Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 350
________________ 12 -III.126: Verse 297] कुवलयमालाकथा ३ * 45 |चित्पूर्वजन्मस्मरणसाभिज्ञानेन धर्मप्रतिपत्तिरस्माकं भवेत् ।' इति भणद्भिस्तैर्भुवमागत्य तानि तत्र निक्षि- 1 प्रानि यत्र वने तस्य कण्ठीरवस्योत्पत्तिः। विवरद्वारेच महती शिला प्रदत्तेति । ततस्ते सर्वेऽपि स्वविमानलक्ष्मीमलंचकुः। तत्र ते दिव्यसुखमनुभवन्तस्तिष्ठन्ति । 3 ६२५) ततः कुमारकुवलयचन्द्र, तेषु पद्मप्रभदेवो विगलच्छरीरकान्तिः परिम्लानवदनः सुदीनमनाः पवनाहतप्रदीप इव झटिति विध्यातः । ततो जम्बूद्वीपे द्वीपे भरतक्षेत्र 6 प्रत्यर्थिपार्थिवप्रत्तकम्पा चम्पाभिधा पुरी। चम्पकैदृश्यते यत्र दैवतोद्यानसौरभम् ॥ २८७ धनदत्ताभिधस्तत्र पवित्रमतिशेखरः । श्रेष्ठी यस्तु श्रिया श्रीदलीलामालम्बते किल ॥ २८८ तस्य श्रीपतेरिव लक्ष्मीर्लक्ष्मी ना प्रियतमा । स पद्मप्रभजीवस्तत्कुक्षिसंभवः सागरदत्ताभिधसूनुर्जातः । पञ्चभिर्धात्रीभिः प्रतिपाल्यमानः स कान्त्या गुणैः कलाकलापेन च प्रवर्धमानः क्रमतो 9 यौवनश्रियमाश्रितः । पित्रा समानसमाचारशीलस्य कस्यचिद्वाणिजस्य कन्यकां स श्रीसंज्ञां परिणायितः। सुखं वैषयिकं साकं श्रेष्ठिसूनोस्तयानिशम् । तस्यानुभवतः स्वैरं शरल्लक्ष्मीरवातरत् ॥ २८९ 13 फलप्राग्भारमासाद्य सद्यः कलमशालयः । भजन्त्येव नतिं यत्र नयवन्त इव श्रियम् ॥ २९० मेजर्जलानि नैर्मल्यं हृदयानि सतामिव । अयुगच्छदसौगन्ध्यवासिता हरितो ऽभवन् ॥ २९१ यत्र तीवकरस्तीनैः करैश्च समतापयत् । कुभूपतिरिव खैरमखिलं भूमिमण्डलम् ॥ २९२ 15 अभूजनः सुराशीव यत्र सन्मार्गजाचिकः । सरोवतंसाः क्रीडन्ति राजहंसाश्च सश्रियः ॥२९३ । एवंविधायां शरदि स सागरदत्तः स्निग्धमुग्धबन्धुजनान्वितः पुरीबाह्योद्देशमुपागतः। कौमुदीमहोत्सव इष्टा कस्मिंश्चिञ्चच्चरे नटपेटकान्तः केनापि पठ्यमानं कस्यापि कवेः काव्यमशृणोत् । 'यो धीमान् कुलजःक्षमी विनयवान् वीरः कृतशः कृती रूपैश्वर्ययुतो दयालुरशठो दाता शुचिः सत्रपः। सद्भोगी दृढसौहृदो ऽतिसरलः सत्यवतो नीतिमान् बन्धूनां निलयो नृजन्म सफलं तस्येह चामुत्र च ॥ २९४ २६) ततस्तेन सुभाषितरसपूरितचेतसा भणितम् । 'भो भो भरतपुत्राः इदं लिखत यत्सागरदत्तनामुष्य सुभाषितस्य लक्षं देयम् ।' ततः कैश्चिन्नागरैरुपश्लोकितः। 'यदयं सागरदत्तो महारसिको 24 विदग्धो दाता प्रस्तावविदहो सत्त्वश्च' इति । अपरैश्च जल्पितम् । 'अमुष्य किं स्तूयते यः पूर्वोपार्जितं 24 वित्तजातमर्थिभ्यो ददाति स कथं प्रशस्यः। यःपुनर्निजभुजसमर्जितमर्थ व्ययति स एव प्रशंसाभाजनम्।' अहो, 'पतैर्ममोपहासः कृतः' इति चिन्तयतस्तस्य तद्वचश्चेतसि शल्यमिव लग्नम् । ततो ऽपत्रपापरो 27 वीक्षापन्न इव गृहमागत्य स शय्यायां निविष्टः । यतः, 27 विज्ञानामप्यविज्ञानां मुदे मिथ्यापि हि स्तुतिः। निन्दा सत्यापि विज्ञानामपि दुखाय जायते ॥ २९५ ततः श्रिया चेष्टिताकारपरिज्ञानकुशलया चिन्तितम् । 'अद्य कथं मम पतिरुद्विग्न इव लक्ष्यते । यतः, जानन्ति जल्पितादपि निःश्वसितादपि विलोकितादपि च । त परमनांसि येषां मनस्सु वैदग्ध्यमधिवसति ॥२९६ ततस्तया भणितम्। 'अद्य नाथ, कथं भवान् विलक्ष इव । तेन चाकारसंवरणं कुर्वताभ्यधायि । 33 'प्रियतमे नहि नहि, किंतु शरत्पूर्णिमायां कौमुदीमहोत्सव प्रेक्ष्यमाणस्य मम महान् परिश्रमः समजन्यत 33 ईदृशः, न पुनरन्यो हेतुः' इत्युक्त्वा स स्थितः। ततो रजन्यां शय्यागृहे ऽलीकं प्रसुप्तः क्षणं किमपि दध्यौ च। ततः सागरदत्तस्तां श्रियं कान्तां प्रसुप्तां परिशाय मन्दं मन्दमुत्थाय वसनखण्डं परिधाय 36 द्वितीयखण्डं च स्कन्धे क्षित्वा खटिकाखण्डेन वासभुवनान्तरे स्वेनैव विरचितं श्लोकमेत भारपट्टे लिलेख 136 'वर्षान्तरे न यद्यस्मि सप्तकोटीः समर्जये। विशासि ज्वलने ऽवश्यं ज्वालामालाकुले ततः॥ २९७ इदं लिखित्वा वासवेश्मतो निःसृत्य नगरनीरनिर्गमद्वारेण दक्षिणाशां प्रति चचाल । स च क्रमतः 39 सर्वत्र जनपदस्वरूपं निरूपयन् दक्षिणाम्बुधितीरविराजिनीं जयश्रीनगरीमवाप। स तत्पूरीबायोदेशे 39 एकस्मिन् जीर्णोद्याने ऽशोकानोकहतले दूरमार्गश्रमव्यपगमाय निषण्णश्चिन्तयामासेति । 'किमतुच्छमत्स्यकच्छपसंकीर्णिततुङ्गतरङ्गसंगते सागरे यानपात्रमारुह्य परतीरं व्रजामि, किं वा चामुण्डायाः 42 पुरस्तीक्ष्णक्षुरिकाविदारितोरुयुगलसमुच्छलल्लोहितपङ्किलभूतलं मांसखण्डबलिं ददामि, किं वा रात्रिंदिवं 42 बन्ना 12) भजंतेवनति. 18) Pshowa blank space for नयवान. 20) B साहृदोजलमनाः सत्यव्रतो. 24) B'विन्महासत्वश्वेति- 32) B तया for ततस्तया. 35) B inter. कांता & श्रियं. 36) B द्वितीयं च. 41) B संकीर्णः तुंग. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394