________________
-III. $ 22 : Verse 277]
कुवलयमालाकथा ३
* 43
1 अस्माकं पुनः परायत्तानां सदैव निबिडनिगडवर्जितो बन्धनविधिः । अपर्वतपादपं पतनम् । सजीवं 1 मरणम् । एकस्तावदिति वदति 'यदिदं विधेहि' । अन्यो जल्पति 'यदिदं समाचरे:' । परः 'चरणौ 3 'क्षालय' । अन्यो 'वाराभूमिं प्रमार्जय' । इतरो 'विश्रामणां कुरु' । एको 'वन्दनकं ददस्व, प्रतिक्रमणं विरचय' । इत्यादिविविधवचनैरनारतं प्राजनैरिव प्रेर्यमाणस्य मम नास्ति निमेषमात्रमपि नारकस्येव सुखावकाशः । तदेते ऽस्मत्तः प्रधानाः' इति चिन्तयन् गुरुभिः सह वसतिमायातवान् । स च कियन्त6 मपि कालं श्रामण्यमनुपालय तद् दुश्चिन्तितशल्यं गुरूणां पुरतो ऽनालोच्याकालमृत्युना ज्योतिष्केषु 6 किंचिदूनपत्यायुः सुपर्वा बभूव । तत्र भोगान् भुक्त्वा च्युत्वास्या एव नगर्याः पूर्वोत्तर दिग्विभागे स काननान्तरस्थल्या मुन्दरत्वं प्राप्य यौवनमितो ऽनेकमूषिकाभिः समं क्रीडन् कदाचिद्विवराद्वहिरुपेतः सुर'भिगन्धोदककुसुमवृष्टिगन्धमाघ्राय तदनुमार्गानुसारेणात्र समवसृतौ समागत्य धर्म श्रोतुं प्रावर्तत । अथा- 9 मुष्य मद्रचः शृण्वतो जातिस्मृतिरुदपद्यत । 'यदहं पूर्वभवे सशल्यं व्रतमापाल्य ज्योतिष्केषु देवत्वमवाप्य कान्तारान्तर चारी मूषकः संजातः । एतत्स्मृत्वा 'अहो, कीदृशः कर्मपरिणामः, धिग्विलसितं संसारस्य 12 यद्देवत्वमुपलभ्य तिर्यग्जातौ मूषकः समुत्पन्नः । अधुना तदासनं श्रीभगवतः पादमूलमुपागत्य प्रणिपत्य 12 च पृच्छामि किमहं मूषकभवादनन्तरं प्राप्स्यामि' इति चिन्तयन् मम समीपमुपससर्प | भक्तिभरनिभृतस्वान्तः सुचेतसा स्तोतुमारेभे ।
15 ' तवाज्ञालोपिनो ये ऽत्र लोकत्रयशिरोमणे । जायन्ते जन्तवो दूरं दुर्गतौ ते भ्रमन्ति हि ॥ २७२ 15 २१) ततो जानता गणभृता लोकबोधार्थ प्रभुः पृष्टः । 'भगवन्, किमनेन निर्ममे, यदनुभावेनेदृश एष जातो ऽस्ति' इति । प्रभुः प्राह । 'प्राग्भवे ऽनेन व्रतिना सता गच्छवासनियन्त्रणा निर्विण्णचेतसा 18 बहिर्भूमिं गतेन स्वैरं विहारिणो मूषकान् दृष्ट्वेति चिन्तितं यथा 'अरण्यमूषका धन्यतमाः । इति दुश्चिन्त - 18 नशल्य युतव्रतपालनानुभावेन देवत्वमूषकत्वयोग्यमायुर्निबद्धम् । अथ भूयो ऽपि पृष्टं भगवतः पार्श्वे गरे । 'नाथ, किं सम्यग्दृष्टिजीवो ऽपि तिर्यगायुर्बध्नाति न वा' इति । स्वामिनोक्तम् । 'सम्यग्द21 ष्टिजीवस्तिर्यगायुरनुभवति, न पुनर्वभाति । यतः,
भवद्वैमानिको ऽवश्यं जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो बज्रायुर्न पुराथवा ॥ २७३ तावदेतेन देवत्वे सम्यक्त्वं वान्त्वायुस्तिर्यक्त्वे निबद्धम्' इति । ततस्त्रिदशेशेन जल्पितम् । 'भगवन्, 24 अयं संप्रति शीघ्रं कथं सिद्धिगामी' इति । निवेदितं च भगवता । 'इतश्चैष स्ववनस्थल्यां व्रजन् चिन्तयि- 24 यति । 'अहो दुरन्तः संसारः, कुशाग्रविन्दुवञ्चञ्चलं जीवितव्यं, चपला विषयतार्थ्याः, न वरेण्यं निदानादिशल्यम्, अधमा मूषकजातिः, दुष्प्रापः श्रीजिनप्रणीतः पन्थाः, ततो वरमंत्र नमस्कारपरायणो म्रिये, 27 यथा विरतिप्रधानं जन्म लभेयम्' । इति चिन्तयन् तस्मिन्नेव स्थाने भक्तं प्रत्याख्यायैतदेव मद्वचो ऽतीव 27 दुष्टं भवस्वरूपं च निरूपयनमस्कारपरो भावी । तत्रैतस्य तिष्ठतो मूषिकास्तन्दुलकोद्रवादिकं तत्पुरो मोक्ष्यन्ति । ततस्तन्निरीक्ष्य मूषकश्चिन्तयिष्यति ।
90 'मेरोरधिकमाहारं पयोधेरधिकं पयः । अनारतं भवं भ्राम्यन्नेव जन्तुरुपाददे ॥ २७४
21
30
1
तत्तेन चेन्न तृप्तो ऽयं भक्षितैस्तदिमैः कणैः । का नाम प्राप्स्यते तृप्तिः स्थास्यती 'ति विचिन्तयन् ॥ २७५ २२) ततस्तदभिमुखमीषदपि मूषको न विलोकयिष्यते तच्च तादृशं वीक्ष्य ता मूषिकाश्चिन्त 33 यिष्यन्ति । 'कुतो हेतोरयमस्मत्पतिः कुपितस्तदेनं प्रसादयामः' इति चिन्तयन्त्य एतत्समीपमुपेष्यन्ति । 33 ततः काचिदुत्तमाङ्ग कण्डूयन्ति, अपरा अङ्गं परिस्पृशन्ति । एवमुपचर्यमाणस्ताभिरभित एष चिन्तयिता 'सदैव नरकनिगमा इमा रामाः संसारदुःखमूलम् ।' ततस्ताभिरेतन्मनो न कथमपि समाधितः स्वर्णाद्रि36 शृङ्गवत्सशब्द वातोत्कलिकाभिः क्षोभयिष्यते, तत्कृतं सर्वथैव वृथा भावि एतस्मिन् वज्रे नख विलेखनमिव । 36 ततस्तृतीयदिन एष धाक्षामकुक्षिर्विपद्य मिथिलानगर्यां मिथिलस्य राशचित्राभिधाया महादेव्या उदरसरसि राजहंसलीलामलंकरिष्यति । तेन च गर्भस्थेन जनन्याः सर्वसत्त्वानामुपरि मैत्रीवासनावासितम99 न्तःकरणं भविता । स च भूपस्तस्य जातस्य 'मित्रकुमारः' इति नाम दास्यति । तस्य कौतूहलिनः कुमारस्य 39 ताम्रचूड कपि पशुसम्बर हरिणमूषकादिभिर्नियन्त्रितैरेव क्रीडां कुर्वतो ऽष्टवर्षाणि यास्यन्ति ।
अन्यदा मेघमालाभिः पिहितव्योममण्डलः । विप्रलम्भभृतां कालः प्रावृट्कालः समागमत् ॥ २७६ 42 सरितः प्राप्य यत्रापः पातयन्ति तटद्रुमान् । पीडयन्ति न कं नीचाः श्रियं प्राप्य महीभृताम् ॥ २७७ 42
3) B विश्रामणं कुरु. 14 ) 0 B स्वच्चेतसा. 15) 0 ते for हि. 21) com. न पुनर्बंध्नाति 29 ) PB मूषकश्चितयति. 1) B. 32 ) P B मिमुखमीषन्मूषको विलोकयिष्यते 37 ) B मिधानाया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org