________________
*87
-III. $ 18 : Verse 168 ]
कुषलयमालाकथा ३ 1भावो न स्यादिति दशमः। तथा स्वराष्ट्रात्परराष्ट्राश्च भयं न स्यादित्येकादशः। एवमेकादशातिशयाः कर्मणां 1 शानावरणीयादीनां चतुर्णा घातात् क्षयाजायन्ते इति । तथा देवकृता अतिशयाः। खे आकाशे धर्मप्रकाशकं चक्रं भवतीति देवकृतःप्रथमोऽतिशयः।तथा खे चमरा इति द्वितीयः। तथाखे पादपीठेन सह 3 मृगेन्द्रासनं सिंहासनमुज्वलं निर्मलमाकाशस्फटिकमयत्वादिति तृतीयः। तथा खे छत्रत्रयमिति चतुर्थः। तथा खे रत्नमयो ध्वज इति पञ्चमः। तथा पादन्यासनिमित्तं सुवर्णकमलानि नव भवन्तीति षष्ठः तथा 6 समवसरणे रत्नसुवर्णरूप्यमयं प्राकारत्रयं मनोज्ञ भवतीति सप्तमः। तथा चत्वारि मुखान्यङ्गानि गात्राणि 6
च यस्य स तथा तद्भावश्चतुर्मुखाङ्गता भवतीत्यष्टमः। तथा चैत्याभिधानो द्रुमोऽशोकवृक्षः स्यादिति नवमः। तथा अधोमुखाः कण्टका भवन्तीति दशमः। द्रुमाणां नम्रता स्यादित्येकादशः । तथा उच्चैर्भुवनध्यापी 9 दुन्दुभिध्वानः स्यादिति द्वादशः। तथा वातः सुखत्वादनुकूलो भवतीति त्रयोदशः। तथा पक्षिणःप्रद-9 क्षिणगतयः स्युरिति चतुर्दशः। तथा गन्धोदकवृष्टिरिति पञ्चदशः। बहुवर्णानां पञ्चवर्णानां जानूत्सेधप्रमाणानां मणीचकानां वृष्टिः स्यादिति षोडशः। तथा कचानामुपलक्षणत्वाल्लोम्नां च कूर्चस्य नखानां 12 पाणिपादजानामवस्थितत्वस्वभावत्वमिति सप्तदशः। तथा भुवनपत्यादिचतुर्विधदेवनिकायानां जघन्य-12 तोऽपि समीपे कोटिर्भवतीत्यष्टादशः। तथा ऋतूनां वसन्तादीनां सर्वदा पुष्पादिसामग्रीभिरिन्द्रियार्थानां स्पर्शनरसगन्धरूपशब्दानाममनोज्ञानामपकर्षेण मनोशानां च प्रादुर्भावेनानुकूलत्वं भवतीत्येकोनविंशः। 15 इति देवैः कृता एकोनविंशतिस्तीर्थकृतामतिशयाः। एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगम्यमिति। 16 ते च सहजैश्च चतुर्भिः कर्मक्षयजैरेकादशभिः सह मीलिताश्चतुत्रिंशद्भवन्तीति ।
६१२) अथ वचनातिशया।संस्कारवत्त्वं-संस्कृतलक्षणयुक्तत्वम् १,औदात्यम्-उच्चैवत्तिता २, उप18 चारपरीतता-अग्राम्यत्वम् ३, मेघगम्भीरघोषत्वं-सेघस्येव गम्भीरशब्दत्वम् ४, प्रतिनादविधायिता-प्रति- 18 रवोपेतत्वम् ५, दक्षिणत्वं सरलत्वम् ६, उपनीतरागत्वं-मालवकैशिक्यादिग्रामरागयुक्तता ७, एते च सप्त
शब्दापेक्षयातिशयाः। अन्ये त्वातिशयाः। तत्र महार्थता-बृहदभिधेयता ८, अव्याहतत्वं-पूर्वापरवाक्या21 विरोधः ९, शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा १०, संशयानानसंभवः- 21
असंदिग्धत्वम् ११, निराकृतान्योत्तरत्वं-परदूषणाविषयता १२, हृदयंगमता-हृदयग्राह्यत्वम् १३, मिथः साकाङ्कता-परस्परेण पदानां वाक्यानां वा सापेक्षता १४, प्रस्तावौचित्यं-देशकालाव्यतीतत्वम् १५, तत्त्व24 निष्ठता-विवक्षितवस्तुस्वरूपानुसारिता १६,अप्रकीर्णप्रसृतत्वं-सुसंबद्धस्य सतःप्रसरणम्,अथवाअसंबद्धा- 24 धिकारित्वातिविस्तरणाभावः १७, अस्वश्लाघान्यनिन्दिता-आत्मोत्कर्षपरनिन्दाविप्रयुक्तत्वम् १८, आमि
जात्यं-वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १९, अतिस्निग्धमधुरत्वं-घृतगुडादिवत्सुखकारित्वम् २०, 27 प्रशस्यता-उक्तगुणयोगात्प्राप्तश्लाघता २१, अमर्मवेधिता-परमर्मानुट्टनस्वरूपत्वम् २२, औदार्यम्-अमि-27 घेयार्थस्यातुच्छत्वम् २३, धर्मार्थप्रतिबद्धता-धर्मार्थाभ्यामुपेतत्वम् २४, कारकाद्यविपर्यासः-कारककालवचनलिङ्गादिव्यत्ययवचनदोषापेतता २५, विभ्रमादिवियुक्तता-विभ्रमो वक्तृमनसोभ्रान्ततास आदिर्यषां 30 विक्षेपादीनांस विभ्रमादिर्मनोदोषस्तेन वियुक्तत्वम् २६,चित्रकृत्त्वम्-उत्पादिताविच्छिन्नकुतूहलत्वम् २७, 30 अद्भुतत्वं-प्रतीतत्वम् २८, तथानतिविलम्बिता-प्रतीता २९, अनेकजातिवैचित्र्यं-जातयो वर्णनीयवस्तुस्वरूपवर्णनानि तत्संश्रयाद्विचित्रत्वम् ३०, आरोपितविशेषता-वचनान्तरापेक्षयाहितविशेषणत्वम् ३१, 33 सत्त्वप्रधानता-साहसोपेतता ३२, वर्णपदवाक्यविविक्तता-वर्णादीनां विच्छिन्नत्वम् ३३, अव्युच्छित्ति:विवक्षितार्थसम्यसिद्धिं यावदव्यवच्छिन्नवचनप्रमेयता ३४, अखेदित्वम्-अनायाससंभवः ३५, इत्येवमहतां पञ्चत्रिंशद्वाचां गुणातिशया भवन्तीति । 38 :१३) दानगतो ऽन्तराय इत्येको दोषः, लाभगतोऽन्तराय इति द्वितीयः, वीर्यगतोऽन्तराय इति । तृतीयः, भुज्यत [इति] भोगः स्रगादिस्तगतो ऽन्तराय इति चतुर्थः, उपभुज्यत [इति] उपभोगो उजनादि तद्गतोऽन्तराय इति पञ्चमः, हासः-हास्यमिति षष्ठः, रतिः-पदार्थानामुपरि प्रीतिरिति सप्तमः, 39 अरतिः रतेरविषय इत्यष्टमः, भीतिः-भयमिति नवमः, जुगुप्सा-घृणेति दशमः, शोकः-चित्तवैधुर्यमि-3 त्येकादशः, काम:-मन्मथ इति द्वादशः, मिथ्यात्वं-दर्शनमोह इति त्रयोदशः, अशानं-मौख्यमिति
8) B तथा कंटका अधोमुखा भवंतीति दशमः तथा द्रुमा वृक्षा नमंतीति एकादशः खे दुंदुभिनाद उच्चरतिशयेनेति द्वादशः। 9) read त्रयोदश eto. without. 10) om. पञ्चवर्णानां. 12) BP मवस्थितस्वभा, सप्तदश is made सप्तदशमः with the addition of म: on the line. 14) B स्पर्शरसगंध, 'मपाकर्षण. 25) अभिजात्य. 28) PB'भ्यामनपेतत्वम्. 30)० 'दोषत्वेन कियुक्तत्वं. The printed text puts hyphens which are not found in the Mss. In the Mea, tho words stand separate or joined in Samdbi.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org