________________
[III. 810: Verse 1681 १०) तथा च । जीवाजीव पुण्यपापाश्रवसंवर निर्जराबन्धमोक्षानि नव तत्त्वानि । दानशीलतपो- 1 भावनामयश्चतुर्विधो धर्मः । आश्रवपञ्चकाद्विरतिः पञ्चेन्द्रियाणां निग्रहः क्रोधमानमायालो भलक्षणदुर्जेय3 कषायजयः मनोदण्डवचनदण्डकायदण्डयविरमणं चेति सप्तदशधा संयमः । नरकगति - तिर्यग्गति- 3 मनुष्य गति - देवगतिलक्षणाश्चतस्त्रो गतयः । मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति पञ्च [शानानि ] । अनित्यता १ अशरण २ भव ३ एकत्व ४ अन्यता ५ अशौच ६ आनव ७ संवर ८ 6 निर्जरा ९ धर्मस्वाख्यातता १० लोक ११ बोधि १२ प्रमुखा भावना द्वादश । नमस्कारसहित १ पौरुषी २ पुरिमार्ध ३ एकासनक ४ एकस्थानक ५ आचामाम्ल ६ उपवास ७ चरिम ८ अभिग्रह ९ विकृति १० प्रभृतिदशविधं प्रत्याख्यानम् । अथवा 'अनागतमतिक्रान्तं, कोटीसहितं नियन्त्रितं चैव । साकारमनाकारं 9 परिमाणकृतं निरवशेषम् ॥ संकेतमद्धा' चैतदपि दशविधम् । क्षुधा १ पिपासा २ शीत ३ उष्ण ४१ देश ५ अचेल ६ अरति ७ स्त्री ८ चर्या ९ निषीधिका १० शय्या ११ आक्रोश १२ वध १३ याचना १४ अलाभ १५ रोग १६ तनुस्पर्श १७ मल १८ सत्कारपुरस्कार १९ प्रशा २० अज्ञान २१ सम्यक्त्व 12 २२ [ लक्षणाः ] द्वाविंशति परीबहाः । स्पर्शन- रसन-प्राण-चक्षुः श्रोत्राणीन्द्रियपञ्चकम् । औत्पत्तिकी 12 १ वैनयिकी २ फार्मजा ३ पारिणामिकी ४ चेति चतस्रो बुद्धयः । आर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति चतुर्विधं ध्यानम् । पदस्थं पिण्डस्थं रूपस्थं रूपातीतमेतदपि चतुर्धा । ज्ञानं दर्शनं चारित्रं 15 वेति रत्नत्रयम् । कृष्णलेश्या १ नीललेश्या २ कापोत लेश्या ३ तेजोलेश्या ४ पद्मलेश्या ५ शुक्ललेश्या ६ 15 चेति [ लेश्या ] षट्कम् । सामायिकं १ चतुर्विंशतिस्तवो २ वन्दनकं ३ प्रतिक्रमणं ४ कायोत्सर्गः ५ प्रत्याख्यानं ६ [ चेति ] षड्विधमावश्यकम् । पृथ्वी कायो ऽकायस्तेजस्कायो वायुकायो वनस्पतिकायस्त्र सकाय18 वेति प जीवनिकायाः । मनोयोगो वचनयोगः काययोगश्चेति योगत्रयी । ईर्यासमिति - भाषासमिति - 18 पपणासमिति - आदाननिक्षेपसमिति - उत्सर्गसमिति [ लक्षणाः ] पञ्च समितयः । इन्द्रियपञ्चकं मनोबलं वचनबलं कायबलं चेति बलत्रयम् उच्छ्वासो निःश्वास आयुश्चेति दशविधाः प्राणाः । मद्यं विषयाः 21 कषाया निद्रा विकथाश्चेति प्रमादपञ्चकम् । अनशनमूनोदरता वृत्तिसंक्षेपो रसत्यागस्तनुक्लेशः संलीनता 21 चेति षड्विधं वाह्यं तपः । प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयो व्युत्सर्गः शुभध्यानं चेत्याभ्यन्तरं षड्विधं तपः । आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा ४ [ रूपाः ] चतस्रः संज्ञाः । ज्ञानावरणीयं १ 24 दर्शनावरणीयं २ वेदनीयं ३ मोहनीयम् ४ आयुष्कं ५ नाम ६ गोत्रम् ७ अन्तरायं ८ चेत्यष्टधा कर्म । मनो- 24 गुप्तिर्वचन गुप्तिः काय गुप्तिरिति गुप्तित्रयम् । अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वचनातिशयश्चेति चत्वारो ऽतिशयाः ।
* 36
27
११) तथा च श्रीजिनेश्वराणां चतुस्त्रिंशदतिशया यथा । देहोऽद्भुतरूपगन्धो निरामयः स्वेदमल- 27 विवर्जित इति प्रथमः । उच्छ्वासनिःश्वासौ कमलपरिमलोपमा विति द्वितीयः । रुधिरामिषे तु गोक्षीरधाराधवले अनामगन्धिके चेति तृतीयः । आहारनीहारविधी अदृश्यौ चेति चतुर्थः । अदृश्ये इति 90 मांसचक्षुषां न पुनरवध्यादिलोचनेन पुंसा । यदाहुः,
30
'पच्छने आहारे अदिस्से मंसचक्खुणो ।' एष चतुर्थः ।
एते चत्वारो ऽपि जगतो ऽप्यतिशेरते तीर्थकरा एभिरित्यतिशयाः, सहोत्थाः सहजन्मानः । अथ कर्मक्षयजा 33 अतिशयाः। योजनाप्रमाणे ऽपि क्षेत्रे समवसरणभुवि नृणां देवानां तिरश्चां च कोटिकोटिसंख्यमवस्थानमिति 33 प्रथमः कर्मक्षयजो ऽतिशयः । वाणी अर्धमागधी नरतिर्यक्कु सुरलोकभाषया संवदति तद्भावाभावेन परिणमतीत्येवं शीला, योजनमेकं गच्छति व्याप्नोत्येवंशीला योजनगामी चेति द्वितीयः । भानां प्रभाणां मण्डलं 36 भामण्डलं मौलिपृष्ठे शिरःपश्चिमभागे तथ्य विडम्बितदिनकरबिम्बलक्ष्मीमनोहरमिति तृतीयः । साग्रे 36 पञ्चविंशतियोजनाधिके गव्यूतिः क्रोशद्वये गव्यूतीनां शतद्वये योजनशत इत्यर्थः, रोगो ज्वरादिर्न स्यादिति चतुर्थः । तथा वैरं परस्परविरोधो न स्यादिति पञ्चमः । तथा ईतिर्धान्योपद्रवकारी प्रचुरो मुषिकादि39 प्राणिगणो न स्यादिति षष्ठः । तथा मारिरौत्पातिकं सर्वगतं मरणं न स्यादिति सप्तमः । तथा अतिवृष्टिनिंर- 39 न्तरं वर्षणं न स्यादित्यष्टमः । तथा अवृष्टिः सर्वथा वृष्ट्यभावो न स्यादिति नवमः । दुर्भिक्षं भिक्षायाम
रत्नप्रभसूरिविरचिता
4 ) P मनःपर्याय B मन:पर्यय 5) PB put serial nos. for अनित्यता eto. 6 ) Po put serial nos. in. some of these lists, and here and there they are separately written with terminations. o is not quite particular in putting these nos. 7) P वरिस for चरिम 11 ) oom. अज्ञान. 17 ) P २ तेउकाय ३ वाउकाय ४ वनस्पति. 24 ) P मोहनीयं च ३ आयुचतुष्कं 25 ) P गुप्तिरिति श्रयम्- 27 > 0 adds च after श्री जिनेश्वराणां33) B कोटिकोटिसंख्यानामवस्थानमिति 35 ) P योजनगामिनो योजनगामिनां 37 ) PB कोशइयं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org