here and there they are separately written with terminations. o is not quite particular in putting these nos. 7) P वरिस for चरिम 11 ) oom. अज्ञान. 17 ) P २ तेउकाय ३ वाउकाय ४ वनस्पति. 24 ) P मोहनीयं च ३ आयुचतुष्कं 25 ) P गुप्तिरिति श्रयम्- 27 > 0 adds च after श्री जिनेश्वराणां33) B कोटिकोटिसंख्यानामवस्थानमिति 35 ) P योजनगामिनो योजनगामिनां 37 ) PB कोशइयं. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394