Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
*44
रत्नप्रभसूरिविरचिता
[III.822 : Verse 278
1 यथा यथावनीपीठे मुश्चन्ति स्म घना वनम् । ऐच्छत्तथा तथा कान्ता मन्मथव्यथिता वनम् ॥ २७८ 1
द्योतन्ते दिवि खद्योतास्तमस्विन्यां निरन्तरम् । संजातयुवतिजातविरहाग्निकणा इव ॥ २७९ 3 अतीवोत्कम्पते यत्र योगिनामपि मानसम् । किं पुनर्दूरसंस्थानामध्वगानां निगद्यते ॥ २८०
सर्वेषामपि पर्जन्यः समभूदतिवल्लभः । प्रोषितप्रेयसीवर्गमनगेलशुचं विना ॥२८१
शुक्लापाङ्गाः प्रनृत्यन्ति गर्जन्ति च धनाधनाः। अन्तरिक्षे चतुर्दिक्षु क्षणिका लक्ष्यते क्षणम् ॥ २८२ 6 प्रपा मयि समायाते कथमद्यापि मण्डिताः । वर्षते ऽतिघनेनाशु सर्वास्ताश्चक्रिरे वृथा ॥ २८३
$२३ ) ईदृशे समये स मित्रकुमारः पुरबाटोदेशं निर्गतस्तैः शकुनश्वापदगणैर्वन्धनबद्धैः क्रीडयिष्यति। तेन च प्रदेशेनावधिज्ञानी मुनिर्गमिष्यति । स च व्यावृत्तस्तत्कुमारक्रीडां निरीक्ष्योपयोगं दास्यति । 'अहो, 9 अस्य कीदृशी प्रकृतिस्तत् किमत्र कारणम्' इत्युपयुक्तावधिशानेन करतलकलितकुवलयस्पष्टदृष्टान्तवत् 9 पूर्वभवे तस्य ताराचन्द्रस्य साधुत्वं ज्योतिष्कदेवत्वं मूषकत्वं राजसुतत्वं च द्रक्ष्यते । 'अयं बोधयोग्यः'
इति चिन्तयन् स भणिष्यति । 12 'श्रमणत्वं सुपर्वत्वमाखुत्वं स्मृतिमेति ते । स्वजनातुष्टः किं जीवान् कदर्थयसि भो वद' ॥२८४ 12 तदाकर्ण्य कुमारश्चिन्तयिष्यति । अहो, किं पुनरेतेन साधुना भणितोऽस्मि । 'साधुर्योतिष्कदेवो वृषलोचनः' इति । तावत् श्रुतपूर्वमिव मे । एवमूहापोहमात्रमुपागतस्य तस्य तथाविधकर्मणः प्रशान्त्या 15 जातिस्मृतिरुत्पत्स्यते । ततः संसारं दुःखसागरं परिज्ञाय तस्यैव मुनेः पार्श्वे प्रवज्य नानाविधाभिग्रह-16
साग्रहः समाधिना विविधं तपो विधाय क्षपकश्रेण्यान्तकृत्केवली भविष्यति' इति । तेन भणामो यदेष सर्वेषामप्यस्माकं पूर्व महोदयपदं गमिष्यति । अस्माकं पुनर्दशवर्षसहस्रशेषमद्याप्यायुः । एतदृष18लोचनाख्यानकं निशम्य त्रिदशेन्द्रादीनां मनुजानां च मनसि महत्कौतुकमुत्पेदे । अथो भक्तिभरनिभृत-18 चेतसा मघवता तं मूषकं स्वपाणिक्रोडमारोप्याभाणि ।
'अहो धन्यस्त्वमेवैको वन्द्यस्त्वमसि नाकिनाम् । सिद्धिगामी पुरास्माकं यरत्वमुक्तः स्वयंभुवा ॥ २८५ 21 सुराः पश्यत कीदृक्षः स्वभावः श्रीजिनाध्वनः। लभन्ते निवृति येन तिर्यञ्चोऽपि भवान्तरे ॥ २८६ 21 एवं वासव इवान्यैरपि त्रिदशेश्वरैर्दनुजनाथैर्नृपशतः करात्करतलं संचार्यमाणः क्षितिपतिकुमारवदालिनयमानः स्नेहपरवशया दृशा 'अयमस्माकमप्यधिको योऽनन्तरजन्मनि निःश्रेयसभाजनं न वृथाश्रीजिन24 प्रणीतं वचः' इति स श्लाघितः।
24 ६२४) ततो विरचिताञ्जलिना पद्मप्रभदेवेन पृष्टम् । 'भगवन् , वयं भव्याः किमभव्याः' इति । भगवानभ्यधात् । 'भवन्तो भव्याः सुलभबोधयः।' पद्मप्रमेण विज्ञप्तं पुनः। 'वयं पञ्चापि जनाः कति27 पयभवसिद्धिगाः ।' निगदितं श्रीमता धर्मतीर्थकृता । 'इतश्चतुर्थे जन्मनि यूयं पञ्चापि सर्वदुःखक्षय-27
गामिनो भविष्यथ ।' पद्मप्रभः समुवाच । 'स्वामिन्, इतो मृतानामस्माकं कुत्रोत्पत्ति विनी।' स्वामिना जगदे । 'इतश्युत्वा त्वं वणिक्पुत्रः, पद्मवरस्तु राजसुता, पद्मसारस्तु नृपतितनयः पद्मचन्द्रः, पुनर्विन्ध्य30 गिरी नखरायुधः, पद्मकेसरः पुना राजपुत्रः।' इति निवेद्य स्वयं भगवान् श्रीधर्मनाथस्तस्थौ । देवा अपि 30 समवसरणं संहृत्य स्वर्गमार्गमगमन् । भगवानपि पीयूषरोचिरिव भव्यजनकुमुदप्रमोदसंपादनाय विहाँ प्रवृत्तः। ततस्ते पञ्चापि संलापं कर्तुं प्रावर्तन्त । एकेनैकस्य संमुखं भणितम् । 'यत् स्वयं भगवता गदितं 33 तदाकर्णितम्, ततो ऽत्रात्मभिः किं करणीयं सम्यक्त्वलाभार्थम् ।' परेण मन्त्रयित्वा प्रोचे । 'यदिदं 39 विषमं कार्यमुपस्थितम् । एको वणिगजन्मा । अन्यो राजतनुजा । अपरः पारीन्द्रः । अपरौ राजपुत्राविति । ततो न ज्ञायते कथं पुनरस्माकं बोधिलाभः । क पुनः संगमो भावी। तदहो पद्मकेसर, इति भग36 वतादिष्टं यत्तव पश्चाच्युतिर्भाविनी । त्वया त्ववधिना ज्ञात्वास्माकं यत्र तत्रोत्पन्नानां सम्यक्त्वं दातव्य-36 मिति । न पुनः स्वर्गसुन्दरीवक्षोजस्पर्शसुखलालसेन विस्मृतसकलपूर्वजल्पितेन भवितव्यम्।' तेनोक्तम् । 'अहं सम्यक्त्वं दास्यामि, परं मोहोपहतचेतसां भवतां मद्वचःप्रत्ययो न भविष्यति ततः क उपाय: 39 कर्तव्यः।' तैश्चतुर्मिरुक्तम् । 'भव्य निवेदितम् । तत एतदधुनैव क्रियते, यदात्मीयात्मीयानि रत्नमयानि 39 प्राग्भवमनुष्यरूपाणि कृत्वैकस्मिन् स्थाने निक्षिप्यन्ते, तानि कालेन दर्शनीयानि यथा परस्परं दृष्ट्वा कदा
8) Bom. कुमारकी डॉ eto. to प्रकृतिस्तत्. 14) B मात्रामागतस्य. 15) B विधाभिग्रहः समाधिना. 20) B पुरोस्माकं. 22) B क्षितिपकुमार. 26) 0 बोधयः (श्च), B भगवन् for पुनः. 30) B has a marginal correction 'नाथ समुत्तस्था. 40) PB क्षिप्यते for निक्षिप्यन्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394