Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
यथाभूदासत्सालयामाश्रय
.84
रत्नप्रभसूरिविरचिता [III. $6: Verse on___ यस्या उन्नत[रम्य] राजसदनश्रेण्याः पुरो मेनकाप्राणेशोऽपि बभूव हीनमहिमा वन्यश्रियामप्रतः।1 निःस्वानन्दनकाननस्य सुषमा क्षीराशयानां पुरः पंपादीनि सरांसि हन्त नितरांमञ्चन्त्यहंकारिताम ॥९७ तत्र क्षमापतिरभूत् क्षमापतिकृतस्तुतिः। नभस्तले भानुरिव श्रीमान् हर्षाभिधः सुधीः॥९८ 3 गुणीचे विद्यमाने ऽपि लोभो यस्याधिको ऽभवत् । अभिरामं गुणग्राम ग्रहीतुं गुणशालिनाम् ॥ ९९ समुद्रकन्दर्पधनाघनानां सारं समादाय विधिय॑धाद्यम्। न चेदिदं तत्कथमन्यथाभूदसौ गभीरः सुभगःप्रदाता ॥ १०० यश्चानूनगुणप्रसूनपटलप्रत्युल्लसत्सौरभव्याप्ताशेषमहीतलः शुभकलःश्रेयः श्रियामाश्रयः। स्फर्जत्कीर्तिलतावितानविलसत्कन्दः सदानन्दभूः प्रोन्मीलत्सुकृतोन्मुखो न विमुखो याच्आकृतां कुत्रचित् ॥ १०१ माद्यच्छात्रवकोटिकोटिकाटिप्रस्फोटकण्ठीरवस्ताम्यनीतिलतावलीकिशलनप्रोद्दामधाराधरः। यत्कीर्त्या च शुचीकृते त्रिभुवने ऽश्रान्तं स्फरन्त्याभितः सर्वशोऽपि वसन्न वेत्ति नियतं कैलासशैलं निजम् ॥ १०२ कल्पद्रुमाद्या ददतीप्सितं यत् सा शास्त्रवार्ता किल तेन दृश्या। प्रत्यक्षमेतं वसुधाधिनाथं तत्तन्मयं निर्मितवान् विधाता ॥ १०३ तत्र श्रेष्ठिपदभ्रष्टः श्रेष्ठी दौर्मुख्यदोषतः । विषवाक्य इति ख्यातो विद्यते कृषिजीवनः ॥ १०४ अन्यदा भक्तमादाय स्वयं कर्मकृतां कृते । गच्छन् शून्ये ददर्शष रुदन्तं बालमेककम् ॥१०५ 18 प्रोद्यत्कृपाभरभ्राजिहृदयः शिशुमाशु तम् । लात्वा स्वपाणिनारोप्य कटीतटमभोजयम् ॥ १०६ त्यक्तः केनाप्ययं पाको वराकस्तद्विपत्स्यते । स्वीकृतेनैव तेनेति श्रेष्ठी क्षेत्र ययौ निजम् ॥ १०७ स स्ववेश्म समागत्यापत्याभावादितस्ततः । दीनास्यायै कुटुम्बिन्यै तं मुदा डिम्भमार्पयत् ॥ १०८ 21 लाल्यमानस्तया नित्यमात्मनात्मेव बालकः । कलाभिः कलितः प्राप कलाभूदिव यौवनम् ॥ १०९ दग्धं पितृगिरा लोकं स्ववाक्यैरमृतैरिव । निर्वापयत्रभूत्ख्यातः संख्यावान् सर्वतोऽपि सः॥ ११० विनीत इति नाम्नाथ सर्वत्र प्रथितोऽभवत् । श्रेष्ठित्वं नृपतिस्तुष्टोऽदात्तस्मै तत्पितुः पदम् ॥ १११ 24 जिनशासनमाहात्म्यसमुल्लासनवासनः। अभिरामगुणग्रामद्रुमारामो ऽवनीतले ।। ११२ यो ऽभवन्नयनानन्ददायी यायी सदध्वनि । अवदातयशोजातसंपूरितदिगन्तरः ॥ ११३ श्रमणक्रमणाम्भोजसेवाहेवापरः सदा । अर्थसंप्रीणितात्यर्थावनीतलवनीपकः ॥ ११४ पैतृकं च पदं प्राप्य प्रसन्नमनसो नृपात् । स विनीतः श्रियां पात्रं भाग्यसौभाग्यभूरभूत् ॥ ११५ । ६७) अथ तत्रैव दुर्मिक्षं भीषण समुपस्थितम् । यत्र धर्मक्रियालोपो भव्यानामपि संभवेत् ॥ ११६ कुतोऽपि स्थानतोऽभ्येत्य नित्यदुर्भिक्षदुःखितावृद्धोवृद्धा युवा चैकोऽभवस्तदनुजीविनः॥११७५० अथ वैरिदत्तकम्पा चम्पा नाम महापुरी । तत्रास्ति पृथिवीनाथो जितारिरिति संशया ॥ ११८ प्रतापी कमलोलासी नृपस्तपनसंनिभः।न कर्कशकरश्चित्रं न गोमण्डलतापकृत् ॥ ११९ श्यामास्यो हि घनो वर्षन् तमोप्रस्तपनस्तपन् । यःप्रभस्त्वर्थिनो ऽत्यर्थमर्थःप्रीणन तादृशः॥ १२० 33 श्रीदर्पः कृतहर्षश्रीर्जिघृक्षुस्तमधीश्वरम् । प्रचचाल विनीतेन सार्धं प्रेष्ययुतेन सः ॥ १२१ तदागर्म परिशाय चम्पेशः संमुखोऽचलत् । ततः परस्परं युद्धं सैन्ययोरुभयोरभूत् ॥ १२२ अरुधत्सादिनं सादी निषादी च निषादिनम् । रथिको रथिकं पत्तिः पत्तिं च स्फूर्तिमूर्तिभृत् ॥ १२३ 36 निशातशरधोरण्या भटैर्दर्पसमुद्भवैः । अकालवृष्टिविहिता कालरात्रिरिवापरा ॥ १२४ रणे निपेतुर्मातङ्गास्तीवं प्रदरजर्जराः। शतकोटिक्षताः साक्षात् पर्वता इव सर्वतः ॥ १२५ . शितकुन्ताहताङ्गाचोच्छलच्छोणितदम्भतः। कोसुम्भवसनेवाभूदम्भोधिवसना युधि ॥ १२६ 39 निजस्वामिप्रसादस्याभूम भूना ऽनृणा वयम् । इति वीरकबन्धास्ते नृत्यन्तस्तत्र रेजिरे ॥ १२७ उल्ललल्लोहिताम्भोभिर्भीमा सङ्कामभूमिका । कबन्धानि वहत्याशु काष्ठानीव तरङ्गिणी ॥ १२८
27
1) उत्तरराज B उन्नतराज.3) Pक्षमापतिः कृत. 4) B'को भवेत् ।। 5) Pधनाधनीना. 15) PB दृश्याः - P'द्विपश्यति. 25) B'द्रुमारामेवनीतल:. 26) P यशोयातः. 28) P विनीतश्रियः पात्रं B विनीतः श्रियः पात्रं. 30) पद्धीमुवाचैको. 33) प्रभुस्त्वथिने. 39) P 'हितांगाच्छोछलत् शोणित'
20)
खो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394