________________
-III $ 9: Verse 168 ]
कुवलयमालाकथा ३
दैवाच्चम्पेश सैन्यस्य सुभटैः करटैरिव । दिवान्धसैन्यवद्धर्षसैन्यं दैन्यमनीयत ॥ १२९ पताकिन्यपि निःशेषा तस्य हर्षमहीपतेः । ननाश काकनाशं सा जीवमादाय सत्वरम् ॥ १३० नश्यद्भिः पदिकैस्त्यक्तो विनीतो ऽपि गते विभौ । परं प्रेष्यैर्न तैर्मुक्तश्चेतनः सुकृतैरिव ॥ १३१ पलायमानः प्रैक्षिष्ट स विनीतः सरस्वतीम् । तत्र स्नात्वा पयः पीत्वा तीरवृक्षमशिश्रयत् ॥ १३२ १८) अत्रान्तरे कान्दिशीकमेकमायुधपाणिना । केनचित्सादिना हन्यमानं मृगमवैक्षत ॥ १३३ कृपा संपूरितस्वान्तः स तयोरन्तरा स्थितः । यतः प्राणिपरित्राणं स्वप्राणैः केऽपि कुर्वते ॥ १३४ तस्मिन् सरङ्गे सारङ्गे गते दूरं निरीक्ष्य सः । जगाद सादिनं रोषपोषिणं मृगरक्षणात् ॥ १३५ सर्वप्राणिशरण्यानामुन्नतानां महात्मनाम् । त्वादृशां न समीचीनं दीनजन्तुविनाशनम् ॥ १३६ मन्ये त्वं लक्षणैरेभिः को ऽप्यसि क्षत्रियोत्तमः । शस्त्रघातो गृहीतास्त्रे क्षत्रियाणां प्रशस्यते ॥ १३७१ इत्यादिवाक्यैः पीयूषपेशलैस्तस्य तन्वतः । स भूपः पृथिवीचन्द्रः प्रबुद्धः कोपमत्यजत् ॥ १३८ धर्मोपदेशदातासौ ममाभूदिति तं समम् । उपकारचिकीः क्ष्मापः पुरे क्ष्मातिलके ऽनयत् ॥ १३९ तं विनीतं महीनाथः स्वपुरे सचिवं व्यधात् । सर्वाधिकारिणं यस्माद्गुणैः कस्को न रज्यते ॥ १४० एतस्यानुपदं ते ऽथ त्रयो ऽपि प्राच्य किंकराः । तामेव नगरीं प्राप्य सेवाहेवाकिनो ऽभवन् ॥ १४१ रक्षता सततं तेन न्यायेन नगरीजनम् । ऊर्जितोपार्जिता कीर्तिरात्मीयो ऽर्थस्तु साधितः ॥ १४२ तेनेत्युक्ताः कर्मकृतः स्नेहात्किमपि याचत । ते ऽवदन्निति निर्लोभा भाग्यैर्लभ्या हि किंकराः ॥ १४३ 15 ६९) अथ क्षमापुरी भग्ना क्षणादेव जितारिणा । चम्पापुरीमहीपेन सर्वसैन्यजुषा रुषा ॥ १४४ स्वपुरी स्वपुरीस्वामिभङ्गतो वित्तहानितः । विषवाक्यो विनीतात्मा प्रववाज विरागवान् ॥ १४५ तप्यमानस्तपस्तीव्रं सहमानः परीषहान् । आधीयानः स सिद्धान्तं तन्वन्नाराधनां गुरौ ॥ १४६ 18 पापकर्मसु तन्द्रालुः श्रद्धालुर्धर्मकर्मसु । दयालुः सर्वभूतेषु स्पृहयालुः शिवाध्वनि ॥ १४७ सासहिश्वोपसर्गाणां शीलाङ्गानां च वावहिः । चाचलिः श्रमणाचारे सिद्धान्ताध्वनि पापतिः ॥ १४८ आजगाम समं स्वेन गुरुणा करुणानिधिः । तत्र क्ष्मातिलकपुरे विषवाक्यमुनिः क्रमात् ॥ १४९ 21 चतुर्भिः कलापकम् ॥
12
अनुज्ञाप्य गुरून् सो ऽथ मासक्षपणपारणे । प्रविवेश परिभ्राम्यन् विनीतसचिवौकसि ॥ १५० कथमेवंविधो भूत्वास्माकीन स्वामिनः पिता । उच्चनीचादिगेहेषु पर्यटत्येष दुर्बलः ॥ १५१ ततस्तमघसंघातघातिनं व्रतिनं मुदा । कर्ममर्मच्छिदं कर्मकृतः सर्वे ववन्दिरे ॥ १५२ तद्दत्तमनपानाद्यमकल्प्य मिति चेतसि । विचिन्त्य नाग्रहीत्साधुर्व्यावृत्योपाश्रयं गतः ॥ १५३ आगतस्य नृपावासाद्विनीतस्य च तस्य ते । प्रमोदमेदुराः कर्मकरास्तच्च न्यवेदयन् ॥ १५४ तथैव सुविनीतात्मा विनीतो मन्त्रिपुङ्गवः । तपःपात्रस्य शिश्राय मुनेः पितुरुपाश्रयम् ॥ १५५ निरीक्ष्य विषवाक्यस्य मुनेरास्यसितद्युतिम् । विनीतसचिवाधीश चित्ताम्भोधिरवर्धत ॥ १५६ शुशोच च स्वं यदयं मम वेश्मागतो ऽपि हि । अगृहीतान्नपानीयो मुनिर्व्यावृत्य जग्मिवान् ॥ १५७ 30 स विनीतस्ततः शुद्धश्रद्धासंभारसंभृतः । अवन्दत गुरून् पूर्व तथा च जनकं निजम् ॥ १५८ ततो गुरुरभाषिष्ट स्पष्टवाग्मम्प्रनायक । शृणु धर्मवचश्चारु क्षिप क्षिप्रमघवजम् ॥ १५९
मा मुहस्त्वं मुधा हे ऽमुष्मिन् संसारका रिणि । आदरं कुरु सद्धर्मे ध्रुवं संसारहारिणि ॥ १६० 33 धर्मः पितेव मातेव हितं यद्विदधात्ययम् । क्रियते तन्न केनापि शिशूनामिव देहिनाम् ॥ १६९ स च धर्मस्तितिक्षादिर्भिक्षूणां दशधा मतः । सम्यक्त्वमूलो गृहिणां ज्ञेयो द्वादशधा पुनः ॥ १६२ देवे ऽर्हति गुरौ साधौ धर्मे च जिनभाषिते । या स्थिरा वासना सम्यक् सम्यक्त्वमिदमाश्रय ॥ १६३ 36 स्थूला हिंसादीनि पञ्चाणुव्रतानि गुणत्रिकम् । शिक्षाव्रतचतुष्कं च स्वीकुरुष्व शिवश्रिये ॥ १६४ विविधिना मन्त्रिन् त्रिसंध्यं देवतार्चनम् । चिरं चारुयशः कुन्दधवलं प्राप्नुहि स्फुटम् ॥ १६५ दीनादीनां श्रियं देहि विधेहि विशदं मनः । न्यायाध्वनि भवाध्वन्यो भिद्धि क्रोधादिशात्रवम् ॥ १६६ 39 जिनेन्द्रमुखसंभूतं सिद्धान्तं सादरं शृणु । सिद्धिसीमन्तिनीं शर्मदायिनीं तत्क्षणादृणु ॥ १६७ सर्वसौख्यमयं स्थानं कापि मोक्षं विना न यत् । विद्यते देहिभिर्भाव्यं तत्तदर्थं समुत्सुकैः ॥ १६८
I
1
3
6
9
12
15
18
21
24
27
30
33
36
39
* 35
Jain Education International
For Private & Personal Use Only
1
3
12 ) P सर्वाधिकारण. 15) P तेवदन्नतिनिर्लोभा B तेवदन्नेति 25 ) P संयात 26 ) B तद्दत्तमन्नपानीयमकल्पमिति. 33 ) P ध्रुवसंसार 41 ) 0 समुत्सकै:
6
24
27
www.jainelibrary.org