Book Title: Kuvalayamala Katha Sankshep
Author(s): Udyotansuri, Ratnaprabhvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
- III. 8 6 : Verse 961
कुवलयमालाकथा ३
6
15
द्वितीये त्वाढको के द्रोणा वर्षे तृतीयके । खारीशतानि तुर्ये तु पल्यलक्षाणि पञ्चमे ॥ ५९ अथान्यस्मिन् दिने श्रेष्ठी निमन्त्र्य स्वजनान् बहून् । महान्तमुत्सवं चक्रे पूर्वरीत्या निकेतने ॥ ६० समायोज्झिकां ज्येष्ठां वधूमर्थयति स्म सः । वत्से समर्पय मम तच्छालिकणपञ्चकम् ॥ ६१ तदाकर्ण्य गृहस्यान्तः सहसापि प्रविश्य सा । पञ्च शालीनथानीय तस्य हस्ते समार्पयत् ॥ ६२ तेनापि जल्पिता सर्वप्रत्यक्षं शपथैर्निजैः । त एव शालयो वत्से न वा सत्यं वदाधुना ॥ ६३ तयाथ जल्पितं तात प्रोज्झितास्ते मया कणाः । श्रुत्वेति लोकपुरतः श्रेष्ठी रुष्टः स जल्पति ॥ ६४ अयुक्तं कृतमेतेन यूयमेतद्भणिष्यथ । अन्यथा पापया त्यक्ताः शालयस्ते मदर्पिताः ॥ ६५ तस्मादस्याः करिष्यामि फलं तत्यागसंभवम् । छगणादिपरित्यागकारिणी भवतूज्झिका ॥ ६६ द्वितीयां तामथाय श्रेष्ठयूचे पुत्रि तान् कणान् । समर्पय ममेदानीं साब्रवीद्भक्षिता मया ॥ ६७ स श्रेष्ठपुङ्गवो वोचत् स्वजनानां पुरस्ततः । पचनादिषु कार्येषु भवताद्भक्षिका वधूः ॥ ६८ तृतीया श्वशुरेणोक्ता सा शालिकणरक्षणम् । निजं न्यवेदयत्तुष्टः श्रेष्ठिश्रेष्ठस्ततो ऽनदत् ॥ ६९ मदीयमन्दिरे लोकाः कोशे सर्वाधिकारिणी । वधूटी रक्षिकानाम्नी भवत्वेषा ममाशया ॥ ७० आकार्य जल्पितानेन चतुर्थी रोहिणी ततः । समानय कणान् पञ्च वत्से त्वमपि सांप्रतम् ॥ ७१ प्रजल्पितं तया तात शकटानि बहूनि मे । अर्व्यन्तां वृषभाः प्राज्याः शालिरानीयते यथा ॥ ७२ अभाणि श्रेष्ठिना तेन वत्से पञ्च कणाः कथम् । जज्ञिरे यानवाह्यास्ते स हेतुः कथ्यतां मम ॥ ७३ यत्कृतं मूलतो वध्वा कथितं तत्पुरस्तथा । मुदितस्तत्तदाकर्ण्य स श्रेष्ठी समजायत ॥ ७४ स्नुषायाः सो ऽर्पयामास शकटान् वृषभांस्तथा । अथानीतस्तया वध्वा शालिः सर्वः पितुर्गृहात् ॥ ७५ प्राहाथ स्वजनो धन्यो धनो यस्येदृशी वधूः । निन्यिरे कीडश वृद्धिं पञ्च शालिकणा यया ॥ ७६ 18 ऊचे तया ततस्तात गृह्यन्तां पञ्च ते कणाः । इति श्रुत्वा तदा श्रेष्ठी जनप्रत्यक्षमब्रवीत् ॥ ७७ सर्वस्वस्वामिनी गेहे वधूर्मम भवत्वसौ । अस्या एव समादेशः कर्तव्यः सर्वमानुषैः ॥ ७८ अस्या यः खण्डयत्याशां स्थातव्यं तेन नो गृहे । सर्वैरपि जनैः शीर्षे तद्वचः शेखरीकृतम् ॥ ७९ उद्यदानन्दसंदोहमेदुरः स धनः क्रमात् । निश्चिन्तचित्तः सद्धर्मालङ्कमणस्ततो ऽभवत् ॥ ८० एतदाख्यानकं शैक्षाः कथितं भवतां मया । सिद्धान्तोदितमेतस्य भावार्थ शृणुताधुना ॥ ८१ यथा राजगृहं लोके मानुषत्वमिदं तथा । यथा धनस्तथाचार्यो विचारचतुराननः ॥ ८२ यथा वध्वस्तथा ज्ञेया विनेयाश्च चतुर्विधाः । पञ्च शालिकणा ये सा ज्ञेया पञ्चमहाव्रती ॥ ८३ यथा स्वजनवर्गो ऽसौ तथा संघश्चतुर्विधः । दानं शालिकणानां यत्तन्महाव्रतरोपणम् ॥ ८४ उज्झित्र शालिकणानुज्झेत्पञ्च महाव्रतीम् । यः स्यादत्र परत्रापि स दुःखौघस्य भाजनम् ॥ ८५ निशङ्कमुपभुक्तास्ते यथा भक्षिकया तथा । व्रतमाजीविकाहेतोर्न विधेयं तथा बुधैः ॥ ८६ ररक्ष रक्षिका यद्वत् तच्छालिकणपञ्चकम् । तद्वहूतिजनै रक्ष्यं तन्महाव्रतपञ्चकम् ॥ ८७ महाव्रतानि संप्राप्य वृद्धिं नेयानि धीमता । रोहिण्या गुरुणा दत्ताः पञ्च शालिकणा यथा ॥ ८८ । इति तदृष्टान्तः ।
1
3
6
9
12
15
18
21
24
27
30
33
36
39
यतः,
* 33
Jain Education International
1
3
तथाहि ।
जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामनि । क्षमापुरी क्षमारम्या समस्ति स्वस्तिकारिणी ॥ ९६
1 ) B स्वाढकानेके 5 ) B नो वा for न वा 16 ) P तत्पुरस्तया 18 ) P प्राहाथ स जनो. 27 ) P कणानुज्झेव पंच (31) PB इति व्रतदृष्टांतः ॥ १४२७ ॥ छ ॥ छ ॥ ( P has the symbol of bhale instead of छ ॥ छ ॥ ) नमः श्री सर्वज्ञाय ॥. 35 ) P किंचिनिनगः, Pom. कुम्भ: 36 ) P निर्मूलनं दि
5
For Private & Personal Use Only
9
12
21
24
१६) विनयः शासने मूलं विनीतः संयतो भवेत् । विनयाद्विप्रमुक्तस्य कुतो धर्मः कुतस्तपः ॥ ८९ विनीतः श्रियमाप्नोति विनीतस्तूज्वलं यशः । कदापि दुर्विनीतेन नैव स्वार्थः प्रसाध्यते ॥ ९०
33
27
36
गुणवानपि नामोति नूनं स्तब्धः परां श्रियम् । किंचिन्नम्रः पिवन्नम्भः कुम्भः प्राप्नोति पूर्णताम् ॥ ९१ अपराधतमः स्तोम निर्मूलनदिनेश्वरः । स्वर्गापवर्गसंसर्गकारणं विनयः सदा ॥ ९२ विनयः सर्वथा कार्यः कुलीनेन वपुष्मता । गुरूणां गुणवृद्धानां तथा बालतपस्विनाम् ॥ ९३ गुणेषु विनयः श्लाध्यस्तेजस्विषु यथा रविः । येन कर्मग्रहाः सर्वे प्रच्छाद्यन्ते निजोदयात् ॥ ९४ विनयात्संपदः सर्वा मेघादिव जलर्द्धयः । केवलज्ञानलाभश्च विनीतस्येव जायते ॥ ९५
30
39
www.jainelibrary.org
Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394