Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 348
________________ -III. $ 22 : Verse 277] कुवलयमालाकथा ३ * 43 1 अस्माकं पुनः परायत्तानां सदैव निबिडनिगडवर्जितो बन्धनविधिः । अपर्वतपादपं पतनम् । सजीवं 1 मरणम् । एकस्तावदिति वदति 'यदिदं विधेहि' । अन्यो जल्पति 'यदिदं समाचरे:' । परः 'चरणौ 3 'क्षालय' । अन्यो 'वाराभूमिं प्रमार्जय' । इतरो 'विश्रामणां कुरु' । एको 'वन्दनकं ददस्व, प्रतिक्रमणं विरचय' । इत्यादिविविधवचनैरनारतं प्राजनैरिव प्रेर्यमाणस्य मम नास्ति निमेषमात्रमपि नारकस्येव सुखावकाशः । तदेते ऽस्मत्तः प्रधानाः' इति चिन्तयन् गुरुभिः सह वसतिमायातवान् । स च कियन्त6 मपि कालं श्रामण्यमनुपालय तद् दुश्चिन्तितशल्यं गुरूणां पुरतो ऽनालोच्याकालमृत्युना ज्योतिष्केषु 6 किंचिदूनपत्यायुः सुपर्वा बभूव । तत्र भोगान् भुक्त्वा च्युत्वास्या एव नगर्याः पूर्वोत्तर दिग्विभागे स काननान्तरस्थल्या मुन्दरत्वं प्राप्य यौवनमितो ऽनेकमूषिकाभिः समं क्रीडन् कदाचिद्विवराद्वहिरुपेतः सुर'भिगन्धोदककुसुमवृष्टिगन्धमाघ्राय तदनुमार्गानुसारेणात्र समवसृतौ समागत्य धर्म श्रोतुं प्रावर्तत । अथा- 9 मुष्य मद्रचः शृण्वतो जातिस्मृतिरुदपद्यत । 'यदहं पूर्वभवे सशल्यं व्रतमापाल्य ज्योतिष्केषु देवत्वमवाप्य कान्तारान्तर चारी मूषकः संजातः । एतत्स्मृत्वा 'अहो, कीदृशः कर्मपरिणामः, धिग्विलसितं संसारस्य 12 यद्देवत्वमुपलभ्य तिर्यग्जातौ मूषकः समुत्पन्नः । अधुना तदासनं श्रीभगवतः पादमूलमुपागत्य प्रणिपत्य 12 च पृच्छामि किमहं मूषकभवादनन्तरं प्राप्स्यामि' इति चिन्तयन् मम समीपमुपससर्प | भक्तिभरनिभृतस्वान्तः सुचेतसा स्तोतुमारेभे । 15 ' तवाज्ञालोपिनो ये ऽत्र लोकत्रयशिरोमणे । जायन्ते जन्तवो दूरं दुर्गतौ ते भ्रमन्ति हि ॥ २७२ 15 २१) ततो जानता गणभृता लोकबोधार्थ प्रभुः पृष्टः । 'भगवन्, किमनेन निर्ममे, यदनुभावेनेदृश एष जातो ऽस्ति' इति । प्रभुः प्राह । 'प्राग्भवे ऽनेन व्रतिना सता गच्छवासनियन्त्रणा निर्विण्णचेतसा 18 बहिर्भूमिं गतेन स्वैरं विहारिणो मूषकान् दृष्ट्वेति चिन्तितं यथा 'अरण्यमूषका धन्यतमाः । इति दुश्चिन्त - 18 नशल्य युतव्रतपालनानुभावेन देवत्वमूषकत्वयोग्यमायुर्निबद्धम् । अथ भूयो ऽपि पृष्टं भगवतः पार्श्वे गरे । 'नाथ, किं सम्यग्दृष्टिजीवो ऽपि तिर्यगायुर्बध्नाति न वा' इति । स्वामिनोक्तम् । 'सम्यग्द21 ष्टिजीवस्तिर्यगायुरनुभवति, न पुनर्वभाति । यतः, भवद्वैमानिको ऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बज्रायुर्न पुराथवा ॥ २७३ तावदेतेन देवत्वे सम्यक्त्वं वान्त्वायुस्तिर्यक्त्वे निबद्धम्' इति । ततस्त्रिदशेशेन जल्पितम् । 'भगवन्, 24 अयं संप्रति शीघ्रं कथं सिद्धिगामी' इति । निवेदितं च भगवता । 'इतश्चैष स्ववनस्थल्यां व्रजन् चिन्तयि- 24 यति । 'अहो दुरन्तः संसारः, कुशाग्रविन्दुवञ्चञ्चलं जीवितव्यं, चपला विषयतार्थ्याः, न वरेण्यं निदानादिशल्यम्, अधमा मूषकजातिः, दुष्प्रापः श्रीजिनप्रणीतः पन्थाः, ततो वरमंत्र नमस्कारपरायणो म्रिये, 27 यथा विरतिप्रधानं जन्म लभेयम्' । इति चिन्तयन् तस्मिन्नेव स्थाने भक्तं प्रत्याख्यायैतदेव मद्वचो ऽतीव 27 दुष्टं भवस्वरूपं च निरूपयनमस्कारपरो भावी । तत्रैतस्य तिष्ठतो मूषिकास्तन्दुलकोद्रवादिकं तत्पुरो मोक्ष्यन्ति । ततस्तन्निरीक्ष्य मूषकश्चिन्तयिष्यति । 90 'मेरोरधिकमाहारं पयोधेरधिकं पयः । अनारतं भवं भ्राम्यन्नेव जन्तुरुपाददे ॥ २७४ 21 30 1 तत्तेन चेन्न तृप्तो ऽयं भक्षितैस्तदिमैः कणैः । का नाम प्राप्स्यते तृप्तिः स्थास्यती 'ति विचिन्तयन् ॥ २७५ २२) ततस्तदभिमुखमीषदपि मूषको न विलोकयिष्यते तच्च तादृशं वीक्ष्य ता मूषिकाश्चिन्त 33 यिष्यन्ति । 'कुतो हेतोरयमस्मत्पतिः कुपितस्तदेनं प्रसादयामः' इति चिन्तयन्त्य एतत्समीपमुपेष्यन्ति । 33 ततः काचिदुत्तमाङ्ग कण्डूयन्ति, अपरा अङ्गं परिस्पृशन्ति । एवमुपचर्यमाणस्ताभिरभित एष चिन्तयिता 'सदैव नरकनिगमा इमा रामाः संसारदुःखमूलम् ।' ततस्ताभिरेतन्मनो न कथमपि समाधितः स्वर्णाद्रि36 शृङ्गवत्सशब्द वातोत्कलिकाभिः क्षोभयिष्यते, तत्कृतं सर्वथैव वृथा भावि एतस्मिन् वज्रे नख विलेखनमिव । 36 ततस्तृतीयदिन एष धाक्षामकुक्षिर्विपद्य मिथिलानगर्यां मिथिलस्य राशचित्राभिधाया महादेव्या उदरसरसि राजहंसलीलामलंकरिष्यति । तेन च गर्भस्थेन जनन्याः सर्वसत्त्वानामुपरि मैत्रीवासनावासितम99 न्तःकरणं भविता । स च भूपस्तस्य जातस्य 'मित्रकुमारः' इति नाम दास्यति । तस्य कौतूहलिनः कुमारस्य 39 ताम्रचूड कपि पशुसम्बर हरिणमूषकादिभिर्नियन्त्रितैरेव क्रीडां कुर्वतो ऽष्टवर्षाणि यास्यन्ति । अन्यदा मेघमालाभिः पिहितव्योममण्डलः । विप्रलम्भभृतां कालः प्रावृट्कालः समागमत् ॥ २७६ 42 सरितः प्राप्य यत्रापः पातयन्ति तटद्रुमान् । पीडयन्ति न कं नीचाः श्रियं प्राप्य महीभृताम् ॥ २७७ 42 3) B विश्रामणं कुरु. 14 ) 0 B स्वच्चेतसा. 15) 0 ते for हि. 21) com. न पुनर्बंध्नाति 29 ) PB मूषकश्चितयति. 1) B. 32 ) P B मिमुखमीषन्मूषको विलोकयिष्यते 37 ) B मिधानाया. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394